मम्मूट्टि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
मम्मूट्टि
Mamooty.jpg
२००९ तमे वर्षे मम्मूट्टि
जन्म मुहम्मद् कुट्टि इस्मैल् पनिपरम्बिल्
(१९५१-२-२) ७ १९५१ (आयुः ६६)[१]
चेम्पु, कोट्टायम-मण्डलम्, भारतम्
देशीयता भारतीयः
अन्यानि नामानि मुहम्मद् कुट्टि इस्मैल् पनिपरम्बिल्
शिक्षणस्य स्थितिः महाराजकालेज्, एरणाकुलम्-मण्डलम्
गौर्मेण्ट् ला कालेज्, एर्नाकुलम्(L.L.B.)
वृत्तिः चलच्चित्राभिनेता
सक्रियतायाः वर्षाणि १९७९-अद्यावधि
शीर्षकम् पद्मश्री-पुरस्कारः (1998)
कलकत्ताविश्वविद्यालयः गौरव-डाक्टरेट् (2010)
भार्या(ः) सल्फत् [२]
अपत्यानि सुरुमि
डल्कर् सल्मान्
पुरस्काराः अत्युत्तमनटः-राष्ट्रियचलच्चित्रप्रशस्तिः (1989, 1993, 1998)
अत्युत्तमनटः-केरलराज्यप्रशस्तिः (2009, 2004, 1993, 1989, 1984)
जालस्थानम् www.mammootty.com

मुहम्मद् कुट्टिः मलयाळभाषायाः प्रसिद्धाभिनेता वर्तते । अयं १९५३ तमस्य वर्षस्य सप्टम्बर्-मासस्य ७ दिनाङ्के जन्म प्राप्नोत् [३][४] मलयाळं-चलच्चित्रक्षेत्रे नटः निर्मापकश्च भूत्वा आत्मानं समायोजितवान् अस्ति । केषुचित् तमिळु, हिन्दी तथा तेलुगु-भाषाणां चलच्चित्रेष्वपि एतेनाभिनीतम् । त्रिदशकेभ्यः अधिककालस्य तस्य वृत्तिजीवने अयं ३०० अधिकेषु चलच्चित्रेषु नटितवान् । “शिकारि”नामके कन्नडभाषाचलच्चित्रेऽपि नटतः तस्य इदं प्रथमं कन्नडचित्रं वर्तते ।[५] मम्मुट्टिः स्वस्य साधनाय अनेकाः प्रशस्तयः आसादितवान् अस्ति । एषु तिस्रः राष्ट्रियप्रशस्तयः, सप्त राज्यप्रशस्तयः तथा दश फिल्म्फेर् प्रशस्तयः सन्ति । १९८८तमे वर्षे भारतसर्वकारः भारतस्य चलच्चित्रक्षेत्राय तस्य गणनीयं योगदानं निमित्तीकृत्य पद्मश्रीप्रशस्तिं प्रदाय सममानयत् ।

मम्मुट्टिः “मलयाळं कम्यूनिकेषन्स्” इत्येतस्य अध्यक्षोऽपि वर्तते । इदं मलयाळं “टि.वि.” वाहिन्यः ‘कैरालि टि.वि., पीपल् टि.वि. तथा “डब्ल्यू ई”टि.वि.[६] इत्येताः अपि चालयति । केरळराज्ये वनिता-नियतकालिकया कयाचित् पत्रिकया यदा वाचकेषु समीक्षा कृता तदा अयमेव मम्मुट्टिः केरळे एव अति लैङ्गिक-आकर्षकः नटः इति चितः अस्ति ।[७] मम्मुट्टिः अक्षय-योजनायाः सद्भावना-राजदूतः अस्ति ।[८]

कुटुम्बं तथा आरम्भिकं जीवनम्[सम्पादयतु]

