मदनलाल ढीङ्गरा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
मदनलाल ढीङ्गरा
Dhingra.jpg
मदनलाल धींगड़ा (1883-1909)
जन्म (१८८३-वाचनिकदोषः : < इत्येतत् अनपेक्षितं चिह्नम् ।-१८)१८ १८८३
अमृतसर, पंजाब, ब्रिटिश भारत
मृत्युः फलकम्:Death date
पेंटविले जेल, लन्दन यू॰के॰
शिक्षणस्य स्थितिः यूनिवर्सिटी कॉलेज, लन्दन Edit this on Wikidata
वृत्तिः विद्यार्थी&Nbsp;edit this on wikidata
Organization इण्डिया हाउस
आन्दोलनम् भारतीयस्वतन्त्रतासङ्ग्रामः

मददनलाल ढीङ्गरा-महोदयः भारतस्य स्वतन्त्रसङ्ग्रामस्य क्रान्तिकारी । सः सावरकरस्य सहयोगी आसीत् । इङ्ग्लैण्ड-देशे सः कर्जन् इत्याख्यस्य आङ्ग्लाधिकारिणः हत्याम् अकरोत् । सा घटना अतीव प्रसिद्धा अस्ति ।

शिक्षणम्[सम्पादयतु]

मदनलालः गृहं त्यक्त्वा लण्डन्-नगरं गतवान् आसीत् । किन्तु तत्र अपि सः स्थिरत्वेन भवितुं न अशक्नोत् । अतः सः पुनः भारतं प्रत्यागतः । भारतदेशस्य पञ्जाब-राज्यस्य सङ्गरूर-नगरे तस्याग्रजः बिहारीलालः निवसति स्म । सः तस्य गृहं गतवान् । बिहारीलालः चिकित्सकः आसीत् । तस्मिन् समये बिहारीलालः मुख्यवैद्यकीयाधिकारी (Chief Medical Officer) आसीत् । बिहारीलालेन मदनलालस्य स्वागतं कृतम् । बिहारीलालेन मदनलालः पुनः अध्ययनाय प्रेरितः, उद्यतः च । किन्तु अध्ययनाय लण्डन्-नगरं गन्तव्यम् आसीत् । बिहारीलानेन अस्यै योजनायै पितुः अनुमतिः अपि प्राप्ता आसीत् । अनन्तरं मदनलालेन पुनः अध्ययनकार्यम् आरब्धम् । अध्ययनस्य सम्पूर्णः निवेशः परिवारेण एव क्रियते स्म । लण्डन्-नगरे अध्ययनेन भारते उच्चपदवृत्तिः प्राप्यते स्म । यतः तस्मिन् समये लण्डन्-नगरं शिक्षणक्षेत्रस्य केन्द्रं कथ्यते स्म । ई. स. १९०६ तमस्य वर्षस्य जुलाई-मासस्य ६ दिनाङ्के (६ जुलाई १९०६) मदनलालः लण्डन्-नगरं गतवान् । तत्र तस्य अग्रजः कुन्दनलालः आसीत् । कुन्दनलालेन मदनलालस्य निवासव्यवस्था कारिता । कुन्दनलालः अपि व्यापारार्थं लण्डन्-नगरं गतवान् आसीत् । मदनलालः मासत्रयं यावत् लण्डन्-नगरस्य उच्चभवनानि, भौगोलिकस्थितिं द्रष्टुम् अतीतम् । अपराधान्वेषणविभागानुसारं (CID) मदनलालः जुलाई-मासे लण्डन-नगरं गतवान् आसीत् । अनन्तरम् ई. स. १९०६ तमस्य वर्षस्य अक्तूबर-मासस्य १९ तमे (१९ अक्टूबर १९०६) दिनाङ्के सः महाविद्यालये अभियान्त्रिकीछात्रत्वेन प्रवेशं प्रापत् । महाविद्यालयस्य वृत्तानुसारं मदनलालः स्नातककक्षायाः अन्तिमदिवसं यावत् प्रतिदिनं महाविद्यालयं गच्छति स्म । ई. स. १९०६ तः १९०९ तमवर्षं यावत् सः लण्डन्-नगरे आसीत् । तेन अभियान्त्रिकीशास्त्रे तृतीयश्रेण्यां पदविका प्राप्ता ।

”इण्डिया हाऊस”, मदनलालः च[सम्पादयतु]

“श्यामजी कृष्णवर्मा” भारतीयः आसीत् । सः लण्डन्-नगरे निवसति स्म । लण्डन्-नगरे निवासे सति सः भारतस्य क्रान्तिकारिगतिविधिभ्यः अवगतः आसीत् । ततः एव सः भारतस्य स्वातन्त्र्याय कार्याणि करोति स्म । तेन लण्डन्-नगरे एकं गृहं क्रीतम् । तस्य नाम “इण्डिया हाऊस्” इति कारितम् आसीत् । ई. स. १९०५ तमे वर्षे जुलाई-मासस्य १० तमे (१० जुलाई १९०५) दिनाङ्के तस्य गृहस्य उद्घाटनं कृतम् । उद्घाटनसमये “दादाभाई नौरोजी”, “लाला लाजपतराय”, “लाला हंसराज”, “एंथोनी कुल्च”, “मदन देशपड”, “स्वीनी” इत्यादयः उपस्थिताः आसन् । श्यामेन तत्गृहं इङ्ग्लैण्ड्-देशे निवसतां विद्यार्थीनां, जनानां च निवासाय स्थापितम् आसीत् । तत्र क्रान्तिकारिविषयेषु चर्चा क्रियते स्म । तस्यां सभायां बहवः जनाः आमन्त्रिताः भवन्ति स्म । ये स्वातन्त्र्याय योगदानं दातुम् इच्छन्ति स्म । तेभ्यः तत्गृहं निवासाय दीयते स्म । तस्मिन् गृहे प्रतिदिनं सभा क्रियते स्म । तस्यां सभायां सभाजनाः स्वविचारान् प्रकटयितुं शक्नुवन्ति स्म । समयान्तरे “इण्डिया हाऊस्” क्रान्तिकारिणां तीर्थस्थलम् अभवत् । भारतात् आगतेभ्यः जनेभ्यः तत्गृहं निवासस्थलम् आसीत् । अल्पव्ययेन एव जनाः तत्र निवसितुं शक्नुवन्ति स्म । ई. स. १९०६ तमे वर्षे मदनलालः, सावरकरः च अध्ययनाय लण्डन्-नगरं गतवान् आसीत् । श्यामेन द्वे छात्रवृत्त्यौ प्रकाशिते आस्ताम् । अतः सावरकरः श्यामेन प्रकाशितां “शिवाजी” इति नामिकां छात्रवृत्तिं प्राप्य अधिवक्तुः अध्ययनार्थं गतवान् आसीत् । किन्तु मदनलालः स्वेच्छानुसारं परिवारसाहाय्येन अभियान्त्रिकाध्ययनाय गतवान् आसीत् । सावरकरः लण्डन्-नगरं प्राप्य “इण्डिया हाऊस्” इत्यस्मिन् गृहे निवासाय सदस्यतां प्राप्तवान् । सावरकरः पूर्वतः एव स्वातन्त्र्यविषयात् अवगतः आसीत् । किन्तु मदनलालाय अयं विषयः नूतनः आसीत् । सः राजनीतिक्षेत्रे अपि नूतनः एव आसीत् । ढींगरा-परिवारः आङ्ग्लसर्वकारं सर्वस्वं मन्यते स्म । किन्तु सावरकर-परिवारः तस्य विरोधं करोति स्म ।

