महाकविकालिदासम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
महाकविकालिदासम्  
Kalidas.jpg
कालिदासः
लेखकः जीवः
देशः भारतम्
भाषा संस्कृतम्
प्रकारः रङ्गमञ्चीयाभिनवशैली

महाकविकालिदासं विंशशतकस्य श्रेष्ठनाटकेषु अन्यतमं वर्तते । अस्य प्रथमाभिनयः १९६२ ख्रीष्टाब्दे कालिदाससमारोहावसरे उज्जयिन्यां समपद्यत । रूपकेऽस्मिन् नटी संस्कृतं ब्रवीति, किन्तु नाटकान्तरीयप्रस्तावनासु सा प्राकृतमाश्रित्य व्यवहरति।

विषयवस्तु[सम्पादयतु]

अत्र दशपुरे नाम नगरे विद्यावतीति राजकुमारी वर्तते । तत्स्वयंवरे पराजिताः समरेन्द्र-नरेन्द्र-मथुरेशास्त्रयो राजकुमाराः कालिदासं व्यलोकयन् । कालिदासस्तु मूढ आसीत् । तैर्विचारितं यद्

शिखण्डिनं पुरस्कृत्य भीष्मशौर्यं यथा हृतम्।

तथैनं मूढमासाद्य जेतव्यः प्रमदामदः।।

प्रथमांके राजसभा समवेतास्ति । त्रयोऽपि राजकुमारास्ते कालिदासं पुरस्कृत्य समुपस्थिताः समभूवन् । विद्यावती सभास्थानमाजगाम । संकेत-शास्त्रार्थः सकपटं समारब्धः । विद्यावती अङ्गुलीयकपरिलसितां तर्जनीं प्रदर्शयामास । तत्पक्षधरेण सोमशर्मणा तद्व्यंग्यार्थः तु एवं व्यक्तीकृतः -

अधिगगनमनेकास्तारकाः सन्ति दीप्ता

जगदपि परिपूर्णं वस्तुभिश्चित्ररूपैः।

विलसति सकलानां व्यापकः सर्गरक्षा-

लयकृदखिलसारः कः पदार्थः स एकः।।

कालिदासेन तर्जनी, मध्यमा चाङ्गुल्यौ प्रदर्शिते | नरेन्द्रोऽस्याशयमेवं व्यक्तीचकार -

ब्रह्माण्डभाण्डशतकोटविकासलीलां शक्तः स ईश्वरकुलालवरो विधातुम्।

मायामदृष्टमुत वा प्रकृतिं सहायीकुर्वन् मुदा मृदमिव द्वितयं पदार्थम्॥

एवंविधशास्त्रार्थप्रपञ्च अन्ततोगत्वा कालिदासो विजयी घोषितः। तस्य विद्यावत्या सह विवाहोऽजनि।

द्वितीयांके कालिदासस्य बालिशतायाः शनैः शनैः रहस्योद्घाटनं संवृत्तम् । रुदती विद्यावती ब्रवीति -

हा दुर्दैवम् । धिग्धिङ्मे विद्याविभवम् । यदहं विद्याहीनस्य हस्तयोः पतितास्मि । तया पुनरपि कथितम् -

'अस्ति कश्चिद् वाग्विशेष उत्तरञ्चेत् प्रदीयताम्॥'

भृशं तिरस्कृतः कालिदासो विद्याप्राप्त्यर्थं नर्मदातटे श्मशानघट्टे काल्याः समाराधनं प्रारेभे । भगवत्याः सकाशान्नित्यं विद्यामेव याचते स्म | तद्भक्तिपरितुष्टा काली तमब्रवीत् -

'तथास्तु। वाग्विभूतिमान् भव, विश्वविजयी भव। हिमाचल इव सुरसरस्वती-रस-माधुरीप्रभवो भव।'

तस्मिन्नेव समये पतिं गवेषमाणा कञ्चुकीसहाया विद्यावती तत्राजगाम । तत्र पुनरपि तयोः सम्मेलनं समभूत् ।

कालिदासो विक्रमादित्यस्य केनचित् शिविकावाहकेन बलाद् गृहीतः राज्ञश्चान्तिकं प्रापितः । कालान्तरे लोकोत्तरकाव्यप्रणयनपाटवं कवेर्विलोक्य सर्वेऽपि चकितचकिता अजायन्त । कस्मिश्चिद्दिने कविगोष्ठी समारब्धा राजसभायाम् । समस्यासीत् -

'न हि सुखं दुःखैर्विना लभ्यते।'

सर्वैः कविभिः स्वरचनाः क्रमशः श्राविताः । कालिदासस्य सर्वाधिकरसमयं पद्यमिदमासीत् -

श्लाघ्यं नीरसकाष्ठताडनशतं श्लाघ्यः प्रचण्डातपः

श्लाघ्यं पङ्कविलेपनं पुनरिह श्लाघ्योऽतिदाहोऽनलैः।

यत्कान्ताकुचकुम्भ-बाहुलतिकाहिल्लोललीलासुखं

लब्धं कुम्भवर त्वया न हि सुखं दुःखैर्विनालभ्यते।।

एतत्समाकर्ण्य विक्रमादित्योऽब्रवीत् -

'धन्यतमोऽसि कालिदास! अनवद्या ते रचनाशक्तिः।'

पञ्चमाङ्के हिमालये काचिद् वनचरी विद्यावत्या निकटमागच्छति । सा स्वामिनं बलाहकं तद्विषये पृच्छति । सम्यग् ज्ञात्वा स्वकीयकुटीरे तस्याः स्वागतं विहितवती । कालिदासोऽपि प्रियतमान्वेषणनिरतस्तत्राययौ । राजा विक्रमोऽपि तत्राजगाम । कालिदासविद्यावत्योः प्रेम-प्रकर्षोज्ज्वलं सम्मेलनमभवत्।

विशेषम्[सम्पादयतु]

विष्कम्भके कथानायकः कालिदास एवैकमात्रं पात्रं वर्तते । प्रथमाङ्कस्य पूर्वं विष्कम्भके न केवलं सूचनाः प्रत्युत दृश्यानि सन्ति । एतत्सर्वमभारतीयम् । एकोक्तीनां बाहुल्यमस्मिन्नाटकेऽपि दृश्यते । रूपकेऽस्मिन्नङ्कावतार इवाङ्कांशावतारोऽपि समुपनिबद्धः । एतदपि सर्वमभारतीयमेव। गर्भाङ्कस्य नूतनरूपं नाटकेऽस्मिन् वर्तते । चतुर्थाङ्के रङ्गमञ्चे अभिज्ञानशाकुन्तलस्य पञ्चमाङ्कस्य दृश्यं समाविष्टमस्ति ।

जीवेनाङ्के नूतनदृश्योपस्थापनार्थं पटी-परिवर्तनस्य विधिः सम्यक्तया समादृतः । छायातत्त्वं प्राचुर्येणोपलभ्यते । पञ्चमाङ्के हिमालयो नाट्यस्थलीस्वरूपं सम्प्राप्य नाटकस्यौदार्यं परिवर्धयति । गीतराशिभिः कालिदास-नाटकं सुवासितं वर्तते । वैतालिका नेपथ्यतो गायन्ति -

एहि सुजनगण वाणीपूजनपुण्यदिवस इह तीर्थे।

सद इदमतिथे सदयमलङ्कुरु विद्याविलसितकीर्ते।

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=महाकविकालिदासम्&oldid=435271" इत्यस्माद् पुनः प्राप्तिः