मम्मुट्टिः भारतस्य केरळराज्यस्य कोट्टायं ‘जिल्ला’प्रदेशस्य वैकोम् इत्यस्य समीपस्थे ‘चेम्पु’ इति प्रदेशे जनितो वर्धितश्च । मध्यमवर्गस्य मुस्लिमकुटुम्बे तस्य जननम् । स एव कुटुम्बस्य ज्येष्ठः पुत्रः । तस्य पिता ‘इस्मेल्’ कृषिको वर्तते माता च गृहिणी । कोच्चिप्रदेशस्य महाराजमहाविद्यालये प्रौढशाला(पदवी-पूर्व)शिक्षणं प्राप्नोत् । पश्चात् तेन ‘एर्नाकुलं सर्वकारीय-विधि-विद्यालये’ विधि-शिक्षणम् अधीतम् । ‘मञ्जेरि’ इत्यत्र वर्षद्वयं यावत् विधि-अभ्यासः अपि तेन कृतः । १९८०तमे वर्षे ‘सुल्फात्’ इत्येतां वृणीतवते तस्मै पुत्री ‘सुरुमि’(जननम् १९८२) तथा पुत्रः ‘दुल्खार् सल्मान्’(जननम् १९८६)[१] च स्तः ।

आरम्भिकवृत्तिजीवनम्(१९७१-१९८०)[सम्पादयतु]

१९७१तमे वर्षे मम्मुट्टिः अनुभवाङ्गळ् पालिचकल् इति अप्रख्याते चित्रे प्रथमवारम् अभिनीतवान् । अस्य निर्देशनं के.एन्.सेतुमाधवन् अकरोत् ।[९] तदानीं सः महाराजविद्यालयस्य च्छात्रः आसीत् । १९७३तमे वर्षे सः ‘कालचक्रं’ चित्रे पुनरपि पात्रमन्यत् निरवहत् । इदमेव चित्रं के.नारायणन् इत्येतेन निर्दिष्टं ‘प्रेम्नजीर्’ चित्रं वर्तते । अभिनयस्य ‘सजिन्’ इत्येतेन नाम्ना सहैव तेनाभिनीतम् । पश्चात् तेन तन्नाम त्यक्तम् ।

१९७९तमे वर्षे यदा ‘देवलोकम्’ इति चित्रे प्रथमवारं मुख्यपात्रे तेनाभिनीतं तदा तस्य वृत्तिपरं चलच्चित्रजीवनं समारब्धम् ।[१०] अस्य निर्देशकः ज्येष्ठः निर्देशकः एम्.टि.वासुदेवन् नायर् आसीत् । तथापि चलच्चित्रमिदं विमोचनं न प्राप्नोत् ।

१९८०तमस्य दशकम्[सम्पादयतु]

मम्मुट्टेः प्रदर्शनाय विमुक्तं प्रथमं चित्रं एम्.आजाद् निर्देशनस्य एम्.टि.वासुदेवन् नायर् चित्रकथायाः ‘विल्कानुण्डु स्वप्नङ्गळ्’ वर्तते ।[११] के.जि.जार्जेण निर्दिष्टे ‘मेळा’चित्रे तस्य ‘सर्कस्’इति प्रख्यातस्य क्रीडाचक्रस्य कलाविदः पात्रं तथा ऐ.वि.शशि-निर्देशनस्य ‘त्रिष्णा’चित्रे नायकनटत्वेन तस्य पात्रं सर्वान् आकर्षत् ।[३][४] के.जि.जार्जेण एव निर्दिष्टे गवेषण-रोमाञ्चकारिकथायुक्ते ‘यवनिका(१९८२)’चित्रे तस्य आरक्षकाधिकारि-पात्रं तस्मै कठिन-आरक्षकाधिकारि-पात्र-निर्वहणस्य परम्परायाः मूलमकल्पयत् । अग्रिमेषु वर्षेषु तेन अनेकेषु साहस-गवेषण-रोमाञ्चकारि-चित्रेषु इदमेव पात्रं निरूढं वर्तते ।[१२]

१९८१तमे वर्षे तस्य ‘अहिंसा’चित्रस्य अभिनयाय अत्युत्तम-पोषकनट-विभागे प्रथमराज्यप्रशस्तिः प्रदत्ता ।[१३]

१९८०तमस्य दशकस्य मध्यावधौ पद्मराजन् इत्यस्य ‘कूडेविडे’ तथा जोषिवर्यस्य ‘आ रात्रि’चित्रयोः अभिनयः विहितः । एम्.टि.वासुदेवन् नायर्-चित्रकथायाः ‘अल्कूततिल् तनिये’ तथा ‘आदियोळुक्कुकळ्’चित्रयोः अभिनयः गुणस्तरे तं नटत्वेन स्थिरमकरोत् ।[१४]

