मेघालयराज्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(मेघालय इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
मेघालयराज्यम्
Meghalaya
राज्यम्
Official seal of मेघालयराज्यम्
Seal
भारते मेघालयः
भारते मेघालयः
मेघलयस्य भूपटः
मेघलयस्य भूपटः
राष्ट्रम्  भारतम्
उद्घोषणम् २१ जनवरि १९७२
राजधानी शिल्लाङ्ग्
मण्डलम् ११
Government
 • राज्यपालः रञ्जित् शेखर मूशहरी
 • मुख्यमन्त्री मुकुल् सङ्ग्मा
Area
 • Total
Area rank २२तम
Population (२०११)
 • Rank २३तम
 • Density
Time zone भारतीय कालगणनम् (UTC+05:30)
साक्षरतापरिमाणम् ७२.१% (१५तम)
भाषाः खासि, प्नार्भाषा,गरो,हिन्दी, आङ्ग्लभाषा
Website http://meghalaya.nic.in meghalaya.nic.in

मेघालयराज्यम् (Meghalaya) ईशान्यभागे भारते विद्यमानं किञ्चन राज्यम् । मेघानाम् आलयः "मेघालयः"। अस्य राज्यस्य विस्तीर्णं ८.७०० चदरमैलपरिमितम् अस्ति । सा.श. २००० तमे संवत्सरे २,१७५,००० जनसंख्या आसीत् । राज्यस्य उत्तरभागे असमराज्यम्, दक्षिणे बाङ्ग्लादेशश्च भवतः। शिलाङ्ग अस्य राज्यस्य राजधानी । अस्य नगरस्य जनसंख्या २६०,००० भवति । रज्यस्य तृतीयस्य एकांशः अरण्यप्रदेशः अस्ति । असमराज्यात् त्रयाणां मण्डलानां खासिहिल्स्, जैनतियाहिल्स् तथा गारोहिल्स् विभागकरणेन १९७२ तमे संवत्सरे मेघालयराज्यस्य स्थापनम् अभूत् ।

भौगोलिकम्[सम्पादयतु]

Umiam Lake Meghalaya.jpg

मिघालयराज्यम् मेघालयस्य “प्रस्थभूमिः” इति व्यवहारः अस्ति । अस्मिन् अधिकतया प्राचीनशिला खण्डसदृशाः विद्यन्ते । आङ्गाराष्म, चूर्णशिला, युरेनियम् तथा सिलिमनैट सदृशाः खनिजाः शिलारूपाः भवन्ति । मेघालये काश्चन नद्यः वहन्ति । तासु काश्चन वर्षाश्रिताः सन्ति । अतः कालानुगुण्येन वहन्ति । डेरिङ्ग, साण्डा, बान्द्रा, भोगै, डारेङ्ग, सिसाङ्ग, नितै तथा भूपै इत्यादीनि गारोहिल्स् प्रदेशस्य मुख्याः नद्यः । उम्ख्रि, उमियम्, किञ्चियाङ्ग, माव्वा, उमियिव, मैन्गोट तथा मैण्ट्डु इत्यादीनि प्रस्थभूमेः केन्द्रभागस्य तथा पूर्वविभागस्य मुख्याः नद्यः भवन्ति । एताः नद्यः गहनकन्दराणां तथा सुन्दरजलपातानां सृष्टिकर्त्र्यः भवन्ति । प्रस्थभूमेः उन्नतश्रेणिः १५० तः १९६१ मी. भवति । खासिहिल्स् प्रदेशे विद्यमानायाः प्रस्थभूमेः केन्द्रभागस्य औन्नत्यम् अधिकं भवति । जैनतियाहिल्स् प्रदेशे विद्यमानः पूर्ववलयः औन्नत्ये द्वितीयः भवति । मेघालये उन्नतः शिलाङ्गशिखरः भवति । खासिहिल्स् प्रदेशे विद्यमानः शिखरः शिलाङ्गशिखरस्यापेक्षया उन्नतः भवति । अयं शिखरः १९६१ मि. उन्नतः अस्ति । प्रस्थभूमेः पश्चिमविभागे विद्यमानः गारोहिल्स वलयः प्रायः समतलप्रदेशः भवति । गारोहिल्स वलयस्य नोक्रेक् शिखरः उन्नतः भवति । अस्य औन्नत्यं १५१६ मिटर्परिमितं भवति ।

जलवायुः[सम्पादयतु]

मेघालय-राज्यस्य जलवायुः उष्णकटिबन्धीयः अस्ति । ग्रीष्मर्तौ अस्य राज्यस्य अधिकतमं तापमानं २६ डिग्रीसेल्सियस्-मात्रात्मकं भवति । शीतर्तौ अस्य नगरस्य तापमानं ९ डिग्रीसेल्सियस्-मात्रात्मकं भवति । खासीहिल्स्-क्षेत्रे, जयन्तियाहिल्स्-क्षेत्रे च वर्षायाः आधिक्यं भवति । अस्य राज्यस्य पश्चिमभागे प्रायः २,६०० मिलिमीटरमितम्, उत्तरभागे २,५०० तः ३,००० मिलिमीटरमितं, दक्षिण-पूर्वभागयोः ४,००० मिलिमीटरमितं च वर्षामानं भवति [१]

नद्यः[सम्पादयतु]

मेघालय-राज्ये बह्व्यः नद्यः प्रवहन्ति । सिमसैङ्ग-नदी, माण्डा-नदी, जाञ्जीराम-नदी, डैमरिङ्ग-नदी, भोगई-नदी, रिङ्ग्गी-नदी, गनोल-नदी च इत्यादयः मेघालय-राज्यस्य प्रमुखाः नद्यः सन्ति । एताः नद्यः नौकाचालनाय उपयुक्ताः न सन्ति । यतः इदं क्षेत्रं पर्वतीयम् अस्ति । माण्डा-नदी, जाञ्जीराम-नदी, डैमरिङ्ग-नदी च इत्येताः नद्यः “गारो” इत्यस्य पर्वतक्षेत्रे उत्तरदिशि प्रवहन्ति । गनोल-नदी, रिङ्ग्गी-नदी च पश्चिमदिशि प्रवहति । सिमसैङ्ग-नदी दक्षिणदिशि प्रवहति । इयं नदी गारो-पर्वतीयक्षेत्रस्य बृहत्तमा नदी अस्ति । मेघालय-राज्ये तडागाः अपि सन्ति । माफलङ्ग-तडागः, थाडलास्किन-तडागः, उमियम-तडागः, उमियमर्त्वान-तडागः, मिलुन्द-तडागः, नपाक-तडागः, मिताङ्ग-तडागः च अस्य राज्यस्य प्रमुखाः तडागाः सन्ति [२]

