माघमासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(माघमास इत्यस्मात् पुनर्निर्दिष्टम्)


भारतीयकालगणनानुगुणं वर्षस्य १२मासेषु अयम् एकादशः मासः । मृगशिरनक्षत्रसम्बद्धः अयं मासः । पुष्यमासस्य अनन्तरं फाल्गुणमासात् पूर्वम् अयं मासः तिष्ठति । पुण्यनदीनां स्नानार्थम् अयं पुण्यकालः । लोके माघस्ननम् इत्येव प्रसिद्धम् । शैत्यकाल प्रकृतरमणीयः अस्य मासस्य कालः । समग्रे माघमासे उषःकाले स्नातुं न शक्यते चेदपि सङ्क्रमणरथसप्तमी माघी इत्याख्येषु त्रिषु दिनेषु वा स्नातव्यमेव इति शास्त्रवाक्यम् । माघमासे प्रवर्तमानः महाकालस्य उत्सवः उज्जयिन्याः उत्सवः अस्ति । माघमासे शुक्ळपक्षस्य पञ्चमदिने भारतदेशे वसन्तपञ्चमी उत्सवः भवति । विविधेषु स्थलेषु, देवालयेषु च पारम्परिकरीत्या इमम् उत्सवम् आचारन्ति ।

"https://sa.wikipedia.org/w/index.php?title=माघमासः&oldid=436376" इत्यस्माद् प्रतिप्राप्तम्