१९८२तमवर्षतः १९८६तमवर्षावधौ पञ्चवर्षं यावत् तेन नायकनटत्वेन १५०अधिकचित्रेषु नटितम् ।[११] एम्.टि.वासुदेवन् नायर्-चित्रकथा तथा ऐ.वि.शशि-निर्देशनस्य ‘आदियोळुक्कुकळ्’चित्रस्य ‘करुणन्’पात्राय तस्मै अत्युत्तमनटविभागे राज्यप्रशस्तिः तथा फिल्म्फेर् प्रशस्तिः च अलभत । मम्मुट्टिना बालुमहेन्द्र-निर्देशनस्य ‘यात्रा’चित्राय राज्य-विशेष-निर्णायक-प्रशस्तिः तथा अत्युत्तम-नट-फिल्म्फेर्-प्रशस्तिः च आसादिते स्तः । तस्मिन् चित्रे तेन अरण्याधिकारिणः पात्रं निरूढमासीत् । ८०तमदशकस्य इतरचित्राणि ‘निराक्कूट्टु(१९८५), निव् डेल्लि(१९८७) तथा तनिवरतनम्(१९८७) च सन्ति ।

१९८० तथा १९९० दशकस्य उत्तरार्धभागः[सम्पादयतु]

१९८८तमे वर्षे ‘ओरु सि.बि.ऐ.डैरि कुरुप्पु’ इत्यस्मिन् चित्रे मम्मुट्टिनाभिनीतम् । तस्य समनन्तरमेव इतोऽपि चित्रत्रयं हननं-निगूढतायाः उत्तरभागान् तैरेव पात्रैः निर्मितमभवत् । जागृता(१९८९), सेतुराम् ऐयर् सि.बि.ऐ(२००४) तथा नेरारियन् सि.बि.ऐ(२००५)-इत्येतेनां चित्राणां निर्देशनं के.मधुः अकरोत् । सेतुराम् ऐयर् इत्येतस्मिन् पात्रे अभिनीतस्य मम्मुट्टिनः चित्रार्थं चित्रकथा एस्.एन्.स्वामी-रचिता आसीत् । एम्.टि.वासुदेवन् नायर्-वर्यस्य चित्रद्वये अनेनाभिनीतम् । ‘अक्षराङ्गळ्’ चित्रम् ऐ.वी.शशि इत्येतन निर्दिष्टम् । अपरं च सुकृतं हरिकुमार् इत्ययं निरदिशत् ।

मम्मुट्टिः ’ओरु वडक्कन् वीरगथा’चित्रे अभ्यनयत् । अस्य निर्देशनं टि.हरिररन् कृत्वा चित्रकथां एम्.टि.वासुदेवन् नायर् इत्येषः अरचयत । विशिष्टपराक्रमेणयुक्तं किन्तु सन्दर्भानाम् आवर्ते निलीय कुनाम प्राप्तं चित्रं ’चेकावर्’(भाटकयोद्धा) इत्येततदासीत् । अस्य चित्रणेन असौ मम्मुट्टिः अत्युत्तमनटविभागे स्थितां राष्ट्रिय-फिल्म्फेर्-प्रशस्तिं प्राप्नोत् । अडूर् गोपालकृष्ण इत्यस्य निर्देशनस्य ’मथिलुकाल्’चित्रे मम्मुट्टेः अभिनयमपि प्रशस्त्यर्थं परिगणितवन्तः आसन् । ऐ.वि.शशि-निर्देशनस्य ’मृगया’चित्रे आखेटकस्य वरुण्णि-पात्रं तथा अपरस्य चित्रस्य ’महायानम्’ इत्यस्य अपि अभिनयं राज्यप्रशस्तै पर्यगणयन् । मम्मुट्टिः ’अमरम्’चित्रस्य अभिनयाय फिलंफेर् प्रशस्तिं प्राप्तवान् वर्तते, अस्य निर्देशनं भरतन् इत्येषः अकरोत् ।[१५]