इतिहासः[सम्पादयतु]

मेघालय-राज्यस्य इतिहासः षोडशशताब्दीतः प्राप्यते । ई. स. १७६५ तमे वर्षे इदं राज्यम् असम-राज्ये आसीत् । तस्मात् कालात् इदं क्षेत्रं ब्रिटिश-जनानाम् आधीन्ये आसीत् । “ईस्ट् इण्डिया कम्पनी” इत्यस्य संस्थायाः जनाः खासि-जातेः जनैः सह सम्पर्कं कृतवन्तः । तस्मिन् समये खासि-जनाः सिलहट-क्षेत्रस्य सीमायां स्थिते पाण्डुआ-स्थले वस्तूनां व्यापारं कुर्वन्ति स्म । ई. स. १८१३ तमे वर्षे खासीपर्वतीयक्षेत्रेषु मिशनरी-जनाः प्रविष्टवन्तः । ई. स. १८६६ तमे वर्षे ब्रिटिश-जनैः शासनव्यवस्थायै तुरा-नगरे ब्रिटिश-सर्वकारस्य प्रशासनिकमुख्यालयः स्थापितः । ई. स. १८६६ तमे वर्षे “खासी पुनरुत्थान आन्दोलनम्” आरब्धम् । अस्मिन् आन्दोलने खासि-जनैः मिशनरी-जनानां वैरोद्धारं कृतम् । ई. स. १९२८ तमे वर्षे “साइमन कमीशन” इत्ययं समूहः समागतवान् । अतः तस्मिन् समये “खासी नेशनल फ्रण्ट्” इत्यनेन समुहेन पृथक्त्वेन खासी-राज्यं याचितम् । ई. स. १९५४ तमे वर्षे अस्य क्षेत्रस्य निवासिभिः पुनः पृथग्राज्यस्य याचना कृता आसीत् । किन्तु ई. स. १९५६ तमे वर्षे “राज्य पुनर्गठन आयोग” इत्यनेन तेषां याचना अस्वीकृता । ई. स. १९६० तमे वर्षे “ऑल् पार्टी हिल् लीडर्स् कॉन्फ्रेन्स्” इतीदं सङ्घटनं सङ्घटितम् । अन्ते ई. स. १९७२ तमे वर्षे इदं क्षेत्रं स्वतन्त्रभारतस्य राज्यत्वेन उद्घोषितम् आसीत् । अस्य नाम मेघालयः इति कृतम् । “मेघानाम् आलयः इति मेघालयः” इति । प्रदेशः अयं पर्वतीयः अस्ति । वर्तमाने शिलाङ्ग-नगरं मेघालयस्य राजधानी अस्ति । किन्तु इदं नगरम् ई. स. १८७४ तमे वर्षे असम-राज्यस्य राजधानी आसीत् [३]

जनसंख्या[सम्पादयतु]

मेघालयराज्ये वनवासिनः एव अधिकतया निवसन्ति । तेष्वपि ’खासि’ जनाः अधिकतया सन्ति । ’गारोसमुदायस्थाः’ अपि अधिकतया निवसन्ति । अन्ये जैन्, तियार , कोच् , हजोङ्ग , दिमासा, ह्मार, कुकि, लखर, मिकिर, रभा तथा नेपाळि जनसमुदायाः अत्र निवसन्ति । भारते अधिकया विद्यमानेषु क्रिश्चियनसमुदायेषु त्रिषु राज्येषु मेघालयोऽपि एकं राज्यम् । अस्मिन् राज्ये ७०.३% प्रतिशतं क्रिश्चियनजनाः निवसन्ति । अन्ये द्वे राज्ये नागाल्याण्ड, मिजोरामश्च भवतः । १९९१ तमे संवत्सरे मेघालयराज्ये ६५% प्रतिशतं क्रिश्चियनजनाः वसन्तिस्म । ११ लक्ष क्रिश्चियनजनाः वसन्तिस्म । अस्मिन् समये मिजोरामापेक्षया मेघालये २००१ तमे संवत्सरे क्रिस्तजनाः अधिकतया वसन्तिस्म । २००१ तमे संवत्सरे अस्मिन् राज्ये १००० पुरुषाणां ९७५ स्त्रीणाम् लिङ्गानुपातः अस्ति । मेघालये पुरुषाणां प्रामुख्यता तावान्नास्तीति अभिप्रायः अस्ति ।

मण्डलानि[सम्पादयतु]

मेघालयराज्यं त्रिषु विभागेषु विभक्तम् । जैनतियाहिल्स्, खासिहिल्स्, गारोहिल्स् त्रयः विभागाः सन्ति । ११ मण्डलानि अस्मिन् राज्ये सन्ति ।

सङ्केतः मण्डलम् केन्द्रम् अधिकृतजालपुटम्
EK पूर्व-खासिहिल्स् शिल्लौङ्ग http://eastkhasihills.gov.in/
WK पश्चिम-खासिहिल्स् नोङ्गस्तोइन् http://westkhasihills.gov.in/
SWG नैऋत्य-खासिहिल्स् मौकरवट् http://southwestgarohills.gov.in/
RB रि-भोई नोङ्गपोह् http://ribhoi.gov.in/
EJH पूर्व-जाइन्तियाहिल्स् ख्लेरिएट् http://jaintia.nic.in/
WJH पश्चिम-जाइन्तियाहिल्स् जोवाइ http://jaintia.nic.in/
EG पूर्व-गारोहिल्स् विल्ल्यम्नगर http://eastgarohills.nic.in/
NG उत्तर-गारोहिल्स् रेसुबेल्पारा http://northgarohills.gov.in/
WG पश्चिम-गारोहिल्स् तुरा http://westgarohills.gov.in/
SG दक्षिण-गारोहिल्स् बाघ्मारा http://southgarohills.gov.in/
SWG नैऋत्य-गारोहिल्स् अम्पति http://southwestgarohills.gov.in/

महानगराणि[सम्पादयतु]

मेघालय-राज्ये मुख्यरूपेण द्वे महानगरे स्तः । शिलाङ्ग, चेरापूञ्जी च । मेघालयराज्यं पर्वतीयक्षेत्रम् अस्ति । अतः अस्य राज्यस्य नगराणां विकासः मन्दगत्या जायमानः अस्ति ।

