सामग्री पर जाएँ

मङ्गलाचरणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मङ्गलाचरणस्य परम्परा भारतीयज्ञानपरम्परायां सकलग्रन्थस्यादौ अस्ति। महाभाष्यकारः पतञ्जलिः लिखति - ‘मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते’ इति। अर्थात् यस्य शास्त्रस्य आदौ मध्ये अन्ते च मङ्गलं भवति, तच्छास्त्रं प्रसिद्धं सर्वत्र प्रचलितं च भवति। अतो मङ्गलाचरणं निश्चितरूपेण कर्तव्यम्। मङ्गलशब्दस्यार्थो भवति - शुभं, कल्याणप्रदञ्च। मङ्गलाचरणे देव-मुनि-गुरुप्रभृतीन् प्रति प्रणतिनिवेदनं क्रियते। तेन कल्याणं भवति। मङ्गलेन विघ्ननाशो भवति, तेन च ग्रन्थः पूर्णतां प्रचारतां च याति।

आरब्धस्य कार्यस्य निर्विघ्नतया परिसमाप्त्यर्थं मङ्गलम् आचरणीयम् इति नियमः। ‘समाप्तिकामो मङ्गलमाचरेत्’ इति शास्त्रवचनम् अपि एतदेव उपदिशति।

शब्दोत्पत्तिः

[सम्पादयतु]

मङ्गति हितार्थं सर्पति, मङ्गति - दूरदृष्टमनेनास्माद्वेति व्युत्पत्तौ मङ्गति हितार्थं सर्पतीत्यर्थे मगिधातोः ‘मङ्गेरलच्’ इत्यौणादिकसूत्रेण अलच्प्रत्यये मङ्गलमिति शब्दो निष्पन्नो भवति। अस्याशयः अभिप्रेतार्थसिद्धिर्भवति। (शब्दकल्पद्रुमः) यस्मात् हितं - कल्याणमयम् अर्थः - प्रयोजनम् सर्पति - समागच्छति। अथवा यस्मात् दूरदृष्टं - अप्राप्यं, परं ज्ञातं लभ्यते इत्यर्थे मग् (मङ्ग) गत्यर्थकधातो अलच् इति उणादिप्रत्ययस्य योगेन मङ्गलमिति शब्दो निष्पद्यते। अस्य सारार्थो भवति अभिप्रेतार्थसिद्धिः। मङ्गलशब्दस्य विवृतिः प्रोक्ता यत् -

मंगशब्दोऽयमुदिष्टः पुण्यार्थस्याभिधायकः।

तल्लातीत्युच्यते सद्भिर्मङ्गलं मंगलार्थिभिः ॥

पापं मलमिति प्रोक्तमुपचारसमाश्रितः।

तद्धि गालयतीत्युक्तं मंगलं पण्डितैर्जनैः ॥

‘मङ्ग’ शब्दः पुण्यार्थवाचकोऽस्ति। मङ्गलातीति इत्यर्थे मङ्गालार्थिभिर्मङ्गलमिति शब्दः प्रयुज्यते। एवमेव मं मलमुपचारेण पापं कालुष्यं गालयतीति, मं पापं गलति येन असौ मङ्गलमिति व्युत्पत्तौ यत् पापं तज्जन्यमनिष्टादिकञ्च दूरीकरोति तद् मङ्गलमित्यर्थश्च भवति। तथा चोक्तम्।

प्रशस्ताचरणं नित्यमप्रशस्तविवर्जनम्।

एतद्धि मङ्गलं प्रोक्तमृषिभिस्तत्त्वदर्शिभिः ॥

तत्त्वदर्शिभिर्मुनिभिः सर्वदा अप्रशस्तं (गर्हितम्) विवर्ज्य प्रशस्ताचरणमेव (प्रशंसनीयमाचरणमेव) मङ्गलं कथितम्।