मदनलालः “इण्डिया हाऊस्” इत्यस्य गृहस्य विषये न जानाति स्म । यतः लण्डन्-नगरं प्राप्तिपूर्वम् एव तस्य परिवारजनैः लण्डन्-नगरे मदनलालस्य निवासाय व्यवस्था कारिता आसीत् । विश्वविद्यालयं प्रवेशानन्तरं मदनलालः “इण्डिया हाऊस्” विषये ज्ञातवान् । अनन्तरं सः मित्रेण सह “इण्डिया हाऊस्” इतीमं गृहं गतवान् । तस्य गृहस्य वातावरणं, जनेषु परस्परम् आत्मीयतां, कार्यशैलीं, सावरकरस्य भाषणस्य वैशिष्ट्यं च द्रष्ट्वा मदनलालः मुग्धः जातः । तत्रोपस्थिताः सर्वे जनाः भारतीयाः आसन् । ते सर्वे लण्डन्-नगरे अध्ययनाय आगतवन्तः आसन् । केचन जनाः स्वपरिश्रमेण छात्रवृत्तिं प्राप्य अध्यययनं कुर्वन्तः आसन् । केचन जनाः मध्यमवर्गीयाः आसन् । सर्वे युवकाः गृहं त्यक्त्वा उज्ज्वलभविष्यस्य कामनायै तत्र गतवन्तः आसन् । मदनलालः “इण्डिया हाऊस्” इत्येतत् स्थलं गच्छति स्म । प्रतिरविवासरे तु अवश्यमेव सः गच्छति स्म । सः सभायामपि उपस्थितः भवति स्म । सभासु ये जनाः भाषणं कुर्वन्ति स्म, तेषां एकचित्तेन सः भाषणं शृणोति स्म । मदनलालः ई. स. १९०८ तमस्य वर्षस्य अप्रैल-मासतः अक्टूबर-मासपर्यन्तम् “इण्डिया हाऊस्” इत्यत्र एव निवसति स्म । ई. स. १९०९ तमस्य वर्षस्य प्रथमे मासे अपि सः तत्रैव निवसति स्म । अस्मिन् अन्तराले मदनलालस्य भ्राता कुन्दनलालः व्यापारस्य कार्यार्थं लण्डन्-नगरं गतवान् आसीत् । कुन्दनलालस्य मदनलालेन सह मेलनम् अभवत् । कुन्दनलालेन तस्य अध्ययनविषयिणी चर्चा कृता । मदनलालस्य पिता तस्य राजनैतिकगतिविधीः ज्ञातवान् आसीत् । अत एव पित्रा कुन्दनलालः प्रेषितः । अतः कुन्दनलालः मदनलालं बोधयितुं लण्डन्-नगरं गतवान् । कुन्दनलालेन उक्तं यत् - “पिता भवतः राजनैतिकगतिविधिभिः क्रुद्धः अस्ति । “ढीङ्गरा-परिवारे ब्रिटिश्-सर्वकारस्य बहवः उपकाराः सन्ति” इति कदापि न विस्मरणीयम् । अतः भवता अपि ब्रिटिश्-सर्वकाराय निष्ठावान् भवितव्यः । किन्तु कुन्दनलालेन सह मदनलालस्य समर्धनं नासीत् । तेन कुन्दनलालः निराशः जातः । अन्ततो गत्वा कुन्दनलालः भारतं प्रत्यागतवान् । ई. स. १९०९ तमवर्षपर्यन्तं मदनलालः पूर्णतया क्रान्तिकारी जातः आसीत् ।

कर्जन्-हत्याकाण्डः[सम्पादयतु]

ई. स. १९०९ तमस्य वर्षस्य जुलाई-मासस्य १ दिनाङ्के (१ जुलाई १९०९) मदनलालस्य जीवनस्य महत्त्वपूर्णः दिवसः आसीत् । मदनलालः अस्य दिवसस्य प्रतीक्षां कुर्वन् आसीत् । मदनलालस्य अध्ययनम् अपि समाप्तं जातम् आसीत् । तस्य परिवारे सर्वे साक्षराः आसन् । कोऽपि अशिक्षितः नासीत् । सः द्विवादने गृहात् निर्गतः । पञ्च वा षड् वादने सः अग्न्यस्त्राभ्यासाय काञ्चन अग्न्यस्त्राभ्यासशालां गतवान् आसीत् । तत्र तेन अग्न्यस्त्रस्य अभ्यासः कृतः । तस्य पार्श्वे “कोल्ट् पिस्टोल्” नामकम् अग्न्यस्त्रम् आसीत् । तस्य अस्त्रस्य वैशिष्ट्यम् आसीत् यत् – अस्त्रचालनानन्तरं रिक्तः “वेष्टः (Cartridge) स्वतः एव बहिरागच्छति, नूतनः वेष्टः अपि स्वतः स्थानं प्राप्नोति च । मदनलालः वैयक्तिक स्वचालितेन अग्न्यस्त्रेण अभ्यासं कुर्वन् आसीत् । मदनलालः तद्दिवसात्मकेन अभ्यासेन सन्तुष्टः आसीत् । सप्तवादने सः गृहं प्रत्यागतवान् आसीत् । गृहं प्राप्य सः “नेशनल् इण्डियन् एसोसिएशन्” इत्यस्याः संस्थायाः गोष्ठीं गन्तुं सज्जः अभवत् । मदनलालः अस्याः संस्थायाः सदस्यः आसीत् । भारतीय विद्यार्थिनां साहाय्यार्थम्, इङ्ग्लैण्ड्-देशस्य विषये अवबोधयितुं च आङ्ग्लसर्वकारेण इयं संस्था स्थापिता । इयं संस्था तेभ्यः निवासाय, भोजनाय, अध्ययनाय च व्यवस्थां करोति स्म । संस्थायाः उद्देश्यमिदं केवलम् आडम्बरः एव आसीत् । किन्तु भारतीयानां युवकानां निरीक्षणम् एव अस्याः संस्थायाः मुख्योद्देश्यम् आसीत् । ते युवकाः कुत्र निवसन्ति, किं कुर्वन्ति इति सर्वं निरीक्षयति । संस्था तेषां युवकानां मनसि ब्रिटिश्-सर्वकारस्य विश्वासं स्थापयितुं प्रयासान् करोति स्म । अतः यदा ते भारतं प्रति गच्छति, तदा ब्रिटिश्-सर्वकारस्य समर्थनं कुर्युः इति तस्याः संस्थायाः लक्ष्यम् आसीत् । मदनलालः तस्याः संस्थायाः सदस्यः आसीत् । तथापि तस्यै संस्थायै सहानुभूतिः नासीत् । मार्च-मासात् पूर्वं मदनलालः अस्याः संस्थायाः महिलासचिवं “मिस् बैक्” इत्याख्यां मिलितवान् । मदनलालेन अस्याः संस्थायाः सदस्यत्वं प्राप्तुं निवेदनं कृतम् आसीत् । तेन मदनलालः मार्च-मासे अस्याः संस्थायाः सदस्यत्वं प्रापत् ।

मदनलालेन पञ्जाबी-संस्कृत्यनुसारं शिरोवेष्टः धृतः । अग्न्यस्त्राणि नीत्वा पादोननववादने सः गृहं त्यक्तवान् । सः “इम्पीरियल्-इन्स्टीट्यूट्” इत्यत्र गतवान् । तत्र “नेशनल् इण्डियन् एसोसिएशन्” इत्यस्याः संस्थायाः सभा जायमाना आसीत् । प्रतिवर्षं भारतीयान् आकर्षयितुम् इयं सभा आयोज्यते स्म । मदनलालः अस्याः संस्थायाः सर्वैः कार्यैः अवगतः आसीत् । अतः अस्यै संस्थायै तस्य मनसि स्नेहः एव नासीत् । सः केवलं स्वस्य उद्देश्यं पूर्णं कर्तुम् एव तस्याः संस्थायाः सदस्यत्वं प्रापत् । अस्याः संस्थायाः वित्तमन्त्रित्वेन “कर्जन् वायली” इत्याख्यः अधिकारी आसीत् । “नेशनल् इण्डियन् एसोसिएशन्” इत्यस्याः संस्थायाः “ऐट् होम्” इत्यस्मिन् कार्यक्रमे द्विशताधिकाः सदस्याः उपस्थिताः आसन् । अस्मिन् कार्यक्रमे बह्व्यः भारतीयमहिलाः अपि समागताः । “सर् चार्ल्स्”, “लेडी लायल्” इत्येतौ अतिथीनां स्वागतं कुर्वन्तौ आस्ताम् । “सर् स्टूअर्ट्”, “लेडी बेयले”, “सर् लेजले”, “लेडी प्रॉबिन्”, “सर् फ्रैडी क्रैण्डी”, “सर् कवास् जहाँगीर”, “राजपुत्री सोफी”, “दिलीपसिंह” चेत्यादयः अस्यां सभायाम् उपस्थिताः आसन् । रात्रौ ९ वादने “मिस् बैक्” इत्याख्यया सह मदनलालः मिलितवान् । किञ्चित् क्षणं तौ वार्तालापं कृतवन्तौ । अनन्तरं मदनलालः अन्यैः अतिथभिः सह परिचयं कुर्वन् आसीत् । रात्रौ सत्यां अतिथयः गृहं गच्छन्तः आसन् । “कर्जन् वायली” इत्याख्यः तावत्पर्यन्तम् अपि सभां न प्राप्तवान् । “कर्जन् वायली” इत्याख्यः भारते आङ्ग्लसर्वकारपक्षतः उच्चपदाधिकारित्वेन नियुक्तः जातः आसीत् । किन्तु गतवर्षेभ्यः सः इङ्ग्लैण्ड्-देशे एव निवसति स्म । सः “नेशनल् इण्डियन् एसोसिएशन्” अस्यां संस्थायां वरिष्ठाधिकारित्वेन कार्यरतः आसीत् । बहवः अतिथयः तस्य आगमनस्य प्रतीक्षां कुर्वन्तः आसन् । तेषु अतिथिषु मदनलालः विशेषतया “कर्जन् वायली” इत्याख्यस्य प्रतीक्षां कुर्वन् आसीत् ।