शिलाङ्ग[सम्पादयतु]

शिलाङ्ग-नगरं मेघालयस्य राजधानी अस्ति । इदं नगरं मेघालयराज्यस्य पूर्वखासिहिल्स्-मण्डलस्य केन्द्रम् अस्ति । इदं नगरं “पूर्वदिशः स्कॉट्लैण्ड्” इति कथ्यते । नगरमिदं पर्वतक्षेत्रे स्थितम् अस्ति । अतः अस्य नगरस्य प्राकृतिकं सौन्दर्यम् अपि अद्भूतं वर्तते । अस्य नगरस्य पर्यटनस्थलानि जनान् आकर्षन्ति । तत्र बहवः जलप्रपाताः, पर्वतशिखराणि च मनोहराणि सन्ति । “शिलाङ्ग पीक”, एलिफेण्ट् जलप्रपातः, स्वीट्-जलप्रपातः, “लैडी हैदरी पार्क्”, वार्ड्स्-तडागः, “पुलिस बाजार” च अस्य नगरस्य प्रमुखाणि पर्यटनस्थलानि सन्ति । “डॉन् बोस्को सेण्टर् – सङ्ग्रहालयः” च अपि अस्मिन् नगरे स्थितः अस्ति । अस्मिन् सङ्ग्रहालये भारतीयसंस्कृतिः सङ्गृहीता अस्ति । मेघालय-राज्यं जनजातीयराज्यम् अस्ति । अस्मिन् राज्ये खासी, जैन्तिय, गारो च एताः तिस्रः जनजातयः निवसन्ति । शिलाङ्ग-नगरे खासी-जनजातेः जनाः निवसन्ति । इयं जनजातिः भारतस्य पुरातनीषु जनजातिषु अन्यतमा अस्ति । अस्याः जातेः जनाः कन्यायाः जन्मोत्सवम् आचरन्ति । ते कथयन्ति यत् - “कन्या एव वंशवृद्धिं करोति” इति ।

पुरा शिलाङ्ग-नगरम् असम-राज्यस्य राजधानी आसीत् । अस्य नगरस्य जलवायुः सुखदः, स्वास्थ्यकरः च अस्ति । अतः इदं नगरम् उत्तर-पूर्वदिशः पर्वतीयक्षेत्रम् अस्ति । इदं प्रशासनिकः मुख्यालयः अपि अस्ति । पुरा अस्मिन् राज्ये त्रयः ग्रामाः एव आसन् । आङ्गलैः शिलाङ्ग-नगरं स्थापितम् । शिलाङ्ग-नगरे बङ्गाली-जनाः अपि निवसन्ति । अस्य नगरस्य विकासाय बङ्गालीजनानां महद्योगदानम् अस्ति । अस्मिन् नगरे बङ्गाली-जनाः “बाबू” इति नाम्ना ज्ञायन्ते । वर्षर्तौ, शीतर्तौ च शिलाङ्ग-नगरस्य विहाराय जनाः गच्छन्ति ।

४० क्रमाङ्कस्य राष्ट्रियराजमार्गः शिलाङ्ग-नगरं गुवाहाटी-नगरेण सह सञ्योजयति । ४४ क्रमाङ्कस्य राष्ट्रियराजमार्गः इदं नगरं सिलचर-नगरेण, त्रिपुरा-राज्येन च सह सञ्योजयति । अनेन प्रकारेण इदं नगरं समीपस्थैः राज्यैः, नगरैः च सह सम्बद्धम् अस्ति । मेघालय-राज्ये धूमशकटमार्गाः न सन्ति । किन्तु असम-राज्यस्य गुवाहाटी-नगरे मेघालय-राज्यस्य समीपस्थं रेलस्थानकम् अस्ति । गुवाहाटी-नगरं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-रेलस्थानकात् देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, चेन्नै-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । उमरोई-नगरस्य विमानस्थानकं शिलाङ्ग-नगरस्य निकटतमं विमानस्थानकम् अस्ति । इदं विमानस्थानकं शिलाङ्ग-नगरात् ३० किलोमीटरमिते दूरे स्थितम् अस्ति । किन्तु साम्प्रतम् इदं विमानस्थानकम् अपिनद्धम् अस्ति । गुवाहाटी-नगरस्य बोरडोलोई-विमानस्थानकं शिलाङ्ग-नगरात् ११७ किलोमीटरमिते दूरे स्थितम् अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । गुवाहाटी-नगरात् भाटकयानैः बसयानैः वा शिलाङ्ग-नगरं प्राप्यते । अनेन प्रकारेण शिलाङ्ग-नगरं भूमार्गेण, रेलमार्गेण, वायुमार्गेण च भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । तेन जनाः सरलतया शिलाङ्ग-नगरं प्राप्तुं शक्नुवन्ति ।

चेरापूञ्जी[सम्पादयतु]

चेरापूञ्जी-नगरं मेघालय-राज्यस्य पूर्वीखासीहिल्स्-मण्डलस्य पत्तनम् अस्ति । चेरापूञ्जी-नगरं मेघालय-राज्यस्य लोकप्रियं नगरं विद्यते । इदं नगरं सोहरा इति नाम्ना अपि ज्ञायते । नगरमिदं सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । पृथिव्याः आर्द्रतमं नगरम् अस्ति । तत्र बहवः पर्वताः, जलप्रपाताः च सन्ति । अस्मिन् नगरे आवर्षं वृष्टिः भवति । तेन अस्य नगरस्य मृत्तिका अल्पभारा भवति । अतः अत्र कृषिः अशक्या । यतः वर्षायाः कारणेन मृत्तिका शिथिला भवति । अनन्तरम् अग्रिमायां वर्षायां सा मृत्तिका जलेन सह वहति । तेन कृषिं कर्तुं न शक्यते । किन्तु तत्र पर्यटनस्थलानि अपि बहूनि सन्ति । मास्मई, नोहकालीकई, डैन थ्लेन च एते जलप्रपाताः सन्ति । नोहकालीकई-जलप्रपातः भारतस्य बृहत्तमेषु जलप्रपातेषु अन्यतमः अस्ति । अस्मिन् नगरे सा-इ-मीका-उद्यानम् अस्ति । तेन जनानां सम्मर्दः अपि अधिकः भवति । अस्य नगरस्य प्राकृतिकसौन्दर्येण नगरमिदम् आकर्षकम् अस्ति । समुद्रतलात् इदं नगरं १४८४ मीटरमिते औन्नत्ये स्थितम् अस्ति । अस्मिन् नगरे प्रतिवर्षं प्रायः ४६३.६६ इन्चमिता वर्षा भवति ।