शब्देऽस्मिन् आचरणमिति संयुज्य मङ्गलाचरणं निष्पद्यते। आङ् उपसर्गान्वितस्य चर्-धातो ल्युट् प्रत्ययेन आचरणम् इति शब्दो निर्मीयते। अनेन सह मङ्गलस्य आचरणमिति षष्ठीतत्पुरुषसमासप्रक्रियया मङ्गलाचरणमिति पूर्णः शब्दः सञ्जायते। अस्य सामान्यार्थो मङ्गलकरणमिति भवति। विशिष्टार्थस्तु कस्यापि सुकार्यारम्भे मङ्गलपाठादिकं कार्यमिति निस्सरति। अस्माकं परम्परायां मङ्गलदायकाः गुरुमुनिदेवप्रभृतयो मान्यजनाः भवन्ति। अतस्तेषां गुणगौरवगानमेव मङ्गलाचरणशब्दस्य व्यवहारिकोऽर्थः प्रचलन्नस्ति।

ग्रन्थसन्दर्भे मङ्गलाचरणम्

[सम्पादयतु]

ग्रन्थसन्दर्भे च मङ्गलं नाम निर्विघ्नसमाप्त्यादिप्रयोजकवाक्यविशेषरूपम्।

यत्तु केचित् खल्वत्र प्रारिप्सितस्य ग्रन्थस्याविघ्नसमाप्तिप्रचयगमनार्थं स्मृत्याचारसिद्धमिष्टदेवतोपासनरूपं मङ्गलमपेक्षितमेवेत्याहुः, तत्रापि मङ्गलस्य विघ्नध्वंस एव फलं, समाप्तिस्तु बुद्धिप्रतिभादिकारणकलापादिति युक्तम्।

मङ्गलस्य फलं न समाप्तिः, अपि तु विघ्नध्वंसः, समाप्तिस्तु बुद्धिप्रतिभादिकारणकलापाद् भवति, तस्मादविघ्नसमाप्तिरूपफलार्थं मङ्गलाचरणमिति कथनमयुक्तम्। समाप्तेस्साक्षान्मङ्गलफलत्वाभावेऽपि समाप्तिं प्रति मङ्गलस्यापेक्षा तु केनापि न निवारयितुं शक्यते, समाप्तिसामग्रीमध्ये बुद्धिप्रतिभादेरिव विघ्नाभावस्याप्यन्तर्भावात्। अन्यथा विघ्नसद्भावेऽपि समाप्त्यापत्तेः। बुद्धिप्रतिभादिमानपि पुरुषो विघ्नेषु सत्सु न खलु ग्रन्थं समापयितुं शक्नोति। तस्मात् समाप्तेः साक्षान्मङ्गलफलत्वाभावेऽपि तत्र मङ्गलाचरणापेक्षा अस्त्येव, मङ्गलाचरणस्य विघ्नाभावं प्रति कारणत्वात्। एतावता मङ्गलाचरणस्य समाप्तिं प्रति प्रयोजकत्वं सिद्ध्यति। ‘मङ्गलाचरणस्य विघ्नध्वंस एव फलम्, समाप्तिस्तु बुद्धिप्रतिभादिकारणकलापाद्’ इत्यादिकथनं तु मङ्गलाचरणत्वेन समाप्तित्वेन कार्यकारणभावो मङ्गलाचरणत्वेन विघ्नध्वंसत्वेन कार्यकारणभावो वा इति विचिकित्सायां मङ्गलाचरणत्वेन विघ्नध्वंसत्वेन तत्कल्पनमेव युक्तमित्यभिप्रायकम्।

ईश्वरद्वारा मङ्गलाचरणम्

[सम्पादयतु]

तथा च ‘मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते वीरपुरुषकाणि च भवन्ति, आयुष्मत्पुरुषकाणि च अध्येतारश्च वृद्धियुक्ता यथा स्युरिति’[1] इति वृद्धिसूत्रस्थमहाभाष्यादिस्मृतिसिद्धकर्तव्यताकं शिष्टाचारादिसिद्धं मङ्गलाचरणं ग्रन्थादौ कृतं स्वयं भगवतापि।

तथा च ‘मङ्गलाचरणं शिष्टाचारात् फलदर्शनात् श्रुतितश्चेति’[2] इति सांख्यसूत्रादिसिद्धकर्तव्यताकं ग्रन्थादौ कृतं मङ्गलाचरणम्।

