मुदुमलै अभयारण्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मुदुमलै अरण्यधाम(०४२३) तमिळ्नाडुराज्ये स्थितं प्रसिध्दं वन्यमृगरक्षणाकेन्द्रमेतत् । ३२३ चतुरस्रकि.मीटर विस्तृतम् अस्ति । पर्वतप्रदेशे सिगुरघाटप्रदेशे ३६ नागचलनगतिसदृशः क्लिष्टकरः वक्रमार्गः अस्ति । एतस्मिन् मार्गे आरुह्य वा अवरुह्य वा एतत् स्थानं प्राप्तव्यम् अस्ति । माविनहळ्ळीप्रदेशे गजाः मयूराः व्याघ्राः हरिणाः वनशुनकाः वनमहिषाः वनकुक्कुटाः स्वतन्त्रतया इतस्ततः सञ्चरन्तः भवन्ति । समूहे वनशुनकाः परिभ्रमन्ति ।

मोयार्नद्या निर्मितः जलपातः

अत्र पाङ्गोलिन् इति विशिष्टः प्राणी अस्ति । मोयार् नद्या कश्चन सुन्दरजलपातः निर्मितः अस्ति । मार्च-एप्रिल-मेमासेषु अत्र गमनं सुखकरम् ।

भूमार्गः[सम्पादयतु]

बेङ्गळूरुतः २५० कि.मी । ऊटीमैसूरु हासनतः लोकयानानि सन्ति ।

"https://sa.wikipedia.org/w/index.php?title=मुदुमलै_अभयारण्यम्&oldid=370452" इत्यस्माद् प्रतिप्राप्तम्