मम्मुट्टिः स्वस्य द्वितीयां राष्ट्रियां प्रशस्तिम् अडूर् गोपालकृष्णन् इत्यस्य ’विधेयन्’चित्रस्य अभिनयाय तथैव टि.वि.चन्द्रन् इत्यस्य निर्देशकस्य ’पोन्थन् मादा’चित्रस्य अभिनयाय च स्व्यकरोत् । अनयोरेव चित्रयोरभिनयाय तेन राज्यप्रशस्तिरपि सम्पादिता । ’कोचिन् हनीफा’निर्देशनस्य ’वात्सल्यम्’ इत्यस्य चित्रस्य अभिनयः अपि राज्य-प्रशस्त्यै परिगणितः आसीत् ।[१५]

१९९९तमे वर्षे मम्मुट्टिः स्वस्य तृतीयां राष्ट्रियां प्रशस्तिं ’डा॥बाबा साहेब् अम्बेड्कर्’ इति इङ्ग्लीष् भाषायाः चलनचित्राय समार्जयत् । इदं चित्रम् अम्बेड्कर् जीवनचरित्रयुतं वर्तते । अस्य निर्देशनं जब्बार् पटेल्नि इत्येषः अकरोत् ।[१६] एतत् चित्रं भारतस्य राष्ट्रिय-चलनचित्र-अभिवृद्धि-निगमः तथा सामाजिक-न्याय-सचिवालयः प्रायोजयत् ।

अद्यत्वे[सम्पादयतु]

२०००तमवर्षात् पूर्वं मम्मुट्टिः सिद्धिकि इत्यस्य क्रोनिक् ब्याचेलर् इत्यस्मिन् चित्रे, के.मधु इत्यस्य सेतुराम अय्यर् सि.बि.ऐ. तथा ब्लेस्सि इत्यस्य काज् चा इत्यादिषु चित्रेषु अनटत् । काज् चा इत्यस्य चित्रस्य निर्वाहकस्य माधवन् चित्रणाय २००४तमे वर्षे तेन राज्यप्रशस्तिः आसादिता । २००५तमवर्षं तस्य अत्यन्तं यशस्विवर्षं इति तदा निरूपितं यदा तस्मिन्नेव वर्षे धनार्जने प्रधानपात्रं निरूढं तोम्मनुं मक्कळुम् तथा राजामाणिक्यम् इति चित्रद्वयं चित्रमन्दिरेषु सम्यक् धनमार्जयन् । अन्वर् रषीद् इत्येतेन ऐदम्प्राथम्येन निर्दिष्टं राजामाणिक्यम् चित्रं तस्य कालस्य मलयाळं चित्ररङ्गस्य अत्यन्तं यशस्विचित्रमिति प्रख्यातं जातम् ।[१७]

२०००तमदशकस्य मध्यावधेः इतराणि चित्राणि नाम जानि आण्टोनि इत्यस्य थुरुप्पु गुलान्(२००६) तथा शफि इत्यस्य मायावि(२००७) अमुल् नीरद् इत्यस्य बिग् बि(२००७) तथैव अन्वर् रषीद् इत्यस्य अण्णन् तम्बि(२००८) तथा च जयराज् इत्यस्य लौड् स्पीकर्(२००९) सन्ति ।

२००९तमे वर्षे अक्टोबर् मासे पजसि राजा इत्येतत् चित्रं टि.हरिहरन् इत्यस्य निर्देशने तथा एम्.टि.वासुदेवन् नायर् इत्यस्य चित्रकथया निर्मितं जातम् । मलयाळं चलनचित्रेतिहासे एव अत्यन्तं धनमुपार्जितं चित्रमिदमिति प्रख्यातम् ।[१८]

२००९तमे वर्षे असौ स्वस्य पञ्चमराज्यप्रशस्तिम् अत्युत्तमनटनाय पालेरि माणिक्यम् इति चित्रस्य कृते समपादयत् ।