मङ्गलाचरणं तु स्मृत्याचारसिद्धत्वादेव। मुमुक्षवोऽपि हि फलसङ्गत्यागपूर्वकं कर्माण्याचरन्तो न फलाय किमप्यनुतिष्ठन्ति, अपि तु शास्त्रविहितमित्येव। भगवदाज्ञारूपशास्त्रसिद्धं कर्म सर्वेषामेवानुष्ठेयम्। फलाभिसन्धिमतामिव तद्रहितानामपि तदनुष्ठानं सर्वसंप्रतिपन्नम्। गीतं हि भगवता श्रीकृष्णेन -

सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत। कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ॥ ३.२५॥

न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्।

जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन् ॥ ३.२६॥

लोकसङ्ग्रहमेवापि संपश्यन्कर्तुमर्हसि ॥ ३.२०॥

अविदुषामिव विदुषामपि लोकसङ्ग्रहार्थं सर्वं कर्म कर्तव्यं भवतीति भगवता श्रीस्वामिनारायणेन कृतं स्मृत्याचारसिद्धमङ्गलाचरणं युक्तमेव। प्रोक्तं च भगवता श्रीकृष्णेन -

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन।

नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ ३.२२॥

उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्।

सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ ३.२४॥

स्वकथनानुसारेण भगवता श्रीकृष्णेनापि भगवत्याः महादेवस्य च स्तुतिराधना च कृता। यथा -

त्वमेवसर्वजननी मूलप्रकृतिरीश्वरी।

त्वमेवाद्या सृष्टिविधौ स्वेच्छया त्रिगुणात्मिका ॥[3]

सर्वबीजस्वरूपा च सर्वपूज्या निराश्रया।

सर्वज्ञा सर्वतोभद्रा सर्वमङ्गलमङ्गला ॥[4]

एवमुक्त्वा ददौ ज्ञानमुपमन्युर्महामुनिः।

व्रतं पाशुपतं योगं कृष्णायाक्लिष्टकर्मणे ॥[5]

स तेन मुनिवर्येण व्याहृतो मधुसूदनः।

तत्रैव तपसा देवं रुद्रमाराधयत् प्रभुः ॥ [6]

भस्मौद्धूलितसर्वाङ्गो मुण्डो वल्कलसंयुतः।

जजाप रुद्रमनिशं शिवैकाहितमानसः ॥ [7]

स्थानं प्राहुरनादिमध्यनिधनं यस्मादिदं जायत।

नित्यं त्वामहमुपैमि सत्यविभवं विश्वेश्वरं तं शिवम् ॥ [8]

भगवान् श्रीरामचन्द्रो हि स्वावतारकृत्यसम्पत्त्यै सर्वदा मानुष्याभिनयमेवाकरोत्। उक्तिश्च भगवतो श्रीरामचन्द्रस्य यथा -

आत्मानं मानुष्यं मन्ये रामं दशरथात्मजम्। इति। तथा च

नमामि शम्भुं पुरुषं पुराणं नमामि सर्वज्ञमपारभावम्।

नमामि रुद्रं प्रभुमक्षयं तं नमामि शर्वं शिरसा नमामि ॥[9]

परम्परारक्षणाय मङ्गलाचरणम्

[सम्पादयतु]

नन्वेवं सत्स्वपि प्रमाणेषु किमर्थं लेखनरूपमेव मङ्गलमाचर्यते ? मनसि अपि तत् कर्तुं शक्यते खलु ! इति चेत् सत्यं, मनसि अपि मङ्गलं कर्तुं शक्यते, तेन ग्रन्थकलेवरेऽयोजनेनाप्यभीष्टसिद्धेः तथापि शिष्यशिक्षायै। मङ्गलाचरणमात्रेण शिष्याणां हृदयेष्वस्माभिरपि ग्रन्थारम्भे मङ्गलाचरणं कर्तव्यमिति बुद्धिः कथमुत्पद्येत ? गुरुणा मङ्गलं कृतमित्येवं शिष्यैः कथं ज्ञायेत ? येन ते गुरुणा कृतमित्यस्माभिरपि कर्तव्यमिति जानीयुः। ग्रन्थेनाऽसंयोजितं मङ्गलाचरणं शिष्यशिक्षायै न कल्पते इति मङ्गलाचरणस्य ग्रन्थेन संयोजनमेव शिष्यशिक्षार्थं भवति। अत एव ‘ग्रन्थारम्भे मच्छिष्या अपि एवं मङ्गलं कुर्युः’ इति धिया लेखनरूपं मङ्गलं विधीयते।

