सामग्री पर जाएँ

मन्त्रपुष्पाञ्जलिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

हिन्दुधर्मःइतिहासः

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

मन्त्रपुष्पाञ्जलि भारतदेशे प्रख्याता प्रार्थना अस्ति। यस्मिन् वेदानाम् चत्वारि मन्त्राः सन्ति। आरत्याः अनन्तरम् मन्त्रपुष्पाञ्जलिं गायित्वा प्रार्थना समाप्यते।

ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् /
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ १ ॥

ॐ राजाधिराजाय प्रसह्यसाहिने नमो वयं वैश्रवणाय कुर्महे /
स मे कामान्कामकामाय मह्यम् कामेश्वरो वैश्रवणो ददातु /
कुबेराय वैश्रवणाय महाराजाय नमः ॥ २ ॥

ॐ स्वस्ति / साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं
माहाराज्यमाधिपत्यमयं समंतपर्यायी स्यात्सार्वभौमः सार्वायुष
आंतादापरार्धात्पृथिव्यै समुद्रपर्यंताया एकराळिति ॥ ३ ॥

तदप्येषः श्लोको ऽभिगीतो / मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे /
आविक्षितस्य कामप्रेर्विश्वे देवाः सभासद इति ॥ ४ ॥

वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑बाहुरु॒त वि॒श्वत॑स्पात् /

सं बा॒हुभ्यां॒ धम॑ति॒ सं पत॑त्रै॒र्द्यावा॒भूमी॑ ज॒नय॑न्दे॒व एक॑: ॥ ५ ॥

सन्दर्भाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=मन्त्रपुष्पाञ्जलिः&oldid=497864" इत्यस्माद् प्रतिप्राप्तम्