मामितमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(ममीतमण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)

Mamit district
मण्डलम्
मिझोरामराज्ये मामितमण्डलम्
मिझोरामराज्ये मामितमण्डलम्
देशः  India
मण्डलम् मामितमण्डलम्
विस्तारः ३०२५.७५ च.कि.मी.
जनसङ्ख्या(२०११) ८६,३६४
Government
 • मण्डलसङ्गाहकः
(District Collector)
Rodney L Ralte
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://mamit.nic.in/
डम्पा अभयारण्यस्य एकं दृश्यम्
डम्पा अभयारण्यस्य एकं दृश्यम्

मामितमण्डलं (आङ्ग्ल: Mamit District) मिजोरामराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं मामित इत्येतन्नगरम् । १९९८ तमे वर्षे ऐजोलमण्डलस्य विभाजनं कृत्वा मामितमण्डलस्य स्थापना कृता । अतः नूतनमिदं मण्डलम् ।

भौगोलिकम्[सम्पादयतु]

मामितमण्डलस्य विस्तारः ३०२५.७५ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि कोलासिबमण्डलं, पश्चिमदिशि उत्तरत्रिपुरामण्डलं, बाङ्ग्लादेशः च, दक्षिणदिशि लुङ्गलैमण्डलं , उत्तरदिशि अस्सामराज्यम् अस्ति । मण्डलेऽस्मिन् त्लोङ्ग, तुट्, तेरेय्, लाङ्गकाय्, खोत्लोङ्गतोय्पोय् च प्रमुखनद्यः सन्ति ।

जनसङ्ख्या[सम्पादयतु]

मामितमण्डलस्य जनसङ्ख्या(२०११) ८६,३६४ अस्ति । अस्मिन् ४४,८२८ पुरुषाः, ४१,५३६ महिलाः च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे २९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३७.५६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२७ अस्ति । अत्र साक्षरता ८४.९३ % अस्ति । मण्डलेऽस्मिन् ८२.७५% जनाः ग्रामेषु निवसन्ति ।

कृषिः[सम्पादयतु]

मण्डलेऽस्मिन् जल-पर्वत-सम्पत्कारणात् वनानां बाहुल्यं वर्तते । वनेषु वंशवृक्षाः, काष्ठं च उपलभ्यन्ते । बहुसङ्ख्यजनानाम् कृषिः एव उपजीविकासाधनम् । तण्डुलाः, पूगफलं, हरिद्रा च प्रमुखसस्योत्पादनानि सन्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति तानि -

  • पश्चिम फेलिङ्ग
  • पेइक
  • मामित

लोकजीवनम्[सम्पादयतु]

समाजे, कुटुम्बव्यवस्थायां च महिलानां स्थानं महत्त्वपूर्णम् । अस्मिन् मण्डले मिजो, रिआङ्ग(ब्रु), चक्मा च जनजातयः निवसन्ति । मण्डलमिदम् अल्पसङ्ख्याङ्कजनजातीनां प्राचुर्यात् जनजातिबहुसङ्ख्यं मन्यते । यानि मण्डलानि भारतदेशे जनजातिबहुसङ्ख्यकानि गण्यन्ते तेषु अन्यतमम् इदम् । मण्डलस्य सीमाप्रदेशे निवसन्तः चक्माजनजातिजनाः विकसनशीलाः । ते कृषियोग्यभूमिविषये, राजकीयविषये समस्याः सहन्ते । मण्डलेऽस्मिन् शिक्षणसुविधाः न्यूनाः सन्ति । इदानीं विकासकार्याणि जायमानानि सन्ति । मामितमण्डलजनाः तेषां पारम्परिकनृत्यप्रकारार्थं प्रसिद्धाः । 'खुल्लम्', छेइ-लाम्, सर्लम्कै, चेरो च लोकनृत्यानि विशिष्टानि सन्ति । जनानाम् उत्सवाः कृषिसम्बद्धाः सन्ति, यथा मिम्-कुट्, पोल् कुट् इत्यादयः ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • डम्पा वन्यप्राणि-अभयारण्यं, व्याघ्रप्रकल्पश्च
  • पुल्लङ्गसेइ ऐतिहासिक-ग्रामः
  • कुङ्घमुन् ग्रामः
  • पश्चिम् फाइलेङ्ग
  • सैत्लौ नगरम्
  • लुङ्ग्कुल्ह पुरातत्त्वदृष्ट्या महत्त्वपूर्णं स्थानम्
  • लिङ्गमोल
रेक् त्लाङ्गपर्वतावलिः

बाह्यानुबन्धाः[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=मामितमण्डलम्&oldid=481729" इत्यस्माद् प्रतिप्राप्तम्