अस्मिन् नगरे भूमार्गः एव परिवहनमार्गः मुख्यः वर्तते । शिलाँग-नगरात् चेरापूञ्जी-नगरं ५५ किलोमीटरमिते दूरे स्थितम् अस्ति । नगरेऽस्मिन् मेघालय-राज्यस्य सर्वकारेण प्रचालितानि बसयानानि सन्ति । अतः पर्यटकाः तैः बसयानैः भ्रमणं कुर्वन्ति । चेरापूञ्जी-नगरे रेलस्थानकं नास्ति । गुवाहाटी-नगरस्य रेलस्थानकं चेरापूञ्जी-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं चेरापूञ्जी-नगरात् १५० किलोमीटरमिते दूरे स्थितम् अस्ति । इदं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । शिलॉङ्ग-नगरस्य विमानस्थानकं चेरापूञ्जी-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । इदं कोलकाता-नगरेण सह सम्बद्धम् अस्ति । किन्तु साम्प्रतम् इदं विमानस्थानकम् अपिनद्धम् अस्ति । अतः वर्तमाने काले गुवाहाटी-नगरस्य विमानस्थानकम् एव समीपस्थम् अस्ति । चेरापूञ्जी-नगरात् गुवाहाटी-नगरं १७० किलोमीटरमिते दूरे स्थितम् अस्ति । गुवाहाटी-विमानस्थानकं बेङ्गळूरु-महानगरेण, चेन्नै-महानगरेण, देहली-महानगरेण, मुम्बई-महानगरेण इत्यादिभिः भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अतः जनाः सरलतया चेरापूञ्जी-नगरं प्राप्तुं शक्नुवन्ति ।

भाषाः[सम्पादयतु]

आङ्ग्लभाषा मेघालयस्य राज्यभाषा अस्ति । ’खासि’ तथा ’गारो’ मुख्ये भाषे भवतः। ’खासि’ भाषा आस्ट्रो-एष्याटिक् समूहस्य मोनखैरस्य कुटुम्बस्य अङ्गम् अस्ति । प्रायः मेघालयस्थाः ९००,००० जनाः अनया खासि भाषया व्यवहरन्ति । खासिभाषायां विद्यमानानि कानिचन पदानि बङ्गालि तथा आर्यादि भाषातः स्वीकृतानि सन्ति । खासि भाषायाः लिपिः नास्ति । भारते मोनखैर कुटुम्बेषु अवसिष्टासु भाषासु खासि अपि एका भाषा । गारो, भोडो भाषयोः साम्यता अस्ति । अस्य राज्येषु अधिकाः जनाः गारो, अवे, चिसाक, अबेङ्ग, गाञ्चिङ्ग, कामरूप, आचिक,डाका तथा माट्टियादि भाषाप्रभेदेषु व्यवहरन्ति । अस्य राज्यस्य अपरा भाषा जैन तियाहिल्स् जनानां व्यवहारभाषा भवति । प्रायः खासि भाषायाः परिवर्तितं रूपं भवति।

राजनीतिः[सम्पादयतु]

मेघालय-राज्ये एकसदनात्मकं विधानमण्डलम् अस्ति । अस्य राज्यस्य विधानसभायां ६० स्थानानि सन्ति । अस्य राज्यस्य लोकसभायं द्वे स्थाने, राज्यसभायाम् एकं स्थानं च अस्ति । लोकसभायाः भूतपूर्वाध्यक्षः “पी. ए. सङ्गमा” इत्याख्यः अपि मेघालय-राज्येन सह सम्बद्धः अस्ति । हिल् स्टेट् पीपुल्स् डेमोक्रेटिक् पार्टी, पीपुल्स् डेमोक्रेटिक् पार्टी, पीपुल्स् डेमोक्रेटिक् मूवमेण्ट्, नेशनल् कॉङ्ग्रेस् पार्टी, यूनाइटेड् डेमोक्रेटिक् पार्टी च इत्यादयः अस्य राज्यस्य राजनैतिकसमूहाः सन्ति [४]

शिक्षणम्[सम्पादयतु]

ई. स. २०११ तमस्य वर्षस्य जनगणनानुसारं मेघालय-राज्यस्य साक्षरतामानं ७५.४८ प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं ७७.१७ प्रतिशतं, स्त्रीणां साक्षरतामानं ७३.७८ प्रतिशतम् अस्ति । शिलाङ्ग-नगरस्य “नॉर्थ् ईस्टर्न् हिल् युनिवर्सिटी”, शिलाङ्ग-नगरस्य “नॉर्थ् ईस्टर्न् इन्दिरा गान्धी रीजनल् इन्स्टीट्युट् ऑफ् हेल्थ् एण्ड् मेडिकल् साइन्सेज्”, शिलाङ्ग-नगरस्य “सैक्रेड् हार्ट् थियोलॉजिकल् कॉलेज्” च इत्यादीनि मेघालयराज्यस्य शैक्षणिकसंस्थानानि सन्ति [५]

अर्थव्यवस्था, कृषिः, उद्योगश्च[सम्पादयतु]

मेघालय-राज्यस्य जनाः मुख्यत्वेन कृष्याधारिताः सन्ति । अस्य राज्यस्य ८० प्रतिशतं जनाः कृषिकार्याणि, कृषिसम्बद्धान् उद्योगान् च कुर्वन्ति । मेघालय-राज्यस्य जलवायुः, मृत्तिका च कृषये अनुकूला अस्ति । अस्य राज्यस्य तापमानम् उष्णकटीबन्धीयं भवति । अतः फलानि, शाकानि च अधिकमात्रायाम् उत्पाद्यन्ते । तण्डुलाः, लवेटिकाः च अस्य राज्यस्य प्रमुखाणि सस्यानि सन्ति [६]