पादोनैकादशवादने मदनलालः पुनः “मिस् बैक्” इत्यख्यां मिलितवान् । तस्मिन् समये बहुवारं तौ वार्तालापं कृतवन्तौ । वार्तालापे मदनलालेन स्वस्त विद्याभ्यासस्य, परीक्षायाः च विषये चर्चा कृता । “कर्जन् वायली”, “लेडी वायली” च सर्वेषु कार्यक्रमेषु समागच्छतः स्म । किन्तु तस्मिन् दिवसे “मुम्बई मिल् ऑनर्स् एसोसिएशन्” अस्याः समितेः अध्यक्षः “फजुलभाई करीमभाई इब्राहिम” इत्याख्यः लण्डन्-नगरं प्राप्तवान् आसीत् । सः अनुजेन सह केभ्यश्चित् दिवसेभ्यः लण्डन्-नगरं प्राप्तवान् आसीत् । तस्मिन् दिवसे “फजुलभाई करीमभाई इब्राहिम” इत्याख्यस्य रात्रिभोजनं “कर्जन् वायली” इत्याख्येन सह आसीत् । भोजनं समाप्य “कर्जन् वायली” पत्न्या, “फजुलभाई करीमभाई इब्राहिम” इत्याख्येन, भारतीयातिथिभिः च सह सभागृहं प्राप्तवान् । “कर्जन् वायली”, “लेडी वायली” इत्येतौ अतिथीः मिलन्तौ आस्ताम् । “कर्जन् वायली” इत्याख्यं द्रष्ट्वा मदनलालस्य रक्तसञ्चारः तीव्रगत्या सञ्चरन् आसीत् । अतिथयः गृहं गच्छन्तः आसन् । “कर्जन् वायली” अपि गृहं गन्तुं तत्परः अभवत् । अवसरं प्राप्य मदनलालेन “कर्जन् वायली” इत्याख्यस्योपरि अग्निगोलिकाः चालिताः । अग्निगोलिकाभिः “कर्जन् वायली” इत्याख्यः हतः । मदनलालेन आत्मरक्षणार्थं अन्ययोः द्वयोः अपि गोलिकाः चालिताः । समीपे स्थितैः अङ्गरक्षकैः मदनलालः निबद्धः । अग्रिमे दिवसे मदनलालः न्यायालयम् आनीतः । मदनलालस्योपरि जनत्रयस्य हत्यायाः आक्षेपः आसीत् । न्यायालये मदनलालेन स्वस्य वक्तव्यं प्रदत्तम् । किन्तु तस्य वक्तव्यं कोऽपि स्पष्टतया ज्ञातुम् असमर्थाः नासन् । सर्वेषु चर्चा जायमाना आसीत् । इङ्ग्लैण्ड्-देशस्य विभिन्नसमाचारपत्रेषु हत्यायाः कारणानां मन्तव्यानि दृश्यन्ते । सर्वे जनाः हत्यायाः मूलकारणं ज्ञातुम् उत्सुकाः आसन् । किन्तु मदनलालस्य वस्त्रकोषात् एकम् पत्रं प्राप्तम् आसीत् । तस्मिन् पत्रे मदनलालस्य वक्तव्यं लिखितम् आसीत् यत् – “मदनलालेन आङ्ग्लसर्वकारस्य नीतिनां विरोधाय, भारतस्य स्वतन्त्रतायै च कार्यम् इदं सम्पादितम् । किन्तु इङ्ग्लैण्ड-सर्वकारः प्रभावितः मा भवेत् इति विचिन्त्य इङ्ग्लैण्ड्-सर्वकारेण तद्वक्तव्यं रहसि स्थापितम् । तेन जनाः सत्यतायाः अज्ञाताः आसन् ।

अस्य हत्याकाण्डस्य विषये अन्वेषणानि आरब्धानि । ई. स. १९०९ तमवर्षस्य जुलाई-मासस्य २ दिनाङ्के (२ जुलाई १९०९) मदनलालः न्यायालयम् आनीतः । न्यायाधीशेन न्यायालये मदनलालाय बहूनि प्रश्नानि पृष्टानि । मदनलालेन उक्तं यत् – “अहं “लालकाका” इत्याख्यं मारितुं नेच्छामि स्म । अहं तं न जानामि स्म । किन्तु केवलम् आत्मरक्षायै एव मया गोलिका चालिता” इति । मदनलालस्य वक्तव्यं श्रुत्वा न्यायाधीशेन मदनलालः कारागारं प्रेषितः । न्यायाधीशेन अस्याः घटनायाः अन्वेषणं कर्तुम् आदेशाः प्रदत्ताः । किन्तु अन्वेषणे किमपि न प्राप्तम् । मदनलालः अपि न्यायालयं गन्तुं नेच्छति स्म । बहुवारं न्यायालयस्य आह्वाने सति अपि मदनलालः न गतवान् । न्यायाधीशाः अस्य अभियोगस्य निर्णयं कर्तुं तत्पराः आसन् । यतः यदि युवकेषु अस्य अभियोगस्य प्रभाव भविष्यति, तर्हि युवकाः एतादृशं कार्यं कर्तुं तत्पराः भविष्यन्ति इति । युवकानां हृदि देशभक्तेः भावना समुद्भविष्यति इति चिन्तया न्यायाधीशैः मदनलालः अपराधी उद्घोषितः । सर्वकारः जानाति स्म यत्- इयं घटना राजनैतिकी अस्ति, तथापि सः केवलं दुर्घटनारूपेण जनेषु प्रदर्श्यते ।

“मदनलालस्य कार्यस्य जनाः अनुसरणं मा कुर्युः” इति विचिन्त्य सर्वकारः अयम् अभियोगः शीघ्रं समाप्तकर्तुम् इच्छति स्म । अतः सर्वकारेण न्यायालयीयानि कार्याणि समाप्य अस्याभियोगस्य समापनस्य प्रयासाः कृताः । अस्मिन् अभियोगे दशसाक्षिभिः स्वस्य वक्तव्यानि प्रदत्तानि । साक्षिणां वक्तव्यानुसारं मदनलालस्य चरित्रोपरि त्रयः आक्षेपाः प्रस्थापिताः । तैः आक्षेपैः तस्य चरित्रं प्रभावितम् अभवत् । साक्षिणां वक्तव्यानुसारं यत् – “अस्याः घटनायाः अन्ते मदनलालेन आत्महत्यायाः प्रयासः कृतः ।घटनायाः प्राग् तेन भाङ्गसेवनं कृतम् आसीत् । सः क्रान्तिकारिणां कार्यकर्ता आसीत्” इति त्रयः आक्षेपाः आसन् । तेषु दशसाक्षिषु “मनमोहन सिन्हा” इत्याख्यः अपि अन्यतमः आसीत् । दशसाक्षिषु मनमोहनः एकाकी एव भारतीयविद्यार्थी आसीत् । तेन एव स्वस्य वक्तव्ये उक्तं यत् – मदनलालेन आत्महत्यायाः प्रयासः कृतः आसीत् । मनमोहनेन न्यायालये उक्तं यत् – “घटनायाः पूर्वे परे वा कोऽपि कलहः न जातः । मया मदनलालः बाह्वोः बद्धः आसीत् । मदनलालेन मयि अग्न्यस्त्रस्य लक्ष्यं साधितम् । अनन्तरं तेन अग्न्यस्त्रं परिवर्त्य आत्मानं हन्तु मस्तिष्के स्थापितम् । तेन एकं वारं गोलिका चालिता । किन्तु अग्न्यस्त्रं रिक्तम् आसीत् । अतः गोलिकायाः चालने सति अपि किमपि न अभवत् । अनन्तरं मया मदनलालः अधः पातितः” इति ।