अत एव प्रोक्तवान् भगवांश्श्रीकृष्णः लोकानुग्रहायावतीर्णस्यात्मनो लोकानुकरणमपरित्याज्यमिति -

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः।

स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते।।[10]

यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः।

मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः।।[11]

इत्यादिना श्रीमद्भगवद्गीतायाम्।

यद्यहं नार्चयेयं वै ईशानं वरदं शिवम्।

आत्मानं नार्चयेत्कश्चिदिति मे भावितं मनः ॥

मया प्रमाणं हि कृतं लोकः समनुवर्तते।

प्रमाणानि हि पूज्यानि ततस्तं पूजयाम्यहम्।।[12]

इत्यादिना महाभारते

अत एवोक्तम् -

गुरोराचारमाश्रित्य वर्तन्ते मङ्गलार्थिनः।

यान्यस्माकमिति श्रुत्या तदेतदभिधीयते।।

यतो हि स्वकृतानुकीर्तनेन तेषां महिष्ठमङ्गलार्थं चादौ निबध्नाति स्वयं भगवानपि -‘वामे यस्य स्थिता’ इत्यादिना।

तस्मादिदं मङ्गलाचरणं सर्वशास्त्रपरिपाटिप्राप्तशिष्टाचारपरिपालनार्थं शिष्यशिक्षार्थं चैव ज्ञातव्यं ज्ञापितव्यञ्च। एतेन निरस्तनिखिलदोषस्यापि विघ्ननिरसनाय मङ्गलाचरणं न युक्तमित्याशङ्का परास्ता।

नन्वस्तु नामैवं तथाप्याशीरूपं मङ्गलं तु घटेत न तूपास्योपासकभावभेदावबोधकमिदं भगवति घटेत, मैवम्। अनुकरणे किं नामाघटितं, वस्तुदृष्ट्या स्वस्वरूपस्मरणरूपं च।

ननु किं तावन्मङ्गलत्वम् ? शिष्टाचारानुकूलव्यापारविशिष्टत्वम्।

ननु मङ्गलं कतिविधम् ? इति चेच्छृणु -

आशीर्वस्तुनमस्कारनिर्देशात् प्रथमं कविः।

काव्यं कुर्वन्नविघ्नेन कीर्तिं प्रीतिं च विदन्ति।।[13]

आशीर्वादनमस्कारवस्तुनिर्देशभेदतः। मङ्गलं त्रिविधं प्रोक्तं शास्त्रादीनां मुखादिषु।।

नमस्कारात्मकं, वस्तुनिर्देशात्मकम्, आशीर्वादात्मकञ्चेत्येवं भवति मङ्गलाचरणं शिष्टोक्तेः त्रिविधम्। तदाद्यम् - आशिषः = अभीष्टप्रार्थनस्य वादः - उद्यतेऽनेनेति वादः = वाक्यम्। अभीष्टार्थप्रार्थनबोधकवाक्यरूपम्। द्वितीयं नमस्कारात्मकम्। नमस्कारः = नमस्कारकर्तुः स्वापेक्षयोत्कर्षबोधनानुकूलः करशिरःसंयोगविशेषादिरूपो व्यापारः। तद्बोधकवाक्यात्मकम्। यद्वा - नमस्कारः = आशीर्वाचनानुकूलः करशिरःसंयोगविशेषादिरूपः कराभ्यां पादस्पर्शादिरूपो वा व्यापारः। तद्बोधकवाक्यात्मकम्।

स च नमस्कारस्त्रिविधः - कायिको वाचिको मानसिकश्चेति। तत्र कायेन कृतः कायिकः। सोऽपि द्विविधः। यत्किञ्चिदङ्गकृतोऽष्टाङ्गकृतश्च। कराभ्यां चरणस्पर्शादिना कृत आद्यः। द्वितीयः - जानुभ्यां च तथा पद्भ्यां पाणिभ्यामुरसा धिया। शिरसा वचसा दृष्ट्या प्रणामोऽष्टाङ्ग ईरितः ॥ इत्युक्तलक्षणः। वाचिकस्तु ‘ श्रीहरये नमः ’ इत्यादिरूपया वाचा बोधितः। मानसिकस्तु मनोमात्रगोचरः।