२००९तमे वर्षे एव मम्मुट्टिः अत्युत्तमनटनाय राष्ट्रप्रशस्तै नामनिर्दिष्टः अभवत् । किन्तु स्पर्धायाः अन्तिमे चक्रे अमिताभबच्चनाय प्रशस्तिः प्रदत्ता इति कृत्वा अस्मै नालभत । निर्णायकानां निर्धारं कुट्टि श्राङ्क्(२००९तमस्य वर्षस्य अत्युत्तमचित्रप्रशस्तिविजेता) इति चित्रस्य निर्देशकः ’शाजि एन्.करुण्’ तथा पालेरि माणिक्यं निर्देशकः ’रञ्जित्’ च बच्चनाय प्रशस्तिप्रदानविषये टीकितवन्तौ ।[१९]


मम्मुट्टेः एषु दिनेषु विमुक्तं चित्रं प्राञ्चियेतन् एण्ड् दि सेण्ट् धनार्जने अतिसमर्थं चित्रं सत् अस्य निर्देशनं रञ्जित् अकरोत् ।[२०]

इतरभाषाचित्राणि[सम्पादयतु]

मम्मुट्टिः मलयाळेतरभाषायुतेषु चलच्चित्रेषु नटितवान् अस्ति । आसु भाषासु तमिळु, तेलुगु, हिन्दी, कन्नड तथा इङ्ग्लीष् च सन्ति । १९८९तमे वर्षे मौनं सम्मतम् चित्रात् प्रथमतया तमिळभाषाचित्ररङ्गप्रवेशमकरोत् । अस्य निर्देशकः के.मधु वर्तते । तमिळभाषायाः एव के.बालचन्दर् इत्यस्य अळगन्, मणिरत्नम् इत्यस्य तलपथि, राजीव् मेनन् इत्यस्य कण्डुकोण्डैन् कण्डुकोण्डैन्{४}- इत्येतेषां निर्देशकानां चित्रेष्वभिनीतवान् । किलिपेच्चु केक्काव(१९९३) इत्येतत् चित्रं निर्देशकः ’फाजिल्’ निर्दिष्टवान् । अस्मिन् चित्रे मम्मुट्टिः साहसप्रणयनायकस्य पात्रे अभ्यनयत् । के.विश्वनाथ् इत्यस्य स्वाति किरणम्(१९९२) इति तेलुगुचित्रे अनन्तशर्मा इत्यस्य पात्रं निरवहत् । २००५तमे वर्षे तेन कन्नडभाषाचित्रे लव् इत्यस्मिन्नभिनीतवान् । २९८९तमे वर्षे विमुक्तात् त्रियात्रि चित्रात् प्राथम्येन हिन्दीभाषाचलच्चित्रं प्राविशत् । किन्तु नायकपात्रे तस्य प्रथमं चित्रं दर्तिपुत्र आसीत् । जीवनचरित्रकथायुक्ते डा।बाबा साहेब् अम्बेड्कर्


चित्रे असावभ्यनयत् । इङ्ग्लीष्-भाषायाः अस्य चित्रस्य निर्देशनं ’जब्बार् पटेल्’ निरवहत् । एतेन सौ जूट् एक् सच्(२००४) चित्रे अपि अनटत् । अनेनैव महाशयेन यदा २००६तमे वर्षे दुबै प्रदेशे ’ऐ ऐ एफ् ए’प्रशस्तिसमारम्भः आसीत् तदा ’ऐ ऐ एफ् ए’प्रशस्तिसङ्घटकाः दक्षिण-भारत-चलनचित्राणि उपेक्षमाणाः सन्ति इति सर्वेषामेव प्रकटमेव अटीक्यत । बालिवुड्-चित्रोद्यमः आत्मानम् अन्ताराष्ट्रिय-स्तरस्य इति कथनात् पूर्वं दक्षिण-भारत-चलनचित्रोद्यमस्य स्पर्धां सम्मुखीकुर्यात् इति तेन कथितम् ।[२१]

सामाजिककार्याणि[सम्पादयतु]

मम्मुट्टिः षडधिक-जनोपयोगिनीषु योजनासु स्वात्मानं विनियुज्य आवश्यकेभ्यः जनेभ्यः साहाय्यस्य प्रदानस्य ध्येयेन प्रवृत्तो वर्तते ।[२२]


वेदना तथा उपशमनकेन्द्रम्[सम्पादयतु]

