मानसवन्यजन्तुधाम

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मानसवन्यजन्तुधाम
वन्यप्राणिसंरक्षणम् ।
मानसवन्यजन्तुधाम्नः प्रधानप्रवेशद्वारम् ।
मार्गमानचित्रम् ।
असमराज्यस्य मानचित्रे मानसोद्यानम् ।
स्थानम् भारतम्भारतम्
समीपस्थं  नगरम् बार्पेटामार्गः
प्रदेशः फलकम्:Convinfobox/2फलकम्:Convinfobox/2९५०व.कि.मी.
निर्मितिः क्रि.श.१९८५
निर्वाहकसंस्था भारतसर्वकारस्य अरण्यपरिसरमन्त्रालयः
Official website

मानसवन्यजीविधाम भारतस्य असमराज्ये अस्ति । अत्र व्याघ्रसंरक्षणस्य, गजसंरक्षणस्य जीवगोलरक्षणस्य स्थानमिति उद्घुष्टम् अस्ति । हिमालयस्य मूले विद्यमानं मानसवन्यजीविधाम भूतान् राष्ट्रस्य व्याप्तौ अपि किञ्चित् विस्तृतम् अस्ति । अस्मिन् अरण्ये विचित्रकूर्मः, सुवेगस्य शशः, स्वर्णवर्णस्य कपिः, कुब्जसूकरः इत्यदयः जन्तवः आश्रिताः सन्ति । एतादृशाः विशिष्टप्राणिनः विश्वस्य अन्यभागेषु न दृश्यन्ते । अत्र एव मानसा इति नदी प्रवहति अनेन अस्य नाम मानसवन्यधाम इति नाम आगतम् । इयं नदी ब्रह्मपुत्रानद्याः उपनदी । अस्य वन्योद्यानस्य विस्तारः सामान्यतः ३९१व.कि.मी.अस्ति । एतत् समुद्रस्तरात् ११०मी.औन्नत्ये अस्ति । मानसवन्यजन्तुधाम्नि ३७४जातीयाः वृक्षाः सन्ति । ५५जातीयाः सस्तनिनः जीवन्ति । ३८०प्रकारकाः खगाः सन्ति । ५०जातीयाः उरगाः ३जातीयाः उभयवासिनः सन्ति । विनश्यमानानि ३१जातीयानि प्राणिकुलानि सन्ति । अपि च एष्यन् गजाः, भारतस्य खड्गमृगाः, वनमहिष्यः, जलमहिष्यः, बारासिंहाः, व्याघ्राः, चित्रकाः, भल्लूकाः विविधप्रकारकाः कपयः हरिणाः च सन्ति ।

बाह्यानुबन्धाः[सम्पादयतु]

उद्यानतः पर्वतदृश्यम् ।
"https://sa.wikipedia.org/w/index.php?title=मानसवन्यजन्तुधाम&oldid=364177" इत्यस्माद् प्रतिप्राप्तम्