मनमोहनस्य वक्तव्यं सत्यं वा असत्यम् इति अविचार्यम् एव न्यायाधीशैः निर्णयः श्रावितः । यतः मनमोहनस्य वक्तव्यं परिशीलनीयम् आसीत् । परिशीलनेन विना एव सर्वकारेण निर्णयः कृतः ।

न्यायालयस्य निर्णयः[सम्पादयतु]

ई. स. १९०९ तमवर्षस्य जुलाई-मासस्य ५ दिनाङ्के (५ जुलाई १९०९) न्यायालयद्वयस्य अन्वेषणपरिणामानां प्रस्तुतिः अभवत् । तस्मिन् दिने मदनलालः न्यायालयं न आगतवान् । यतः सः रक्षकाणाम् अष्टदिवसात्मकान्वेषणप्रयासाय कारागारे आसीत् । ई. स. १९०९ तमस्य वर्षस्य जुलाई-मासस्य १० दिनाङ्के (१० जुलाई १९०९) पुनः न्यायालयीयकायमारब्धम् । तस्मिन् दिवसे रक्षकाणां अन्वेषणप्रयासानां समयः समाप्तः जातः आसीत् । अतः मदनलालः तस्मिन् दिवसे न्यायालयम् आनीतः । न्यायालये “सर् एडवर्ड् ब्रैडफोर्ड्”, “होरेस् स्मिथ्”, “सर् चार्ल्स् मैथ्यू” च उपस्थिताः आसन् । “ए एच् बोडकिन्” इत्याख्येन अधिवक्तृणा अभियुक्तस्य जीवनसम्बद्धपरिचयेन न्यायालयीयकार्यम् आरब्धम् । तेन उक्तं यत् – “मदनलालः गतत्रयवर्षेभ्यः लण्डन्-नगरे निवसति स्म । त्रिषु वर्षेषु तेन महाविद्यालये अभियान्त्रिकविषये अध्ययनं कृतम् आसीत् । तेन अभियान्त्रिकविषये स्नातकस्य उपाधिः अपि सम्प्राप्ता । ई. स. १९०९ तमस्य वर्षस्य जनवरी-मासस्य २३ तमे (२३ जनवरी १९०९) दिनाङ्के मदनलालः अग्न्यस्त्रस्य अधिकारं प्राप्तुं सन्देशालयं गतवान् आसीत् । अधिकारं प्राप्य तेन इयं घटना कृता । तेन “फनलैण्ड्” इत्यत्र अग्न्यस्त्रं चालितुं प्रशिक्षणं प्राप्तम् आसीत् । जुलाई-मासस्य १ दिनाङ्के अपि सः अभ्यासाय गतवान् आसीत् । यदा सः सभायां गतवान् आसीत्, तदा सः चुरिकां, अग्न्यस्त्रद्वयं च नीतवान् आसीत्” इति । अनन्तरं “ ए एच् बोडकिन्” इत्याख्येन घटनायाः विस्तारपूर्वकं वर्णनं कृतम् । मदनलालः अस्याः घटनायाः पूर्वादेव योजनां कुर्वन् आसीत् ।

अनन्तरं “लैसले प्रोबिन्” इत्याख्यः वक्तव्यं दातुं न्यायालयम् आगतवान् । तेन उक्तं यत् – “सः कर्जन् वायली, लेडी वायली इत्याख्यौ जानाति स्म । जुलाई-मासस्य १ दिनाङ्के अपि तेन तस्मिन् दिवसे तौ दृष्टौ । यदा सः गृहं गच्छन् आसीत् , तदा सः गोलिकानां ध्वनिः श्रुतवान् । तेन दृष्टं यत् - “मदनलालः गोलिकाः चालयन् आसीत् । सः सहसा मदनलालस्य समीपं गत्वा तं बद्धवान् । अनन्तरं रक्षकेभ्यः मदनलालः प्रदत्तः” इति । “प्रोबिन्” इत्यस्य वक्तव्यानन्तरं न्यायाधीशेन मदनलालः पृष्टः यत् – “भवान् अस्मिन् वक्तव्ये किमपि वक्तुम् इच्छति ?” इति । तदा मदनलालः उक्तः – “घातकः इति शब्दस्य प्रयोगः व्यर्थः आसीत् । यदि कोऽपि आङ्ग्लजनः इदं कार्यं कुर्यात्, तर्हि अपि त्वं एतादृशानां शब्दानाम् उपयोगं करोति ?”इति । किन्तु न्यायाधीशेन मदनलालस्य प्रश्नाः शेष्याः (Ignore) ।

अनन्तरं “सिन्हा”, “सर् थॉर्वर्न्”, “मिस् जोसिफिन्”, “ऐमा बैक्”, “क्वासजी जहाँगीर”, “जॉन् स्टैनटोन् मोर्ले” इत्याख्यैः वक्तव्यं प्रदत्तम् । “जॉन् स्टैनटोन्” इत्याख्यः “फनलैण्ड्” इत्येतस्य स्थलस्य स्वामी आसीत् । तेन उक्तं यत् – “फनलैण्ड्” इत्येतत्स्थले अग्न्यस्त्राभ्यासाय सम्पूर्णा व्यवस्था अस्ति । मदनलालः अपि मासत्रयेभ्यः तत्र अभ्यासार्थं गच्छति स्म । सः महदभ्यासं करोति स्म । अतः अन्येषां जनानाम् अपेक्षया सः शीघ्रतया अग्न्यस्त्रं चालितुं शक्नोति ।

तदनन्तरम् “आर् एस् ट्रैवर्” इत्याख्येन वक्तव्यं प्रदत्तम् , अपमृत्युकारणपरीक्षणम् (Post Mortem) अपि न्यायालये वर्णितम् च । “थॉमस्” इत्याख्येन चिकित्सकेन एव “कर्जन्” इत्याख्यस्य अपमृत्युकारणपरीक्षणं (Post Mortem) कृतम् आसीत् । तेन उक्तं यत् – “गोलिकायाः मतिष्काघातेन “कर्जन्” इत्याख्यस्य मृत्युः अभवत्” इति । “एल्बर्ट् ड्रेपर्” इत्याख्येन न्यायालये उक्तं यत् – “सः त्रिभिः अधिकारिभिः सह मदनलालस्य गृहस्य परीक्षणाय प्रातः३ वादने गतवान् आसीत् । तेन मदनलालस्य सम्पूर्णगृहस्य परीक्षणं कृतम् । गृहात् बहूनि वस्तूनि प्राप्तानि । “एल्बर्ट् ड्रेपर्” इत्याख्येन न्यायालये सर्वाणि वस्तूनि दर्शितानि । मदनलालस्य गृहात् गोलिका, अग्न्यस्त्रं च प्राप्तम् । अनन्तरं मदनलालस्य स्वलिखितं वक्तव्यम् अपि प्राप्तम् । “मिस्टर् हॉरेस्” इत्याख्येन मदनलालः स्वपक्षात् वक्तुम् उक्तः । किन्तु मदनलालेन उक्तं यत् – “अहं यत्किमपि वक्तुमिच्छामि, तत्सर्वं मया लिखिते वक्तव्ये अस्ति” इति । न्यायाधीशस्य आदेशेन तस्य वक्तव्यपत्रं मुद्रया बन्धितम् (Seal Pack) । न्यायाधीशेन उक्तं यत् – “तस्मिन् वक्तव्ये किं लिखितम् अस्ति इति न चिन्तनीयम् । यदि इदानीं भवान् किमपि वक्तुम् इच्छति चेत् वक्तव्यम्” इति ।