मम्मुट्टिः वेदना तथा उपशमन-शुश्रूषा-सौसाइटि इत्यस्य आश्रयदाता अस्ति ।[२३] इयं केरळस्य धर्मदत्तिसंस्था वर्तते । विषमावस्थायां स्थितानां ’क्यान्सर्’रोगपीडितानां जीवन-स्तरस्य सुधारणस्य ध्येयेन अस्याः संस्थायाः संस्थापनमभवत् । भारतस्य कोळिकोड्-प्रदेशे स्थितायाः अस्याः संस्थायाः इन्धनं प्रारम्भिकयन्त्रं च एष एव अस्ति ।[२४] केरळ-राज्याद्यन्तं ’क्यान्सर्’-रोगपीडितेभ्यः सर्वेभ्यः जनेभ्यः वेदनायाः उपशमनस्य च शुश्रूषायाः प्रदानस्य विनूतनायाः योजनायाः प्रस्तुतिमसावकरोत् ।[२५]

जीवन्-ज्योतिः[सम्पादयतु]

मम्मुट्टिः जीवन्-ज्योति इत्यस्य सामाजिककार्यस्य राजदूतोऽपि वर्तते । अस्य ध्येयं तु कस्यचिदपि नेत्ररोगेण हृत्सम्बन्धिरोगेण अस्थिसम्बन्धिरोगेण पित्तजनकाङ्गरोगेण मूत्रपिण्डवैफल्यस्य रोगेण हेमोफिलिया रोगेण वा ’इ एन् टी’समस्यया[उल्लेखः आवश्यकः] वा पीडितस्य चिकित्सान्वेषणे सति साहाय्यकरणस्य वर्तते ।

दूरदर्शनस्य वृत्तिजीवनम्[सम्पादयतु]

२०१०तमे वर्षे मम्मुट्टिः मलयाळं कम्यूनिकेषन्स् इत्यस्य अध्यक्षः आसीत् ।[२६] अनेनैव कैराळि टि.वि. पीपल् टि.वि. तथा चानल् वि इत्याद्याः मलयाळं दूरदर्शनवाहिन्यः सञ्चाल्यन्ते ।

एतेन दूरदर्शननिर्माणस्य संस्था ’मेगाबैट्स्’ अपि रचिता वर्तते । इयं संस्था काश्चित् दूरदर्शनधारावाहिन्यः अपि निर्मिताः । तासु प्रथमा अस्ति १९९०तमस्य दशकस्य अन्तिमभागस्य ज्वलायय् । निर्मापकत्वेन इयं तस्य प्रथमा योजना वर्तते ।[२७] ज्वलायय् इत्येतेन मलयाळं-दूरदर्शनेतिहासम् एव निर्मितं वर्तते ।[२८] मम्मुट्टिः चलनचित्रवितरणसंस्थां काञ्चिदपि आरभत । तस्याः नाम आसीत् मम्मुट्टि-टेक्नोटैन्मेण्ट् इति ।[२९] केरळे वितीर्णस्य कार्मेघम् इत्यस्य तमिळुभाषाचलनचित्रस्य वितरणमस्यैव कार्यम् । अनया संस्थया वितरणाधिकारप्राप्तौ प्राथम्यं सुसंरक्षितम् आसीत् ।

अन्यकार्यक्रमाः[सम्पादयतु]

मम्मुट्टिः २००६तमे अक्टोबर्-मासे १६दिनाङ्के केरळमूलस्य ’सौत् इण्डियन् ब्याङ्क्’ इत्यस्य उद्यमस्य उद्योगसङ्केतात्मकः राजदूतोऽभवत् ।[३०][३१] एषः केरळ-वालिबाल्-लीग् इत्यस्य उद्योगसङ्केतात्मकः राजदूतत्वेनापि दृष्टो वर्तते ।[३२] मम्मुट्टिः तथा दुबै-मूलस्य उद्यमी एम्.ए.यूसुफ् अलि इत्येतौ ’दुबै इण्टर्नेट् सिटि(डी ऐ सि) अधिकारिणः मिलित्वा कोच्चि-प्रदेशे उद्दिष्टस्य स्मार्ट् सिटि इति योजयायाः कृते मुखमण्डपं निर्मितवन्तौ ।[३३]

सन्दर्भाः[सम्पादयतु]