अस्मिन् राज्ये बहवः उद्योगाः अपि सन्ति । “मेघालय एसेन्शल् एण्ड् केमिकल् लिमिटेड्”, “मेघालय फाइटो केमिकल्स् लिमिटेड्”, “कोमोराह लाइमस्टोन् माइनिङ्ग् लिमिटेड्”, “यूनियन् काल्स्नेट्स् लिमिटेड्”, चेरापूञ्जी-नगरे “वज्रचूर्णस्य यन्त्रागारः” च इत्यादयः अस्य राज्यस्य प्रमुखाः उद्योगाः सन्ति । मेघालयराज्ये आहत्य १,५६० लघ्वुद्योगाः सन्ति । अस्मिन् राज्ये आहत्य ५६ उद्योगाः पञ्जीकृताः । अङ्गारः (Coal), चूर्णपाषाणः, केओलिन्, फेल्डस्पार्, स्फटिकं, अभ्रकं, जिप्सम्, बॉक्साईट् इत्यादयः खानिजाः प्राप्यन्ते । ई. स. १९९३ तमे वर्षे अस्मिन् राज्ये २५,४३,००० टनमात्रात्मकाः अङ्गाराः (coal), २,०९,००० टनमात्रात्मकाः चूर्णपाषाणाः च उत्पादिताः । मेघालय-राज्यस्य सिलीमेनाइट् (Sillimanite) इत्ययं खानिजः सम्पूर्णे विश्वस्मिन् श्रेष्ठः मन्यते । मेघालय-राज्यादेव सम्पूर्णभारते सिलीमेनाइट्-खानिजस्य आपूर्तिः क्रियते [७]

कला, संस्कृतिश्च[सम्पादयतु]

मेघालय-राज्यस्य संस्कृतिः बहुधा वर्तते । प्रत्येकस्मिन् क्षेत्रे विभिन्नाः जातयः निवसन्ति । अतः सर्वेषां संस्कृतिः, परम्परा च भिन्ना भवति । अस्य राज्यस्य जनाः नृत्यप्रेमिणः भवन्ति । सर्वे सङ्गीतप्रियाः भवन्ति । “पोमम्बलाङ्ग-नौगक्रेम” खासिजनजातेः प्रमुखं पर्व अस्ति । एवं च “वाङ्गाला” इत्ययम् उत्सवः गारोजनजातेः प्रमुखोत्सवः वर्तते । “माङ्गोना अजीओर”, “राङ्गूच गाल”, “डेन विलियम्स्” इत्यादयः अपि अस्य राज्यस्य प्रमुखाः उत्सवाः सन्ति । जयन्तिला-जनाजातेः जनाः “टाईगर् फेस्टिवल्”, “बाम फलार” च इत्येतौ उत्सवौ आचरन्ति [८]

मेघालय-राज्ये ईसाई-धर्मस्य जनाः अधिकमात्रायां सन्ति । आहत्य जनसङ्ख्यायाः ७५ प्रतिशतं जनाः ईसाई-धर्मस्य अनुसरणं कुर्वन्ति । अस्य राज्यस्य गारो-जातेः ९० प्रतिशतं, खासि-जातेः ८० प्रतिशतं च जनाः ईसाई-धर्मम् आचरन्ति । हजोङ्ग-जातेः ९७ प्रतिशतं, कोच-जनजातेः ९८.५३ प्रतिशतं जनाः हिन्दुधर्मम् आचरन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

मेघालय-राज्यं पर्वतीयक्षेत्रे स्थितम् अस्ति । अतः तस्मिन् राज्ये बहूनि वीक्षणीयस्थलानि सन्ति । शिलाङ्ग-नगरं मेघालय-राज्यस्य राजधानी अस्ति । तस्य नगरस्य समीपे “लैडी हैदरी-उद्यानं”, “वार्ड्-तडागः, “शिलाङ्ग-पर्वतशिखरं”, “एलीफेण्ट्-जलप्रपाताः”, “पोलो ग्राउण्ड्” च इत्यादीनि प्रमुखाणि पर्यटनस्थलानि सन्ति [९]चिरापुञ्जि ईशान्य भारतस्य जनप्रियं प्रेक्षणीयस्थलम् । चिरापुञ्जि शिलाङ्गनगरात् दक्षिणदिशि विद्यते । ’एलिफण्ट जलपातः’, ’शाद्धुम् जलपातः’, ’वेय्निया जलपातः’, ’बिषप् जलपातः’, ’नोह्कालिकेय् जलपातः’, ’ल्याङ्ग्षियाङ्ग् जलपातः’, ’स्वीट् जलपातश्च’ प्रसिद्धाः जलपाताः भवन्ति । मासिन्राम् समीपे “जाक्रेम् अष्णजलउत्सांसि” सन्ति । रोगनिरोधकशक्तिः ऊष्णजले अस्ति । मेघालये मानवनिर्मिताः नैसर्गिकाश्च तटाकाः सन्ति । गुवहाटीतः शिलाङ्गगमनमार्गे विद्यमानस्य 'उमियम्' तटाकस्य “बडापानि” इति ख्यातिरस्ति । उमियम् तटाकः जानाकर्षकं प्रवासिस्थानं भवति । थङ्गखारङ्ग् उद्यानम्, इको उद्यानम्, सस्यशास्त्रीयोद्यानम्, लेडिहैदरि उद्यानानि प्रसिद्धानि भवन्ति ।

पश्चिम-गारो-हिल्स्[सम्पादयतु]

पश्चिम-गारो-हिल्स्-मण्डलं मेघालय-राज्यस्य द्वीतीयं बृहत्तमं मण्डलम् अस्ति । अस्य मण्डलस्य मुख्यालयः तुरा-नगरम् अस्ति । तुरा-नगरं मेघालय-राज्यस्य बृहत्तमेषु नगरेषु अन्यतमम् अस्ति । इदं मण्डलं प्रायः पर्वतीयक्षेत्रम् अस्ति । अस्य मण्डलस्य विस्तारः ३७१४ चतुरस्रकिलोमीटरमितः अस्ति । अस्मिन् मण्डले अपि बहव जलप्रपाताः, तडागाः, नद्यः, पर्वताः च सन्ति । अनेन अस्य मण्डलस्य सौन्दर्यं वर्धते । ये जनाः पर्वतारोहिणः सन्ति । तेभ्यः इदं मण्डलं रमणीयं भवति । “नोकरेक बायोस्फीयर्”, “चिबराग्रे पेल्गा जलप्रपातः”, “रोङ्गबैङ्ग डेयर्” च अस्य मण्डलस्य प्रमुखाणि पर्यटनस्थलानि सन्ति । तत्र सासातग्रे-ग्रामः अस्ति । अयं ग्रामः नारङ्गफलाय प्रसिद्धः अस्ति । अस्मिन् मण्डले गारोस-जनजातयः निवसन्ति । गारोस-जनजातिः बोडो-परिवारेण सह सम्बद्धा अस्ति । वर्षर्तोः अनन्तरं शीतर्तौ अस्य नगरस्य वातावरणं मनोहरं, सुखदं, स्वास्थ्यकरं च भवति । अस्य मण्डलस्य केन्द्रं तुरा-नगरम् अस्ति । तुरा-नगरम् अस्य मण्डलस्य प्रवेशद्वारमपि अस्ति । तुरा-नगरात् गुवाहाटी-नगरं २२२ किलोमीटरमिते, शिलाङ्ग-नगरं ३०९ किलोमीटरमिते च दूरे स्थितम् अस्ति । ५१ क्रमाङ्कस्य राष्ट्रियराजमार्गे तुरा-नगरं स्थितम् अस्ति । अतः इदं मण्डलं भूमार्गेण समीपस्थैः नगरैः सह सम्बद्धम् अस्ति । असम-राज्यस्य गुवाहाटी-नगरे अस्य मण्डलस्य समीपस्थं रेलस्थानकम् अस्ति । अस्मात् मण्डलात् गुवाहाटी-नगरं २१० किलोमीटरमिते दूरे स्थितम् अस्ति । गुवाहाटी-नगरं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-रेलस्थानकात् देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, चेन्नै-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । गुवाहाटी-नगरस्य विमानस्थानकम् अस्य मण्डलस्य निकटतमं विमानस्थानकम् अस्ति । गुवाहाटी-नगरस्य बोरडोलोई-विमानस्थानकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । गुवाहाटी-नगरात् भाटकयानैः बसयानैः वा तुरा-नगरं प्राप्यते । अनेन प्रकारेण इदं मण्डलं भूमार्गेण, रेलमार्गेण, वायुमार्गेण च भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति ।