मदनलालेन उक्तं यत् – “अहं किमपि वक्तुं नेच्छामि । किन्तु मम कार्यं न्योचितं सिद्धं कर्तुं किञ्चित् वक्तुम् इच्छामि । यदि कश्चन ब्रिटिश्-जनः परतन्त्रे सति स्वातन्त्र्याय जर्मन्-देशस्य विरोधम् उचितम् अस्ति, तर्हि स्वस्य देशस्य स्वातन्त्र्याय कार्यमिदं देशभक्तेः प्रमाणं, न्यायोचितम् च अस्ति । अहं आङ्ग्लान् भारतस्य अष्टकोटिजनानां घातिनः मन्ये । ते प्रतिवर्षं भारतात् अर्बुदरुप्यकाणि स्वदेशं नयन्ति । किन्तु अहं तान् दोषी मन्ये । एकः देशभक्तः तथैव करोति, यद् कश्चन आङ्ग्लः करोति । यः आङ्ग्लः स्वदेशं त्यक्त्वा प्रत्येकस्मिन् मासे “१०० पाउण्ड्” वेतनं प्राप्तुं भारतं गच्छति । यावद् व्ययः कश्चन आङ्ग्लः स्वसुखार्थं करोति, तावद्धनेन सहस्राधिकभारतीयानाम् एकमासात्मकः निर्वाहः भवितुं शक्नुवन्ति । यथा जर्मन्-देशस्य इङ्ग्लैण्ड्-देशे अधिकारः नास्ति, तथैव आङ्ग्लानां भारते न कोऽपि अधिकारः । अतः वयम् आङ्ग्लान् हन्तुम् “अपराधः” इति न मन्यामहे । अहम् आङ्ग्लानाम् आडम्बरात्, धूर्ततायाः च चिन्ताग्रस्तः अस्मि । यदि इङ्ग्लैण्ड्-देशे जर्मन्-देशः अधिकारं स्थापयेत्, तदा कश्चन आङ्ग्लः जर्मन्-देशीयान् हन्ति, तर्हि सः आङ्ग्लः देशभक्तः मन्यते । अतः अहम् अपि तादृशः देशभक्तः अस्मि । अतः अहम् अपि भारतस्य स्वातन्त्र्याय प्राणत्यागं करोमि । इतोप्यधिकं मया वक्तव्यपत्रे लिखितम् अस्ति । तत्पत्रम् इदानीं न्यायालयस्य अधिकारे अस्ति” इति ।

मदनलालः न्यायालयात् कारागारं प्रेषितः । न्यायालयस्य अस्मिन् कार्ये मदनलालस्य स्वभावे धैर्यं, शान्तिं दृश्यते स्म ।

मृत्युदण्डः[सम्पादयतु]

ई. स. १९०९ तमस्य वर्षस्य जुलाई-मासस्य २३ तमे (२३ जुलाई १९०९) दिनाङ्के मदनलालः “क्रिमिनल् कोर्ट् ऑफ् ओल्ड् बेले” इतीमं न्यायालयम् आनीतः । तत्र मुख्यन्यायाधीशः “ऐवरस्टोन्” इत्याख्यः आसीत् । तस्य समक्षे अन्तिमवारं मदनलालः न्यायालयम् आनीतः । तस्मिन् दिवसे अभियोगद्वयस्य निर्णयं कर्त्तव्यम् आसीत् । तयोः अभियोगयोः मदनलालस्य अपि अन्यतमः आसीत् । मदनलालस्य न्यायालयीयकार्यस्य आरम्भे सति बहवः जनाः तत्र श्रवणार्थं समागताः । कार्यस्य आरम्भात् पूर्वं मदनलालस्य अपराधाः पठिताः । मदनलालः “कर्जन् वायली”, “लालकाका” इत्याख्ययोः हत्यायाः अपराधी अस्ति” इति निर्णितम् अस्ति । मदनलालः उक्तं यत् – “मम विरोधे निर्णयं कर्तुम् इङ्ग्लैण्ड्-देशस्य सर्वकारस्य कोऽपि अधिकारः नास्ति । मया यत्किमपि कृतं तत्सर्वं देशभक्तेः प्रभावेण एव । इदं कार्यं न्यायदृष्ट्या उचितम् अपि अस्ति । अहं यत्किमपि वक्तुम् इच्छामि, तत्सर्वं मया लिखिते वक्तव्यपत्रे अस्ति” इति । “ऑरेन्” इत्याख्येन लेखापालेन मदनलालः पृष्टः यत् - “भवान् अपराधम् अङ्गीकरोति न वा ? मदनलालः उक्तवान् यत् - “मम मत्यनुसारम् अहं अपराधी नास्मि । अहं यत्किमपि कर्तुं इच्छामि, तत् वक्तव्यपत्रे लिखितम् अस्ति ।

तदनन्तरम् अस्याभियोगस्य कार्यवहनम् “एटॉर्नी जनरल्”, “सर् विलियम् राब्सन्”, “मिस्टर् बोडकिन्”, “मिस्टर् रौलेट्”, “मिस लेसेस्टर्” इत्याख्यैः प्रचालितम् । तैः साक्षिणः पृष्टाः । तदा “मिसैज् हैरिस्”, “विलियम् बर्रो”, “हेनरी स्टेशन् मौर्ले”, “मिस् बैक्”, “विलियम् थॉर्बर्न्”, “सर् लैसले प्रोबिन्”, “चार्ल्स् रोलेस्टोन्”, “फ्रैण्डरिक निकोलस्”, “फ्रैङ्क् एवले”, “चार्ल्स् लॉस्”, एलबर्ट् ड्रेपर्, “डॉक्टर् थॉमस् नेविल्” इत्यादिभिः स्वस्य वक्तव्यं प्रदत्तम् ।

“मिसेज् हैरिस्” इत्याख्यायाः वक्तव्यं – “मदनलालः मम गृहे भूतले निवसति स्म । जुलाई-मासस्य १ दिनाङ्के द्विवादने गतवान्, रात्रौ अष्टवादने पुनः गृहं प्राप्तवान् । किञ्चित् समयविलम्ब्य सज्जो भूत्वा सः पुनः गतवान् । सः सामान्यवस्त्राणि धृतवान् आसीत् । अनन्तरं मदनलालः ततः यानेन गतवान् आसीत्” इति ।

“विलियम् बर्रो” इत्याख्यः गेमैज्-संस्थायां सहायकत्वेन आसीत् । तस्य वक्तव्यं – “ई. स. १९०९ तमवर्षस्य जनवरी-मासस्य २६ तमे (२६ जनवरी १९०९) दिनाङ्के मदनलालः स्वचालितं “कोल्ट्” इत्येतत् अग्न्यस्त्रं क्रेतुं मम संस्थाम् आगतवान् । “त्रीणि पाउण्ड् पञ्च शिलिङ्ग” इत्यनेन मूल्येन मदनलालः तत् अग्न्यस्त्रं क्रीतवान्” इति । “विलियम् बर्रो” इत्याख्येन न्यायालये मदनलालस्य नाम्ना पञ्जीकृतम् अग्न्यस्त्रस्य प्रमाणीकरणं प्रस्तुतम् ।

“हैनरी स्टेशन् मौर्ले” इत्याख्यस्य वक्तव्यं – “मदनलालः मासत्रयात् पूर्वमेव चाँदमारी-क्षेत्रे अग्न्यस्त्रेण अभ्यासम् आरब्धवान् । सः प्रतिसप्ताहे वारद्वयं, वारत्रयं वा अभ्यासाय आगच्छति स्म । सः स्वस्य अग्न्यस्त्रेण एव अभ्यासं करोति स्म । प्रत्यभ्यासे सः द्वादशगोलिकाः एव चालयति स्म । लक्ष्यभेदने तेन दक्षता प्राप्ता । ई. स. १९०९ तमस्य वर्षस्य जुलाई-मासस्य १ दिनाङ्के (१ जुलाई १९०९) अपि सः अभ्यासं कर्तुम् आगतवान् आसीत् । अनन्तरं रक्षकेन (Police) जहाँगीर-सभागारस्य अवस्थितिः प्रदर्शिता । यत्र सः प्रसङ्गः आयोजितः आसीत् । “मिस् बैक्” इत्याख्यस्य वक्तव्यं – “अहं “नेशनल् इण्डियन् एसोसिएशन्” इत्यस्याः संस्थायाः सचिवः अस्मि । इङ्ग्लैण्ड्-देशस्य महाराज्ञी अस्याः संस्थायाः संरक्षिका अस्ति । “सर् विलियम् कर्जन् वायली” इत्याख्यः अस्याः संस्थायाः परिषदः सदस्यः, वित्तमन्त्री च अस्ति । “इङ्ग्लैण्ड्-देशे निवसतां भारतीयानां इङ्ग्लैण्ड्-देशीयैः सह सम्बन्धः सुदृढः स्यात्” इति अस्याः संस्थायाः उद्देश्यम् आसीत् । अतः अनया संस्थया प्रसङ्गाः आयोज्यन्ते । मया मई-मासे सः मेलितुम् आवाहितः । किन्तु सः नागतः । अनन्तरं मया पुनः अस्य कार्यक्रमस्य आमन्त्रणं तस्मै प्रेषितम् आसीत् । सः जुलाई-मासस्य १ दिनाङ्के रात्रौ नववादने कार्यक्रमस्थलं प्राप्तवान् । रात्रौ सार्धदशवादने मम तेन सह सह वार्तालापः अभवत् । तदा अपि तस्य व्यवहारे किमपि परिवर्तनम् नासीत् । सः शान्तः एव आसीत् । मेलने तस्य शैक्षणिकविषयिणी चर्चा जाता । मया सः पृष्टः यत् “सः बहून् जनान् जानीयात् । किन्तु सः काञ्चन जनान् एव जानाति स्म ।