  1. "Happy 62nd birthday Mammootty: What makes him Malayalam cinema's superstar". IBNLive. 7 September 2013. Retrieved 16 March 2014. 
  2. "അഞ്ച്‌ രുചി വിശേഷങ്ങളും മമ്മൂട്ടിയും". mangalam.com. Retrieved 2014-08-13. 
  3. ३.० ३.१ 'मम्मुट्टि बियो'
  4. ४.० ४.१ 'मम्मुट्टि बयोग्रफि'
  5. "ऐ वाण्ट् टु प्ले लीड् रोल्स्". दि हिन्दु शुक्रवासरः, जुलै २२, २००५
  6. मलयालं कम्युनिकेषन्स् बोर्ड् आफ् डैरेक्टर्स्. “kairalitv.in. 1 नवम्बर् 2004. (२००७ तमस्य वर्षस्य अक्टोबर्-मासस्य ३० त्तमे पुनः सम्पादितम्)
  7. 'वनित सर्वे चूसस् मम्मुट्टि आस् दि सेक्सियस्ट् आक्टर्'[नष्टसम्पर्कः]
  8. मम्मुट्टि एन्लैवन्स् अक्षय नेट्वर्क्. दि हिन्दु बिसिनेस्लैन्. 26 फेब्रवरी 2006 २००७ तमस्य वर्षस्य अक्टोबर्-मासस्य ३० त्तमे पुनः सम्पादितम्
  9. "'Mammootty filmography'". Chakpak.com. Retrieved 2010-04-22. 
  10. दि वेटरन् हीरो आफ् मलयालम् इण्डस्ट्रि. oneindia.in . 6 सेप्टेम्बर् 2007 २००७ तमस्य वर्षस्य अक्टोबर्-मासस्य ३० त्तमे पुनः सम्पादितम्
  11. ११.० ११.१ मम्मुट्टि कम्प्लीट्स् हिस् 300
  12. मम्मुट्टि टु प्ले ए काप् फार् दि २५ त्तमवारम्. हिन्दूस्तान् टैम्स् 2007 सेप्टेम्बर् 6 २००७ तमस्य वर्षस्य अक्टोबर्-मासस्य ३० त्तमे पुनः सम्पादितम्.
  13. मम्मुट्टि प्रशस्तयः
  14. ट्रिब्यूट् टु पजासि राजा. दि हिन्दु 19 जनवरी 2007. २००७ तमस्य वर्षस्य अक्टोबर्-मासस्य ३० त्तमे पुनः सम्पादितम्
  15. १५.० १५.१ प्रशस्तयः सम्माननानि च
  16. डा बाबासाहेब् अम्बेड्कर्-चलच्चित्र-पूर्वदर्शनम्. ambedkar.org . २००७ तमस्य वर्षस्य अक्टोबर्-मासस्य ३० त्तमे पुनः सम्पादितम्
  17. राजामाणिक्यं लीपिङ्ग् टुवर्ड्स् दि 'बिग्गेस्ट्-एवर् ग्रोस्सेर्'स्टेटस्. My-Kerala.com News . 14 एप्रिल् 2007. २००७ तमस्य वर्षस्य अक्टोबर्-मासस्य ३० त्तमे पुनः सम्पादितम्.
  18. केरल बाक्स् आफीस् - सेप्टे २८ टु अक्टो २०. सिफि . 21 अक्टोबर् 2009 २००९ तमस्य वर्षस्य जनवरी-मासस्य चतुर्थे पुनः सम्पादितम्
  19. 'न्याषनल् अवार्ड् क्रियेट्स् काण्ट्रोवर्सि'
  20. "Pranchiyettan And The Saint Turns Out A Safe Hit". Topnews.in. 29 September 2010. 
