महीधरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

महीधरस्य 'आचार्य' इति उपाधित्वात् आचार्यमहीधरः इति प्रसिद्धः। एषः वेदस्योपरि भाष्यम् अरचयत्। काशीवासी महीधरोऽयं वैष्णवाचार्यः आसीत्। तन्त्रशास्त्रेऽपि एतस्य गतिः आसीत्।

जीवनम्[सम्पादयतु]

एतस्य जन्म काश्यामभूत् । तत्र च तस्य वासस्थानसन्निधौ एका पुष्करणी अद्यापि वर्त्तते इति परम्परातः श्रूयते । नागर-ब्राह्मणवंशीयोऽयं विद्वानासीदिति । काश्यामेवाऽध्ययनं विधाय विरचितकतिपयग्रन्थो महीधरः काशीनरपतेः शरणं गतवान् । अत एव प्रायः ‘यथा राजाश्रितः पण्डितः' इति तस्यैवोक्त्या सङ्गच्छते ।

भाष्यम्[सम्पादयतु]

काशीपतेः शरणे एव अनेन 'वेददीपस्य सामभाष्य'स्य रचना कृता इत्याचार्येण । यद्यपि भाष्यमिदं न मौलिकं तथाप्यर्थस्य विशदतया दृष्टया उपादेयमस्ति । अस्य भाष्यस्य पाण्डुलिपिः सम्पूर्णानन्दविश्वविद्यालयस्य सरस्वतीभवनपुस्तकालये संग्रहीताऽस्ति । अस्य भाष्यस्योपरि उव्वटभाष्यस्य स्पष्टच्छाया प्रतिलक्षिताऽस्ति । किञ्चानेन विदुषा निरुक्तश्रौतसूत्रादिग्रन्थेभ्यः उद्धरणानि दत्त्वा याज्ञिकक्रियायाः विधानं बोधगम्यतां नीतम् । तन्त्रादिषु रहस्यमयेषु शास्त्रान्तरेष्वपि स सम्यगधीती विनयेन भक्त्या च गुरुजनान् तथा समप्रीणयत्, यथा तेऽस्मै गुह्याद् गुह्यतराण्यपि रहस्यवस्तूनि समुपादिशन् । विदुषे चास्मै सर्वविद्यापारङ्गत 'आचार्य' इति विरुदमुपाहरन् । अनेन तन्त्ररहस्यविवेचको 'मन्त्रमहोदधि'-नामा एकः ग्रन्थः विक्रमस्य १६४५ शतके ( १५८८ ई० ) प्रणीतः । अस्य ग्रन्थस्य अन्ते भाष्यकारेण लिखितमिदम् -

'अब्दे विक्रमतो जाते बाणवेदनृपैर्मिते ।

ज्येष्ठाष्टम्यां शिवस्याग्रे पूणों मन्त्रमहोदधिः ।'

अतोऽस्य भाष्यकारस्य समयः षोडशशतकस्योत्तरार्द्ध इति निश्चीयते ।

उव्वटाचार्यात् पञ्चाशत्वर्षानन्तरमयमभवत् । नरसिंहस्योपासकोऽयमासीत्, यस्योल्लेखः ग्रन्थेषु बहुशः उपलब्धो भवति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=महीधरः&oldid=441051" इत्यस्माद् पुनः प्राप्तिः