“विलियम् थॉरवर्न्” इत्याख्यस्य वक्तव्यम् – “अहं जुलाई-मासस्य १ दिनाङ्के “ऐट् होम्” इत्यस्मिन् प्रसङ्गे उपस्थितः आसन् । एकादशवादने अहं सभागारे आसम् । “मदनलालः “कर्जन् वायली” इत्याख्येन सह वार्तालापं कुर्वन् आसीत्” इति मया दृष्टम् आसीत् । मदनलालस्य दक्षिणहस्ते अग्न्यस्त्रम् आसीत् । तेन अग्न्यस्त्रेण “कर्जन् वायली” इत्याख्यस्य मुखोपरि चतस्रः गोलिकाः चालिताः । तदा “कर्जन् वायली” इत्याख्यः भूमौ पतितः । समयान्तरे अन्ययोः द्वयोः गोलिकयोः ध्वनिः मया श्रुता । तदा अहम् अवरोद्धुं तं निबद्धवान् । अन्ये अपि जनाः मम साहाय्यं कुर्वन्तः आसन् । अनन्तरं तेन आत्मानं हन्तुं गोलिका चालिता । किन्तु केवलं गोलिकाचालनस्य ध्वनिः एव जाता । मया सः पृष्टः यत् - “किमर्थं भवता एतत् कृतम्” ? किन्तु सः किमपि न उक्तवान् । किञ्चित् समयानन्तरं सः उक्तवान् यत् – मम उपनेत्रं ददातु” इति । तदनन्तरं “लैसले प्रॉबिन्” इत्याख्यस्य वक्तव्यम् – “अहं जुलाई-मासस्य १ दिनाङ्के “ऐट् होम्” इत्यस्मिन् प्रसङ्गे उपस्थितः आसन् । एकादशवादने यदा अहं गृहं गन्तुं द्वारं प्राप्तवान्, तदा तस्मिन् समये एव गोलिकाचालनस्य ध्वनिः मया श्रुता । तदनन्तरम् अहं मदनलालम् अपराः द्वितिस्रः गोलिकाः चालितुं दृष्टवान् । अनन्तरं सः आत्मानं हन्तुं गोलिकां चालितवान् । किन्तु तस्मिन् क्षणे एव अहं तं अवरोद्धुं प्रयासं कृतवान्, अग्न्यस्त्रं च सङ्गृहीतवान् । किञ्चित् समयं यावत् तेन मुक्तं भवितुं प्रयासाः कृताः । तेन मम नासिकयाम् अपि क्षति जाता । अनन्तरं मदनलालः संरक्षकाय प्रदत्तः ।

“चार्ल्स् रौलेस्टोन्” इत्याख्यस्य वक्तव्यम् – “अहं गोलिकानां ध्वनिः न श्रुतवान् । तेन मतिपूर्वं एकस्मिन् भारतीयसज्जने गोलिका चालिता । तदा अहं तस्य परिचयं पृष्टवान् । सः उक्तवान् यत् - “ढीङ्गरा, लैडबरी रोड” इति । मया अस्य अपराधस्य कारणम् अपि पृष्टं किन्तु तेन धैर्यपूर्वकम् उक्त यत् – “अहं रक्षकेभ्यः एव अस्योत्तरं ददामि ।

“फ्रैण्डरिक् निकोलस्” इत्याख्यस्य वक्तवयम् - “आवाहितः अहम् एकादशवादने “इपीरियल् इन्स्टीत्यूट्” इत्यस्याः संस्थायाः जहाँगीर्-सभागारं प्राप्तवान् । तत्र बहुभिः जनैः मदनलालः निबद्धमानः आसीत् । अनन्तरं मया सः परासेधितः (Arrest) । मया तस्य कोषाः परीक्षिताः । तस्मात् कोषात् अपरम् अग्न्यस्त्रं, चुरिका च प्राप्ता” इति ।

“फ्रैक् एवले” इत्याख्यस्य वक्तव्यम् – “लैसले प्रोबिन्” इत्याख्येन मह्यम् एकं “कॉल्ट्” नामकम् अग्न्यस्त्रं प्रदत्तम् । नायकेन (Captain) बेल्जियन्-नामकम् अग्न्यस्त्रं मह्यं प्रदत्तम् आसीत् । बेल्जियन्-अग्न्यस्त्रे षड्गोलिकाः आसन् ।

“चार्ल्स् लॉस्” इत्याख्यस्य वक्तव्यम् – “मदनलालः बन्धनीयः, यतः तेन मतिपूर्वकम् एव “कर्जन् वायली”, “क्वासजी लालकाका” इत्याख्ययोः द्वयोः हत्या कृता । मया सः पृष्टः यत् – “किं भवान् स्वबान्धवानां, स्वमित्राणां वा सम्पर्कं कर्तुम् इच्छति न वा ? तदा सः उक्तवान् – “मध्यरात्रौ अहं तेभ्यः वक्तुं नेच्छामि । प्रातःकाले ते स्वयमेव ज्ञास्यन्ति ।

“ऐलबर्ट् ड्रेपर्” इत्याख्यस्य वक्तव्यम् – “जुलाई-मासस्य २ दिनाङ्के वेस्ट्मिंस्टर्-रक्षकन्यायालये सः उपस्थितः आसीत् । तदा तेन न्यायधीशः उक्तः यत् - “अहं “लालकाका” इत्याख्यं न जानामि स्म । अहं तं स्वेच्छया न मारितवान् । किन्तु यदा मम समीपमागतवान्, तदैव आत्मरक्षायै मया गोलिका चालिता” इति ।

“डॉक्टर् थॉमस् नेविल्” इत्याख्यस्य वक्तव्यम् – “अहं जुलाई-मासस्य १ दिनाङ्के “इम्पीरियल् इन्स्टीट्यूट्” इत्यत्र गतवान् आसम् । तत्र मया “कर्जन् वायली” इत्याख्यस्य मृतदेहः दृष्टः । अहं मदनलालं मेलितुं कारागारं गतवान् । तत्रापि तस्य व्यवहारः शान्तः, संयमी च आसीत् । अनन्तरं मया तस्य नाडी परीक्षिता । किन्तु नाडी अपि सामान्या एव आसीत् । मया “कर्जन् वायली” इत्याख्यस्य शवपरीक्षणं कृतम् । एका गोलिका तस्य दक्षिणनेत्रे, अपरा गोलिका वामनेत्रस्य अधः भागे आसीत् । एकया गोलिकया मस्तिष्कः छेदितः । तेन एव तस्य मृत्युः अभवत् ।

सर्वेषां साक्षिणां वक्तव्यानन्तरं न्यायालयीयकार्यवाहनं समाप्तं जातम् । न्यायाधीशेन मदनलालः पृष्टः यत् – “भवान् किमपि वक्तुम् इच्छति” ? इति । तदा मदनलालः उक्तवान् यत् – “अहं किमपि वक्तुं नेच्छामि । अहम् अङ्गीकरोमि यत् मया एव कार्यमिदं सम्पादितम् । किन्तु अहम् इच्छामि यत् “मया लिखितं वक्तव्यं न्यायालये पठितव्यम् । न्यायाधीशेन पृष्टं यत् – “भवतः वक्तव्यं न्यायालये पठितव्यम्” इति भवान् इच्छति वा ? मदनलालः “आम्” इति उक्तवान् । “अरीयन्” इत्यख्येन लेखापालेन मदनलालस्य वक्तव्यं पठितम् ।