पूर्वीगारोहिल्स्[सम्पादयतु]

पूर्वीगारोहिल्स्-मण्डलं मेघालयराज्यस्य एकादशमण्डलेषु अन्यतमम् अस्ति । अस्य मण्डलस्य सर्वकारीयकार्याणि विलियमनगरस्य प्रशासनिकमुख्यालये भवन्ति । इदं मण्डलं २६०३ चतुरस्रकिलोमीटरमितं विस्तृतम् अस्ति । अस्य मण्डलस्य दक्षिणदिशि दक्षिणगारोहिल्स्-मण्डलं, पूर्वदिशि खासीहिल्स्-मण्डलं, पश्चिमदिशि पश्चिमगारोहिल्स्-मण्डलं च स्थितम् अस्ति । अस्मिन् मण्डले गारो-जातेः जनाः निवसन्ति । इयं जातिः मेघालय-राज्यस्य द्वितीया बृहत्तमा जातिः वर्तते । तत्र बहवः जातयः निवसन्ति । हजोङ्ग्स, रभस, कोचेस, बनिस, दलुस, बोरोस च इत्यादयः जातयः प्राप्यन्ते । मण्डलेऽस्मिन् विभिन्नप्रकारकाः वनस्पतयः, जीवाः प्राप्यन्ते । किन्तु साम्प्रतम् इदं मण्डलं प्रसिद्धं नास्ति । तथापि समीपस्थाः जनाः भ्रमणार्थं तत्र गच्छन्ति । अस्य मण्डलस्य विकासः जायमानः अस्ति । अस्य मण्डलस्य वातावरणं ग्रीष्मर्तौ उष्णं, शीतर्तौ शीतलं च भवति । अस्य मण्डलस्य जलवायुः अपि सुखदः, स्वास्थकरः च भवति । पूर्वीगारोहिल्स्-मण्डलं ५१ क्रमाङ्कस्य राजमार्गेण सह सम्बद्धम् अस्ति । मेघालय-राज्यस्य सर्वकारेण अपि पर्यटनाय बसयानानि प्रचालितानि सन्ति । तैः जनाः पूर्वीगारोहिल्स्-मण्डलस्य पर्यटनस्थलानि भ्रमितुं शक्नुवन्ति । गुवाहाटी-नगरस्य रेलस्थानकं मेघालय-राज्यस्य मुख्यं रेलस्थानकत्वेन स्थितम् अस्ति । गुवाहाटी-नगरं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । उमरोई-नगरे मेघालयराज्यस्य प्रमुखं विमानस्थानकम् अस्ति । गुवाहाटी-नगरं गन्तुं विमानस्थानकम् अपि समीपे एव अस्ति । अनेन प्रकारेण पूर्वीगारोहिल्स्-मण्डलं भूमार्गेण, रेलमार्गेण, वायुमार्गेण च सम्बद्धम् अस्ति । जनाः सरलतया तत्र गन्तुं शक्नुवन्ति ।

जोवाई[सम्पादयतु]

जोवाई-नगरं मेघालय-राज्यस्य पश्चिमजयन्तियाहिल्स्-मण्डलस्य मुख्यालयः अस्ति । अस्मिन् नगरे पनार-जनजातिः निवसति । इदं नगरं माइण्टडू-नद्याः तटे स्थितम् अस्ति । नगरमिदम् एकस्मिन् शैलप्रस्थे स्थितम् अस्ति । समुद्रतलात् इदं नगरं १३८० मीटरमितम् उन्नतम् अस्ति । औन्नत्ये स्थिते सति अस्य अस्य नगरस्य जलवायुः सुखदः, शान्तश्च अस्ति । जोवाई-नगरस्य समीपे अङ्गाराणां (coal) कूल्याः अपि सन्ति । अतः अस्य नगरस्य अर्थव्यवस्था अपि सुदृढा अस्ति । जोवाई-नगरे बेहदीमखालम-उत्सवः आचर्यते । जनाः सोत्साहेन इमम् उत्सवम् आचरन्ति । प्रतिवर्षं जुलाई-मासस्य द्वितीये सप्ताहे अयम् उत्सवः आयोज्यते । तत्र थाडलासेकिन-तडागः, लालाङ्ग-उद्यानं, “जोवाई प्रेस्बिटेरियन् चर्च्” च इत्यादयः अस्य नगरस्य पर्यटनस्थलानि सन्ति । ग्रीष्मर्तौ, शीतर्तौ च अस्य नगरस्य वातावरणं सुखदं भवति ।

