सामग्री पर जाएँ

मुक्तेश्वरमन्दिरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

फलकम्:ଛୋଟमुक्तेश्वरमन्दिरम् ओडिशाराजधानी भुवनेश्वरे परशुराममन्दिरस्य सम्मुखे अस्ति । एतेत् मन्दिरं शिवस्य मन्दिरमस्ति। एतत् मन्दिरं ९५०-९७५ शतब्द्यां निर्मितम् इति मन्यते । ओडिशा-नगरस्य हिन्दुमन्दिराणाम् अनुसन्धानं गवेषणां च कर्तुं अस्य भूमिका महत्त्वपूर्णा वर्तते । अस्य मन्दिरस्य वास्तुकलायां प्राचीनकालस्य उत्कृष्ठकला दृश्यते। एतावत् वास्तुकला न तु उत्कले अपितु समग्रविश्वे कुत्रापि न दृश्यते। अस्य मन्दिरस्य प्रवेशद्वारं विश्वे सर्वोत्कृष्टम् अस्ति। उत्कलीयशिल्पिनः स्वस्य सम्पूर्णकला अत्र प्रदर्शितवन्तः। उच्यते यत् शताधिकवर्षस्य योजनानन्तरम् अस्य मन्दिरस्य निर्माणम् अभवत् इति। अस्य मन्दिरस्य पार्श्वे राजाराणी-लिङ्गराज-सिद्धेश्वरमन्दिराणि च सन्ति। सिद्धेश्वरमन्दिरम् अस्य मद्निरस्य सम्मुखे एव अस्ति। एतेत् मन्दिरं भुवनेश्वररेलस्थानकतः ४कि.मि. दूरे तथा लिङ्गराजमन्दिरतः २कि.मि. दूरे अस्ति।

इतिहासः

[सम्पादयतु]

दशमशतके सोमवंशिनां शासनकाले अस्य निर्माणम् अभवत्। अनेके शोधकर्तारः वदन्ति यत् परशुरामेश्वरमन्दिरस्य ब्रह्मेश्वरमन्दिरस्य च मध्ये एतत् मन्दिरं निर्मितम् आसीत्| ओडिशानगरस्य अन्येषां मन्दिराणाम् आकारं पश्यामः चेत् अस्य आकारः लघुः (३५ पादाः) अस्ति, परन्तु बहिः तोराणं नाम द्वारं अन्तः शिलालेखाः च सन्ति। अस्य मन्दिरस्य पुरतः स्थितं तोरणादृशं तोरणं अन्यत्र कुत्रचिदपि न दृश्यते। इदं शैवधर्मस्थानं, ओडिशामन्दिरशैल्यां पूजास्थानं च अस्ति|

निर्माणशैली

[सम्पादयतु]

दशमशताब्द्यां निर्मितम् अयं मन्दिरं लघुः अस्ति, परन्तु शिल्पकलाभिः ललितकलाभिः च परिपूर्णः, विश्वकर्मामहाराणायाः उत्तमकारुकर्यस्य निदर्शनम् अस्ति । तस्य समीपे एकः तडागः अस्ति यस्य उपयोगं भक्ताः कुर्वन्ति। सन्तानस्य आशायां स्त्रियः अस्मिन् तडागे धनं क्षिपन्ति ।

सांस्कृतिक-आयोजनम्

[सम्पादयतु]

ओडिशासर्वकारस्य पर्यटनविभागः प्रतिवर्षं मन्दिरपरिसरस्य त्रिदिवसीयं नृत्यकार्यक्रमं राजेश्वरनृत्यमहोत्सवं, आयोजयति । अस्मिन् उत्सवे ओडिस्सी-नृत्यस्य सङ्गीतस्य च वैशिष्ट्यस्य उत्सवस्य पालनं भवति । राज्यसर्वकारस्य जालपुटे अस्य आयोजनं प्रसारं च भवति।

फलकम्:ଓଡ଼ିଶାର ଶିବ ମନ୍ଦିର

"https://sa.wikipedia.org/w/index.php?title=मुक्तेश्वरमन्दिरम्&oldid=490808" इत्यस्माद् प्रतिप्राप्तम्