मदनलालस्य लिखितवक्तव्यम् – “अहं प्रतिरक्षायै किमपि वक्तुं नेच्छामि । कोऽपि आङ्ग्लसर्वकारः मह्यं दण्डं, मृत्युदण्डं, कारावासं वा प्रदातुं न शक्नोति । अतः एव मया प्रतिरक्षायै कोऽपि अधिवक्ता न कृतः । अहं यत्किमपि कर्तुम् इच्छामि तत्सर्वं वक्तव्ये लिखितम् अस्ति । मम इच्छा अस्ति यत् आङ्ग्लसर्वकारः मह्यं मृत्युदण्डं दद्यात् । अतः भारतीयानां मनसि आङ्ग्लसर्वकाराय विरोधिभावः समुद्भविष्यति” इति । न्यायधीशः कथयति यत् – “किं भवान् कञ्चन साक्षिणम् आवाहितुम् इच्छति वा ? मदनलालः उक्तवान् – “मम वक्तव्यं तत्र पठितव्यम्” इत्यैव इच्छामि । मम अपरं वक्तव्यम् अपि अस्ति” । तद्वक्तव्यं सम्पूर्णे पत्रे लिखितम् अस्ति” इति । न्यायाधीशः उक्तवान् – “इदानीं भवान् वक्तव्यं दातुमिच्छति चेत् वदतु । मदनलालः उक्तवान् – “तत्पत्रं मम कोषात् निष्कासितम् आसीत् । न्यायाधीशेन उक्तम् – “तस्मिन् विषये अहं किमपि न जानामि । यदि भवान् किमपि वक्तुम् इच्छति तर्हि शक्नोति” । भवता यद् पूर्वं लिखितम् आसीत् । इदानीं तस्य औचित्यं नास्ति” । मदनलालेन उक्तं यत् – “अहं किमपि वक्तुं नेच्छामि ।


न्यायालयस्य निर्णयः[सम्पादयतु]

मुख्यन्यायाधीशः अभियोगं समाप्तं कर्तुं निर्णयस्य भूमिकां कृत्वा कथयति यत् – “अस्य अभियोगस्य निर्णयाय अधिकः समयः व्यतीतः । साक्षिणां वक्तव्यानि, प्रमाणानि च अस्माभिः परिशीलनीयानि । तेषाम् आधारेण एव उचितः निष्कर्षः निष्कासितः । न्यायाधीशाः जानन्ति स्म यत् - “अयं अपराधः न्यायोचितः नास्ति । “यदि कोऽपि जर्मन्-देशीयः इङ्ग्लैण्ड्-देशे अधिकारं स्थापयति, तदा सः जनः हन्तव्यः । अतः “कर्जन् वायली” इत्याख्यस्य वधः अपराधः न मन्यते” इति मदनलालस्य वक्तव्यं उचितं नास्ति । वयं अस्मिन् न्यायालये सामान्यहत्यायाः अभियोगस्य निर्णयं कर्तुं समागताः” इति । साक्षिणां, प्रमाणानां च अनुसारं न्यायाधीशाः निर्णयं कुर्वन्तः आसन् । सर्वे दर्शकाः एकाग्रचित्तेन उपविशन्तः आसन् । मदनलालेन कदापि साक्षिभ्यः प्रश्नः न पृष्टः । तेन कस्यचिदपि साक्षिणः वक्तव्ये शङ्का अपि न कृता । तेन सप्ताहपूर्वे एव अग्न्यस्त्रं क्रीतम् आसीत् । अग्न्यस्त्रस्य अभ्यासम् अपि अकरोत् । मदनलालेन प्रसङ्गे “कर्जन् वायली” इत्याख्यस्य वधः कृतः । किन्तु तेन सह एकः सज्जनः अपि हतः । मदनलालस्य मानसिकस्थितिः अपि समीचिना अस्ति । तस्य व्यवहारेण ज्ञायते यत् – सः मानसिकस्थित्या स्वस्थः अस्ति । सः शान्तः, संयमी च अस्ति । तस्य विचारशीलगतिविधिभिः अपि ज्ञायते यत् – “सः यत्किमपि कुर्वन् अस्ति, तत्सर्वं चेतसि एव । अतः अनेन निर्णयङ्क्रियते यत् – “मदनलालेन स्वेच्छया हत्या कृता अस्ति” इति । सर्वैः न्यायाधीशैः परस्परं परामर्शङ्कृत्वा निर्णयः कृतः यत् “मदनलालः दोषी अस्ति” ।

न्यायालयस्य लेखापालेन उक्तं यत् – “मदनलालाय मृत्युदण्डः दातव्यः । तस्मिन् क्षणे एव मदनलालः उत्साहेन, उच्चैः च उक्तं यत् - “अहं वारं वारं वदन् अस्मि यत् अस्मिन् न्यायालयस्य निर्णयं न स्वीकरोमि । भवन्तः यदिच्छन्ति तत् कुर्वन्तु । भवन्तः मह्यं मृत्युदण्डं दातुं शक्नुवन्ति । मृत्योः भयमेव नास्ति । किन्तु मा विस्मर , एकस्मिन् दिवसे अस्माकं देशं स्वातन्त्र्यं प्राप्स्यति । तदा वयं शक्तिशालिनः भविष्यामः । वयं यदेषिष्यामः, तत्कर्तुं सक्ष्यामः” इति उक्त्वा विरमामि ।

मुख्यन्यायाधीशेन मदनलालः उक्तः यत् – “मदनलाल ढीङ्गरा ! अहं जानामि यत् मया उक्ताः शब्दाः प्रभावरहिताः भविष्यन्ति इति । किन्तु साक्षिणां, प्रमाणानाम् आधारेण न्यायालयः भवन्तं निर्दोषजनानां हत्यायाः दोषी मन्यते । विधिशास्त्रानुसारं अस्याः क्रियायाः केवलं एकः एव निर्णयः भवितुं शक्नोति – “मृत्युदण्डः” इति । मदनलालेन धैर्यपूर्वकं मृत्युदण्डस्य निर्णयं श्रुत्वा भारतीयसंस्कृत्यनुसारं न्यायाधीशं नमस्कृत्य स्मितेन उच्चैः उक्तं – “भगवन् ! धन्यवादः” । अहं मृत्योः चिन्तां न कुर्वन् अस्मि । अपि तु अहं गर्वम् अनुभवन् अस्मि यत् – मातृभूमेः स्वातन्त्र्याय स्वप्राणान् त्यजन् अस्मि । तदनन्तरं रक्षकैः मदनलालः कारागारं प्रति नीतः ।

मृत्युः[सम्पादयतु]

ई. स. १९०९ तमवर्षस्य अगस्त-मासस्य १४ दिनाङ्के (१४ अगस्त १९०९) शनिवासरे गृहमन्त्रालयात् पैण्टाविला-कारागारं प्रति गृहमन्त्रिणा निर्णयपत्रं प्रेषितम् । तस्मिन् पत्रे लिखितम् आसीत् यत् – “मन्त्रणानन्तरं “कर्जन् वायली”, “क्वासजी लालकाका” इत्येतयोः हत्यायाः दोषीं मत्वा न्यायालयेन मदनलालाय मृत्युदण्डः निर्णीतः । अतः ई. स. १९०९ तमस्य वर्षस्य अगस्त-मासस्य १७ दिनाङ्के (१७ अगस्त १९०९) प्रातः नववादने मृत्युदण्डः भविष्यति” इति निश्चितम् । मृत्युदण्डपर्यन्तं मदनलालस्य स्वभावः शान्तः, संयमी च एव आसीत् । सः कदापि विचलितः न जातः । मृत्युदण्डप्राप्तेभ्यः बन्दिभ्यः सर्वाणि सौकर्याणि दीयन्ते । किन्तु मदनलालस्य जातिः, देशः, वर्गः, पदवी च तेभ्यः बन्दिभ्यः उन्नता आसीत् । अतः सर्वकाराय तस्य इच्छानां पूर्तिः शक्या नासीत् । मदनलालः मित्रबान्धवान् मेलितुं शक्नोति स्म । किन्तु सः काञ्चन मुख्यान् जनान् एव मिलितवान् । कारागारे सः स्वस्य समयं पुस्तकालस्यस्य पत्रिकाः पठित्वा एव यापयति स्म । मदनलालः अन्तिमेषु दिवसेषु “एम् एस् मास्टरजी” इत्याख्यम् अध्यापकं मेलितुम् ऐच्छत् । अस्मिन् सन्दर्भे “एम् एस् मास्टरजी” इत्याख्येन मेलितुम् आवेदनपत्रं सर्वकाराय लिखितम् । किन्तु मदनलालस्य इयं लघ्वीच्छा अपि सर्वकारेण अस्वीकृता । मदनलालस्य अन्तिमेच्छा आसीत् यत् – “मृत्योः अनन्तरं तस्य देहस्य अग्निसंस्कारः भवेत् । किन्तु तस्य अन्तिमेच्छा अपि विधिशास्त्रानुसारं निरस्तीकृता । ब्रिटिश्-सर्वकारानुसारं मृत्युदण्डप्राप्तस्य अपराधिनः देहः कारागारे एव निखनेत् (Bury/दफनाना) इति नियमः अस्ति । मदनलालस्य कैश्चित् मित्रैः मदनलालस्य शवः सर्वकारात् प्राप्तुं बहवः प्रयासाः कृताः । किन्तु सर्वे प्रयासाः निष्फलाः अभवन् । तस्य मित्राणि व्ययम् अपि दातुं सज्जानि आसन् । तथापि सर्वकारेण तेषां प्रस्तावः अस्वीकृतः ।