जोवाई-नगरं ४४ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । सर्वकारप्रचालितानि बसयानानि अपि प्रचलन्ति । असम-राज्यस्य गुवाहाटी-नगरे अस्य नगरस्य समीपस्थं रेलस्थानकम् अस्ति । जोवाई-नगरात् गुवाहाटी-नगरं १६० किलोमीटरमिते दूरे स्थितम् अस्ति । गुवाहाटी-नगरं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-रेलस्थानकात् देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, चेन्नै-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । गुवाहाटी-नगरस्य विमानस्थानकम् अस्य नगरस्य निकटतमं विमानस्थानकम् अस्ति । गुवाहाटी-नगरस्य बोरडोलोई-विमानस्थानकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । गुवाहाटी-नगरात् भाटकयानैः बसयानैः वा जोवाई-नगरं प्राप्यते । अनेन प्रकारेण इदं मण्डलं भूमार्गेण, रेलमार्गेण, वायुमार्गेण च भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति ।

जयन्तिया हिल्स्[सम्पादयतु]

जयन्तियाहिल्स् इत्येतत् क्षेत्रं मेघालय-राज्ये स्थितम् अस्ति । अस्य क्षेत्रस्य मण्डलद्वयम् अस्ति । पूर्वीजयन्तियाहिल्स्-मण्डलं, पश्चिमीजयन्तियाहिल्स्-मण्डलं च । पूर्वीजयन्तियाहिल्स्-मण्डलस्य केन्द्रं खलीहरियत-नगरं, पश्चिमीजयन्तियाहिल्स्-मण्डलस्य केन्द्रं जोवाई-नगरं च अस्ति । जयन्तियाहिल्स्-क्षेत्रस्य प्राकृतिकं सौन्दर्यम् अद्भूतम् अस्ति । बाङ्ग्लादेशेन सह क्षेत्रमिदं सम्बद्धम् अस्ति । अस्मिन् क्षेत्रे “जयन्तिया” इत्याख्यः राजा शासनं करोति स्म । जयन्तियापुरं तस्य राज्यस्य राजधानी आसीत् । सः तत्रैव निवसति स्म । किन्तु साम्प्रतं जयन्तियापुरं बाङ्ग्लादेशे स्थितम् अस्ति । जयन्तिया-राज्ञा अस्य क्षेत्रस्य नारतियाङ्ग-ग्रामः ग्रीष्मकालीनराजधानीत्वेन उपयुज्यते स्म । अतः तेन कारणेन आवागमने वृद्धिः जाता । अपि च सांस्कृतिकदृष्ट्या अपि सम्बन्धः जातः । साम्प्रते काले नारतियाङ्ग-ग्रामः जयन्तियाहिल्स्-क्षेत्रस्य प्रमुखेषु वीक्षणीयस्थलेषु अन्यतमः अस्ति । नारतियाङ्ग-ग्रामस्य दुर्गामन्दिरम् अपि अस्य क्षेत्रस्य आकर्षणस्य केन्द्रं विद्यते ।

परिवहने भूमार्गः अस्य क्षेत्रस्य प्रमुखं साधनम् अस्ति । इदं क्षेत्रं ४४ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । एवं च मेघालय-राज्यस्य सर्वकारेण अपि बसयानानि प्रचालितानि सन्ति । अस्य क्षेत्रस्य पर्यटनस्थलानां भ्रमणं कर्तुं बसयानानि सन्ति । मेघालय-राज्ये रेलस्थानकम् एव नास्ति । अतः असम-राज्यस्य गुवाहाटी-नगरे जयन्तियाहिल्स्-क्षेत्रस्य समीपस्थं रेलस्थानकम् अस्ति । गुवाहाटी-नगरं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-रेलस्थानकात् देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, चेन्नै-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । उमरोई-नगरस्य विमानस्थानकम् अस्य क्षेत्रस्य निकटतमं विमानस्थानकम् अस्ति । किन्तु साम्प्रतम् इदं विमानस्थानकम् अपिनद्धम् अस्ति । गुवाहाटी-नगरस्य बोरडोलोई-विमानस्थानकम् अस्य क्षेत्रस्य समीपस्थं विमानस्थानकम् अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । गुवाहाटी-नगरात् भाटकयानैः बसयानैः वा जयन्तियाहिल्स्-क्षेत्रं प्राप्यते । अनेन प्रकारेण इदं स्थलं भूमार्गेण, रेलमार्गेण, वायुमार्गेण च भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । तेन जनाः सरलतया तत्र गन्तुं शक्नुवन्ति ।

दक्षिणीगारो हिल्स्[सम्पादयतु]

दक्षिणीगारोहिल्स्-मण्डलं मेघालय-राज्ये स्थितम् अस्ति । अस्य नगरस्य सौन्दर्यं महत्त्वपूर्णम् अस्ति । इदं मेघालय-राज्यस्य दक्षिणदिशि स्थितम् अस्ति । बाघमारा-नगरम् अस्य मण्डलस्य केन्द्रत्वेन स्थितम् अस्ति । अस्य मण्डलस्य उत्तरदिशि पूर्वीगारोहिल्स्-मण्डलं, पूर्वदिशि पश्चिमीखासीहिल्स्-मण्डलं, पश्चिमदिशि पश्चिमीगारोहिल्स्-मण्डलं, दक्षिणदिशि बाङ्लादेशः च स्थितः अस्ति । साम्प्रतम् इदं मण्डलं भारते प्रसिद्धं नास्ति । यतः इदानीम् अस्य प्रारम्भिकावस्था वर्तते । अस्य मण्डलस्य बहूनि वीक्षणीयस्थलानि गुप्तानि सन्ति । अतः मेघालय-राज्यस्य सर्वकारः इदं स्थलं साहसिकपर्यटनस्थलं कर्तुं प्रयासान् कुर्वन् अस्ति । बालपकराम-राष्ट्रियोद्यानं, “चिदिमक”, सिजु-गुहा च इति दक्षिणीगारोहिल्स्-मण्डलस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति । नेङ्गकोङ्ग, सिमसाङ्ग-नदी, इमिलचाङ्ग दारे च अस्य मण्डलस्य पर्यटनस्थलानि सन्ति । अस्मिन् मण्डले वृष्ट्याः आधिक्यम् अस्ति । अतः अस्य मण्डलस्य वातावरणं शीतलं भवति । किन्तु ग्रीष्मर्तौ उष्णता भवति । अतः शीतर्तौ जनाः भ्रमणार्थं तत्र गच्छन्ति ।