वस्तुनिर्देशात्मकं मङ्गलं च - नमस्कार्यदेवतादिगुणगणवर्णनात्मकम्। यथा - ‘ श्रौत्रार्हन्तीचणैर्गुण्यैर्महर्षिभिः ’ इत्यादि।

नन्वस्माकं शिष्टजनैः कतिवारं मङ्गलमाचरितं स्वग्रन्थेषु ? अध्येतारो वृद्धियुक्ताः स्युरित्यर्थं त्रिवारं मङ्गलाचरणं कृतमस्मत्शिष्टजनैः। तद्यथा -

‘ मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते वीरपुरुषकाणि च भवन्ति, आयुष्मत्पुरुषकाणि च अध्येतारश्च वृद्धियुक्ता यथा स्युः ’[14] इति महाभाष्यवचनानुसारेण शिष्टपरम्परा।

आशीर्वादनमस्कारवस्तुनिर्देशभेदतः। मङ्गलं त्रिविधं प्रोक्तं शास्त्रादीनां मुखादिषु।। ‘मङ्गलाचरणं शिष्टाचारात् फलदर्शनात् श्रुतितश्चेति ’[15] इति चाप्तपुरुषोक्तिः सङ्गच्छते इति दिक्।

मङ्गलप्रयोजनम्

[सम्पादयतु]

१. ‘ मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते वीरपुरुषकाणि च भवन्ति, आयुष्मत्पुरुषकाणि च अध्येतारश्च वृद्धियुक्ता यथा स्युः (१.१.१) इति महाभाष्यकारवचनपरिपालनम्।

२. प्रारिप्सितग्रन्थविघ्नव्यूहोपशमनपूर्वकग्रन्थपरिसमाप्तिः।

३. इष्टस्मरणजनितप्राप्तप्रसादप्रयोज्यो ग्रन्थप्रचारः।

४. वक्तृश्रोतॄणामनुषङ्गतो मङ्गलम्।

५. यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः इति न्यायेन शिष्यैरपि स्वग्रन्थनिर्मितिकाले मङ्गलं कार्यमिति बोधनम्।

६. प्रेक्षावत्प्रवृत्तये चानुबन्धचतुष्टयप्रदर्शनम्।

अत एव महाभाष्यकारोऽपि प्राह -

‘भूवादीनां वकारोऽयं मङ्गलार्थः प्रयुज्यते। माङ्गलिक आचार्यो महतः शास्त्रौघस्य मङ्गलार्थं वकारमागमं प्रयुङ्क्ते’[16] इति।

मङ्गलशब्दो धर्मपर्यायः, धर्मार्थ इति यावत्। यथा वेदे ‘त्रयम्बकं यजामहे’[17] इत्यत्र यकारस्य दृष्टप्रयोजनं नास्तीत्यदृष्टार्थो धर्मार्थ एव पाठस्तस्य, तथेहापि वकारस्य।

ननु मङ्गलं नाम धर्मः, तत्र न वकारोच्चारणं तज्जनकं, मानाभावादिति चेन्न, मङ्गलजनक इति नार्थः, किं तु सूचक इति न दोषः। वकारस्यामृतबीजत्वाद्दध्यादिवत् शिष्याणामप्यानुषङ्गिकमङ्गलसूचनार्थमिति भावः।

ग्रन्थादौ वकारस्यामृतबीजत्वात्प्रचयगमनादिसिद्धिरिति रघुवंशमहाकाव्यस्य सञ्जीविनीव्याख्यायामपि प्राह मल्लिनाथः।