  21. सौत्-वाव्ड्!!. दि हिन्दु शुक्रवासरः, 7 जुलै 2006 २००९ तमस्य वर्षस्य जून्-मासस्य १९ पुनः सम्पादितम्
  22. मम्मुट्टि आस् सोषियल् आक्टर्. Mammoottylive.com . 25 फेब्रवरी ೨೦೦೭, २००७ तमस्य वर्षस्य अक्टोबर्-मासस्य ३० त्तमे पुनः सम्पादितम्
  23. ಪೇನ್ ಎಂಡ್ ಪ್ಯಾಲಿಯೇಟಿವ್ ಕೇರ್ ಸೊಸೈಟಿ ಪ್ಯಾಟ್ರನ್ಸ್. painandpalliativecare.org . ಜುಲೈ 2007 २००७ तमस्य वर्षस्य अक्टोबर्-मासस्य ३० त्तमे पुनः सम्पादितम्
  24. ರೆಲೆವನ್ಸ್ ಆಫ್ ದಿ ಪೇನ್ ಎಂಡ್ ಪ್ಯಾಲಿಯೇಟಿವ್ ಕೇರ್ ಸೊಸೈಟಿ.. painandpalliativecare.org . ಅಕ್ಟೋಬರ್, 2006 २००७ तमस्य वर्षस्य अक्टोबर्-मासस्य ३० त्तमे पुनः सम्पादितम्
  25. ಫಾರಂ ಆಫ್ ಕೇರಳ amazon news .
  26. ಮಲಯಾಳಂ ಕಮ್ಯುನಿಕೇಷನ್ಸ್ ಬೋರ್ಡ್ ಆಫ್ ಡೈರೆಕ್ಟರ್ಸ್. “kairalitv.in. 1 ನವೆಂಬರ್ 2004. २००७ तमस्य वर्षस्य अक्टोबर्-मासस्य ३० त्तमे पुनः सम्पादितम्
  27. "ವೈ ಶುಡ್ ದೆ? ಎಸ್ಪೆಶಲಿ ವೆನ್ ಥೆಯ್ ಆರ್ ಬ್ಯುಸಿ ಪ್ರೋಡ್ಯುಸಿಂಗ್ ಎ ಸೂಪರ್‌ಹಿಟ್ ಟೆಲಿವಿಷನ್ ಸೋಪ್". rediff.com. 21 ಡಿಸೆಂಬರ್‌ 1998 २००७ तमस्य वर्षस्य अक्टोबर्-मासस्य ३० त्तमे पुनः सम्पादितम्
  28. ಮೇಗ ಸೀರಿಯಲ್ಸ್ ಮೇಗಾ ಹಿಟ್ಸ್. rediff.com. 28 ಅಕ್ಟೋಬರ‍್ 2006 २००७ तमस्य वर्षस्य अक्टोबर्-मासस्य ३० त्तमे पुनः सम्पादितम्
  29. ಮಮ್ಮುಟ್ಟಿ ಇನ್ ವೈಸ್ ಟೆಕ್ನೋಟೈನ್‌ಮೆಂಟ್ ಟ್ರಿಕ್ Indiainfo.com ಮಾರ್ಚ್ 2002. २००९ तमस्य वर्षस्य जून्-मासस्य १९ पुनः सम्पादितम्
  30. सौत् इण्डियन् अनौन्सस् मम्मुट्टि यास् ब्राण्ड् अम्बासिडर्. SouthIndianBank.com . २००६ तमस्य वर्षस्य अक्टोबर् १६ २००७ तमस्य वर्षस्य अक्टोबर्-मासस्य ३० त्तमे पुनः सम्पादितम्
  31. सौत् इण्डियन् बेङ्क् हेस् अपायिण्टेड् पद्मश्री भारत् मम्मुट्टि आस् ब्राण्ड् अम्बासिडर्. moneycontrol.com . 16 अक्टोबर् 2006 २००७ तमस्य वर्षस्य अक्टोबर्-मासस्य ३० त्तमे पुनः सम्पादितम्
  32. केरल वालीबाल् लीग् फार्मड् – मम्मुट्टि आस् ब्राण्ड् अम्बासिडर्. हिन्दु बिसिनेस् लैन् . नवम्बर् 04, 2009.
  33. मम्मुट्टि ब्रिङ्ग्स् IT पार्क् टु केरल. ibnlive.com, IANS . 14 एप्रिल् 2007, २००७ तमस्य वर्षस्य अक्टोबर्-मासस्य ३० त्तमे पुनः सम्पादितम्
"https://sa.wikipedia.org/w/index.php?title=मम्मूट्टि&oldid=431305" इत्यस्माद् पुनः प्राप्तिः