मृत्युदण्डसमये केवलं त्रयः जनाः आसन् । तेषु – लण्डन्-नगरस्य अधिवक्ता (Sheriff), “मैटकॉफ्” इत्याख्यः कारागारस्य अधिकारी, ईसाईधर्मगुरुः च । मदनलालेन धार्मिकशिक्षणं प्राप्तुम् अस्वीकृतम् । अतः ईसाईधर्मगुरुः मृत्युदण्डसमये नासीत् । “द इङ्ग्लिश् मेल्” इत्यस्मै समाचारपत्राय मदनलालस्य सूचना प्रदत्ता यत् – मदनलालेन मृत्युसमये किमपि वक्तव्यं न प्रदत्तम्” इति । कारागारात् बहिः जनानां सम्मर्दः आसीत् । किन्तु तस्मिन् सम्मर्दे भारतीयाः अल्पसंख्यकाः आसन् । मदनलालाय गुप्तरीत्या मृत्युदण्डः प्रदत्तः आसीत् । मृत्युदण्डानन्तरं कऽपि समस्या न भवेत् इति विचिन्त्य सर्वकारेण कारागारे सुरक्षायाः व्यवस्था पूर्वतः एव कृता आसीत् । मृत्युदण्डानन्तरं कारागारस्य सूचनाफलके मदनलालस्य मृत्योः सूचना स्थापिता आसीत् । तेन जनसम्मर्दः रिक्तः अभवत् ।

आसफ अली इत्याख्येन लिखितम् अस्ति यत् – “ मदनलालस्य वक्तव्यस्य प्रतिलिपिः “सावरकर” इत्याख्येन लण्डन्-नगरस्य “द डेली न्यूज्” इत्यस्मिन् समाचारपत्रे प्रकाशिता । सावरकरः मदनलालस्य इच्छां सफलं कर्तुम् इच्छति स्म । यतः मदनलालस्य इच्छा आसीत् यत् - “तस्य वक्तव्यं न्यायालये पठेत् । किन्तु न्यायाधीशैः तस्य वक्तव्यं न्यायालये न पठितम् । अतः “सावरकर” इत्याख्येन “ज्ञानचन्द्र वर्मा” इत्याख्यः तद्वक्तव्यं समाचारपत्रेषु प्रकाशयितुम् आदिष्टः । अतः ज्ञानचन्द्रः तद्वक्तव्यं नीत्वा पेरिस्-नगरं गतवान् । तत्र गत्वा ज्ञानचन्द्रेण मदनलालस्य वक्तव्यं जर्मनी-देशं, इटली-देशं, अमेरिका-देशं च प्रति प्रकाशयितुं प्रेषितम् । लण्डन्-नगरे “द डेली न्यूज्” इति नामकं समाचारपत्रं प्रकाशितं भवति स्म । अतः “सावरकर” इत्याख्येन मदनलालस्य “द चेलैञ्ज्” नामकं वक्तव्यं प्रकाशयितुं “डेविड् गारनेट्” इत्याख्यः निवेदितः । महत्प्रयासेन तद्वक्तव्यं समाचारपत्रे प्रकाशितं जातम् आसीत् ।

मदनलालस्य वक्तव्यम्[सम्पादयतु]

“अहं स्वीकरोमि यत् तस्मिन् दिवसे मया मतिपूर्वं कस्यचित् आङ्ग्लस्य हत्या कृता । अहं केवलं अमानवीयव्यवहारस्य विद्रोहं कुर्वन् आसम् । अमानवीयव्यवहारेण बहवः भारतीयाः देशात् बहिर्निष्कासिताः । तेभ्यः भारतीयेभ्यः मृत्युदण्डः अपि दीयते । अतः अस्य कार्यस्य पूर्णतायै कस्यापि परामर्शः न स्वीकृतः । अहं आत्मनः प्रेरितः भूत्वा स्वदेशाय कर्त्तव्यं मत्वा इदं कार्यं कृतवान् । यदि कोऽपि सर्वकारः शस्त्राणां साहाय्येन कस्यचित् देशस्य इच्छाविरुद्धम् आधिपत्यं स्थापयितुं कार्यं करोति, तदा तस्य देशस्य जनाः स्वातन्त्र्यं प्राप्तुं युद्धम् अवश्यं करिष्यन्ति । अतः एव मया इदं कार्यं कृतम् । मम देशस्य पारतन्त्र्यं मम भगवतः अपमानं वर्तते । मम मुख्योद्देश्यं “स्वातन्त्र्यम्” इति । स्वदेशस्य सेवा एव रामस्य, कृष्णस्य च सेवा अस्ति । मम समीपे मातृभूमये दातुं किमपि नास्ति केवलं मम रुधिरः एव अस्ति । अतः अहं तस्यै मे रुधिरं ददामि” । भारतस्य स्वातन्त्र्यानन्तरम् अपि अस्य युद्धस्य समाप्तिर्न भविष्यति । यावज्जगत् तावत् आङ्ग्लहिन्दुजनेषु इदं युद्धं चलिष्यति । यावद् अस्माकं देशः स्वातन्त्र्यं न प्राप्नुयात्, तावत्पर्यन्तं भगवान् कृष्णः अस्मान् प्रेरयिष्यति । युद्धे मरणेन स्वर्गप्राप्तिः, विजयेन च स्वातन्त्र्यं च प्राप्स्यन्ति । अहं भगवन्तं निवेदयामि यत् – “यावत् भारतमाता स्वातन्त्र्यं न प्राप्नुयात्, तावत्पर्यन्तं मम पौनःपुन्येन जन्म भवेत् । यावत् लक्ष्यमिदं पूर्णं न भवेत् तावत् पर्यन्तम् अस्यां भूमौ मम जन्म भवेत्” इति वन्देमातरम् [१] [२]

केचन इतिहासकाराः कथयन्ति यत् – “मदनलालः अस्य “द चेलैञ्ज्” नामकस्य सन्देशस्य लेखकः नासीत् । ततः कः आसीत् ? सावरकरः आसीत्” ? इति । सावरकरः एव मदनलालस्य समीपस्थः आसीत् । सावरकरेन इदं वक्तव्यं ज्ञानचन्द्राय प्रकाशयितुं प्रदत्तम् आसीत् । अतः “विचाराः मदनलालस्य, भाषाशैली सावरकरस्य च भवेत्” इति । सावरकरः मदनलालं मेलितुं कारागारम् अपि गतवान् आसीत् । कदाचित् तयोः तत्र चर्चा स्यात् । चर्चायां मदनलालेन जुलाई-मासस्य १ दिनाङ्कस्य घटनायाः उद्देश्यं वर्णितं स्यात् ।

  1. जैम्स् कैम्पबैल केर्, “पॉलिटिकल् ट्रबल् इन् इण्डिया, ओरिएण्टल् पब्लिकेशन् दिल्ली, १९१७, पृष्ठ १७९-१८०
  2. वी. एन्. दत्ता, मदनलाल ढीङ्गरा एण्ड् द रेवोल्यूशनरी मूवमेण्ट्
"https://sa.wikipedia.org/w/index.php?title=मदनलाल_ढीङ्गरा&oldid=390668" इत्यस्माद् पुनः प्राप्तिः