ननु[18] अत्र मङ्गलाचरणे कर्तृपदं नैव दृश्यते। कौतस्कुतं तत् ? ‘येन विना यदनुपन्नं तत्तेनाक्षिप्यते’। यथा पीनोऽयं देवदत्तो दिवा न भुङ्क्ते तर्हि रात्रौ भोजनमनुमीयते, भोजनं विना पीनत्वानुपपत्तेः, तथैव प्रकृतेऽपि कर्तारं विना चिन्तये इति क्रियाऽनुपपन्ना तयाऽनुपपन्नया क्रियया ‘अहम्’ इत्यस्य कर्तृपदस्याऽऽक्षेपे न दोष इति तत् सर्वं समञ्जसम्, शाब्दिकानां निकाये - ‘उच्चारितः शब्दः एवार्थप्रत्यायको भवति नानुच्चारितः’ इति सिद्धान्तादाक्षिप्तस्यान्वयानर्हत्वात्। तदा “अस्मद्युत्तमः” इति पाणिनीयसूत्रेणाप्रयुज्यमानोऽप्यहमिति कर्तोत्तमपुरुषो भवति।

मङ्गलाचरणस्य अनुबन्धचतुष्टस्य च सम्बन्धः

[सम्पादयतु]

कस्यापि विषयस्य अध्ययनात् पूर्वं अध्येतुः जिज्ञासा भवति यत् एतत् शास्त्रं किमर्थं पठनीयम् ? अस्मिन् शास्त्रे के के विषयाः सन्ति ? अस्य शास्त्रस्य अध्ययनेन कः लाभः ? किम् अहम् एतस्य शास्त्रस्य पठने अवगमने च समर्थः अस्मि ? मयि तादृशी योग्यता अस्ति न वा ? अस्य ग्रन्थस्य तेन विषयेन सह कः सम्बन्धः ? इत्यादिप्रश्नाः पाठकस्य मस्तिष्के शास्त्रपठनस्य आरम्भे एव उत्पद्यन्ते। एतेषां प्रश्नानां समाधानायैव पूर्ववर्तिन आचार्याः विषयप्रयोजनसम्बन्धाधिकारिरूपम् अनुबन्धचतुष्टयं ग्रन्थादौ प्रास्तौत्।

मन्यते विनानुबन्धं किमपि कार्यं न अनुष्ठीयेत्। अनुबन्धचतुष्टयमध्येतॄणामध्ययनप्रवृत्तौ प्रयोजकम्। समाप्तिकामनया कृतेन मङ्गलेन अनुबन्धचतुष्टयमपि सूचितं चेत् तन्मङ्लं प्रशस्तं मन्यते। ग्रन्थनिबन्धपत्रादिपरिलेखनावसरेऽनुबन्धचतुष्टयस्य परिपालनमन्तरा श्रोता तत्र सोत्साहो न प्रवर्तते। प्रयोजनं चात्रावश्यं वक्तव्यम्। अत एव सूक्तिरियं सदा समाद्रियते -

सिद्धार्थं ज्ञातसम्बन्धं श्रोतुं श्रोता प्रवर्तते।

ग्रन्थादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः।।

सर्वस्यैव हि शास्त्रस्य कर्मणो वापि कस्यचित्।

यावत्प्रयोजनं नोक्तं तावत्तत्केन गृह्यते।।

मीमांसाख्या तु विद्येयं बहुविद्यान्तराश्रया।

न शुश्रूषयितुं शक्या प्रागनुक्त्वा प्रयोजनम्।।

शास्रारम्भेषु सर्वत्र संबन्धः कथ्यते बुधैः।

असंबद्धप्रलापत्वे न प्रवर्तेत बुद्धिमान्।।

तदनुबन्धचतुष्टयं किमिति अनेन पद्येन स्पष्टं भवति।

सम्बन्धश्चाधिकारी च विषयश्च प्रयोजनम्।

विनानुबन्धं ग्रन्थादौ मङ्गलं नैव शस्यते ॥

विषयश्चाधिकारी च ग्रन्थस्य च प्रयोजनम्।

सम्बन्धश्च चतुर्थोऽस्तीत्यनुबन्धचतुष्टयम् ॥

विषयः कः फलं किं कः सम्बन्धः कोऽधिकारवान्। इत्याकाङ्क्षानिवृत्त्यर्थं चतुष्टयमुदीर्य्यते ॥

इति आप्तपुरुषोक्त्या ग्रन्थादौ श्रोतृप्रवृत्तये प्रयोजनाद्यनुबन्धचतुष्टयं तु सर्वप्रथमं वक्तव्यम्। अत एव सर्वस्यापि शास्त्रग्रन्थस्य आरम्भो भवति अनुबन्धचतुष्टयेनैव। अस्मिन् चत्वारोंऽशा विद्यन्ते -