गुवाहाटी-नगरस्य रेलस्थानकं दक्षिणीगारो-मण्डलस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं बाघामारा-नगरात् १५७ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं देहली-महानगरेण, मुम्बई-महानगरेण, कोलकाता-महानगरेण इत्यादिभिः भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । उमरोई-विमानस्थानकम् अस्य मण्डलस्य समीपस्थं विमानस्थानकम् अस्ति । इदं कोलकाता-नगरेण सह सम्बद्धम् अस्ति । किन्तु साम्प्रतम् इदं विमानस्थानकम् अपिनद्धम् अस्ति । अतः वर्तमाने काले गुवाहाटी-नगरस्य विमानस्थानकम् एव समीपस्थम् अस्ति । गुवाहाटी-विमानस्थानकं बेङ्गळूरु-महानगरेण, चेन्नै-महानगरेण, देहली-महानगरेण, मुम्बई-महानगरेण इत्यादिभिः भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अतः जनाः सरलतया दक्षिणीगारोहिल्स्-मण्डलं प्राप्तुं शक्नुवन्ति ।

री भोई[सम्पादयतु]

“री भोई” मेघालय-राज्यस्य मण्डलम् अस्ति । नोङ्गपोह-नगरम् अस्य मण्डलस्य मुख्यालयः अस्ति । इदं मण्डलं पूर्वीखासीहिल्स्-मण्डलस्य विभागः अस्ति । उमियाम-तडागः अस्य मण्डलस्य आकर्षणस्य केन्द्रं विद्यते । एतत् स्थलं “बारा पानी” इति नाम्ना ज्ञायते । अस्य तडागस्य समीपे एकः विद्युदुत्पादकः जलबन्धः अस्ति । जनाः तत्र जलक्रीडां कुर्वन्ति । “लुम नेहरू पार्क्” इत्येतत् स्थलं पर्यटकेषु लोकप्रियम् अस्ति । “लुम सोहपेटबैङ्ग”, “डिङ्गिई-शिखरं”, “द्वारक्सुद” इत्यादीनि “री भोई-मण्डलस्य” अन्यानि पर्यटनस्थलानि सन्ति । ग्रीष्मर्तौ अस्य नगरस्य वातावरणं शुष्कं, सुखदं, स्वास्थ्यकरं च भवति । अतः जनाः तस्मिन् काले भ्रमणार्थं तत्र गच्छन्ति ।

इदं मण्डलं ४० क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अतः इदं मण्डलं मेघालय-राज्यस्य मण्डलैः सह सम्बद्धम् अस्ति । मेघालयराज्यस्य सर्वकारेण जनानां सौकर्याय बसयानानि अपि प्रचालितानि सन्ति । नोङ्गपोह-नगरं गुवाहाटी-नगरात् ५० किलोमीटरमिते दूरे स्थितम् अस्ति । गुवाहाटी-नगरे अस्य मण्डलस्य समीपस्थं रेलस्थानकम् अस्ति । गुवाहाटी-नगरं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-रेलस्थानकात् देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, चेन्नै-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । गुवाहाटी-नगरस्य विमानस्थानकम् अस्य नगरस्य निकटतमं विमानस्थानकम् अस्ति । गुवाहाटी-नगरस्य बोरडोलोई-विमानस्थानकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । गुवाहाटी-नगरात् भाटकयानैः बसयानैः वा “री भोई-मण्डलं” प्राप्यते । अनेन प्रकारेण इदं मण्डलं भूमार्गेण, रेलमार्गेण, वायुमार्गेण च भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति ।

परिवहनम्[सम्पादयतु]

भूमार्गः[सम्पादयतु]

मेघालयराज्ये भूमार्गाः ६,०२२ किलोमीटरमिताः दीर्घाः सन्ति । मेघालय-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । अस्य राज्यस्य लोकनिर्माणविभागेन राज्ये मार्गाः निर्मापिताः । राज्येऽस्मिन् षड्राष्ट्रियराजमार्गः अपि विद्यते । तैः राष्ट्रियराजमार्गैः इदं राज्यं भारतस्य विभिन्नराज्यैः सह सम्बद्धम् अस्ति । शिलाङ्ग-नगरं, चेरापूञ्जी-नगरं च असमराज्यस्य विभिन्ननगरैः सह भूमार्गेण सम्बद्धम् अस्ति । असम-राज्यस्य गुवाहाटी-नगरं मेघालय-राज्येन सह श्रेष्ठतया सम्बद्धम् अस्ति । अतः भूमार्गेण मेघालय-राज्यं सरलतया प्राप्यते ।

धूमशकटमार्गः[सम्पादयतु]

मेघालय-राज्ये धूमशकटमार्गाः न सन्ति । यतः मेघालयराज्यं पर्वतीयम् अस्ति । अतः धूमशकटमार्गान् निर्मातुं समस्या भवति । तथापि राज्यसर्वकारः, केन्द्रसर्वकारश्च प्रयासान् कुर्वन्तौ स्तः । इदं राज्यं गुवाहाटी-नगरस्य रेलस्थानकेन सह भूमार्गेण सम्बद्धम् अस्ति । गुवाहाटी-रेलस्थानकाद् बसयानैः, भाटकयानैः वा मेघालय-राज्यं प्राप्यते ।

वायुमार्गः[सम्पादयतु]

मेघालय-राज्यस्य उमरोई-नगरे एकमेव विमानस्थानकम् अस्ति । शिलाङ्ग-नगरात् उमरोई-नगरं ३५ किलोमीटरमिते दूरे स्थितम् अस्ति । गुवाहाटी-नगरस्य बोरडोलोई-विमानस्थानकं मेघालय-राज्यस्य समीपस्थं विमानस्थानकम् अस्ति । तस्माद् विमानस्थानकाद् बसयानैः, भाटकयानैः वा मेघालय-राज्यं प्राप्यते । जनाः सरलतया मेघालय-राज्यं प्राप्तुं शक्नुवन्ति । मेघालय-राज्यस्य सर्वकारः मेघालय-राज्यस्य परिवहनव्यवस्थां सुदृढां कर्तुं प्रयासान् कुर्वाणः अस्ति । समयान्तरे अस्य राज्यस्य परिवहने विकासः भविष्यति ।

वीथिका[सम्पादयतु]

बाह्यानुबन्धः[सम्पादयतु]


सन्दर्भाः[सम्पादयतु]

  1. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – २९५
  2. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – २९५
  3. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – २९१-२९२
  4. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – २९२
  5. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – २९६
  6. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – २९५
  7. http://bharatdiscovery.org/india/मेघालय_की_अर्थव्यवस्था
  8. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – २९६
  9. http://hindi.nativeplanet.com/sitemap/
"https://sa.wikipedia.org/w/index.php?title=मेघालयराज्यम्&oldid=425399" इत्यस्माद् पुनः प्राप्तिः