१. विषयः - निर्दिष्टे शास्त्रग्रन्थे प्रतिपद्यमानोऽर्थः तन्नाम चर्च्यमाणो विषयः सः। अत उक्तम् -

विशब्दो हि विशेषार्थः सिनोतेर्बन्ध उच्यते।

विशेषेण सिनोतीति विषयोऽतो नियामकः।।

शाब्दिकवर्णनमेवास्ति विषयः। अतः प्रोक्तम् -

न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते।

अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते ॥[19]

२. प्रयोजनम् - निर्दिष्टस्य ग्रन्थस्य अध्ययनेन वाचकेन प्राप्यमाणः लाभ एव प्रयोजनम्। प्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्तते। अत एव ‘सर्वे वै प्राणभूताः व्यवहाराः प्रयोजनाश्रयाः’। अत एव यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम्। तस्मात् कथितम् -

ज्ञानजन्या भवेदिच्छा इच्छाजन्या भवेत् कृतिः।

कृतिजन्या भवेच्चेष्टा तज्जन्यैव क्रिया भवेत् ॥

३. सम्बन्धः - लेखकग्रन्थयोः जन्यजनकभावः सम्बन्धः। ग्रन्थपाठकयोः बोध्यबोधकभावः सम्बन्धः। विषयग्रन्थयोः प्रतिपाद्यप्रतिपादकभावः सम्बन्धः। वाच्यवाचकभावः सम्बन्धः। अतः प्रोक्तम् -

विचारत्वं विचार्यत्वं निर्धार्यत्वं तथेतरत्।

प्राप्यत्वं प्रापकत्वं च संबन्ध इति कथ्यते।।

४. अधिकारी - पदार्थतत्त्वजिज्ञासुरधिकारी। अत एवाह -

विद्यया सह मर्तव्यं कुशिष्याय न दापयेत्।

तथापि दीयते विद्या पश्चात्संजायते रिपुः।।

चतुर्भिः अंशैः युक्तमित्यतः चतुष्टयम् इति निर्दिष्टम्। कस्यापि ग्रन्थस्य विषये एतेषामन्वेषणं कर्तव्यम्। एतेषामवगमनात् परमेव (अनु = पश्चात्) ग्रन्थः वाचकं पठने (बध्नाति) प्रेरयति। अतः अयमनुबन्धः। एवं चतुर्णामंशानां विवरणेनैव ग्रन्थस्य आरम्भः सर्वैः अनुस्रियमाणः सम्प्रदायो वर्तते।

सन्दर्भाः

[सम्पादयतु]

[1] महाभाष्यम् - (१.१.१)

[2] सांख्यसूत्रम् - (५.१)

[3] ब्रह्मवैवर्तपुराणम् - प्रकृतिखण्डे - (६६.७)

[4] ब्रह्मवैवर्तपुराणम् - प्रकृतिखण्डे - (६६.१०)

[5] कूर्मपुराणम् पू्र्वभागे - (२५.४७)

[6] कूर्मपुराणम् पू्र्वभागे - (२५.४८)

[7] कूर्मपुराणम् पू्र्वभागे - (२५.४९)

[8] कूर्मपुराणम् पू्र्वभागे - (२५.६५)

[9] ब्रह्मपुराणम् - (१२३.१९५)

[10] श्रीमद्भगवद्गीता - (३.२१.२१)

[11] श्रीमद्भगवद्गीता - (३.२१.२३)

[12] महाभारतम् - (शान्तिपर्व.३२८.२२-२३)

[13] सरस्वतीकण्ठाभरणम्

[14] वृद्धिरादैच् - (१.१.१)

[15] सांख्यसूत्रम् - (५.१)

[16] महाभाष्यम् - (१.३.१))

[17] तै.सं.- (१८.६.१०)

[18] प्रश्नः । यथा - ‘ ननु गमिष्ये ’ इत्यादौ ।

[19] वाक्यपदीयम् - (१.१३१)

"https://sa.wikipedia.org/w/index.php?title=मङ्गलाचरणम्&oldid=499795" इत्यस्माद् प्रतिप्राप्तम्