मेधाविरुद्रः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मेधाविरुद्रस्य अपरं नाम मेधावी इति। सः अलङ्कारशास्त्रस्य प्रथमः प्रवक्ता । तस्य ग्रन्थस्तु सुम्प्रति नैवोपलभ्यते किन्तु तस्य अलङ्कारशास्त्रसम्बद्धसिद्धान्ताः यत्र तत्र समुद्धृताः सन्ति। काव्यशास्त्रस्य प्रथमाचार्यो हि भामहः तम् उद्धरति। यथा -

'हीनताऽसम्भवो लिङ्गवचोभेदो विपर्ययः।

उपमानाधिकत्वञ्च तेनासदृशताऽपि च।।

त एते उपमादोषाः सप्त मेधाविनोदिताः।

सोदाहरणलक्ष्मणो वर्ण्यन्तेऽत्र च ते पृथक्।।'

अनेन अनुमीयते यत् मेधाविनः कश्चिदलङ्कारशास्त्रविषयको ग्रन्थ आसीदेव । एवमेव तत्रैव -

‘यथासङ्ख्यमथोत्प्रेक्षामलङ्कारद्वयं विदुः।

सङ्ख्व्यानमिति मेधावी नोत्प्रेक्षाऽभिहिता क्वचित्।।'

रुद्रटस्य काव्यालङ्कारटीकायां नमिसाधुः कथयति -

"ननु दण्डिमेधाविरुद्रभामहादिकृतानि सन्त्येवालङ्कारशास्त्राणि।"

एवमेव -

'अत्र च स्वरूपोपादाने सत्यपि चत्वार इति ग्रहणाद्यन्मेधाविप्रभृतिभिरुक्तं यथा लिङ्गवचनभेदौ हीनताधिक्यमसम्भवो विपर्ययः सादृश्यमिति सप्तोपमादोषाः........' इति ।

तथैव -

“एत एवं चत्वारः शब्दविधाः इति येषां सम्यमतं तत्र तेषु नामादिषु मध्ये मेधाविरुद्रप्रभृतिभिः कर्मप्रवचनीया नोक्ता भवेयुः” इति।

तथैव राजशेखरश्च काव्यमीमांसायां -

“प्रत्यक्षप्रतिभावतः पुनरपश्यतोऽपि प्रत्यक्ष इव यतो मेधाविरुद्रकुमारदासादयो जात्यन्धाः कवयः श्रूयन्ते” इति।

व्यक्तित्वविषये[सम्पादयतु]

उपर्युत्थापितवर्णनेनैतत् मन्यते यन्मेधावी अलङ्कारशास्त्रस्य पण्डित आसीत् स्वयं कविश्च। तस्य मते सप्तोपमादोषा भवन्ति । वामनमम्मटादिमते तु षडेव विपर्ययस्य हीनताधिकयोरेवान्तर्भावात् । एवञ्च तन्मते नामाख्यातोपसर्गनिपाता इति चत्वारः शब्दाः न तु कर्मप्रवचनीयाः । नैतावन्मात्रम् अपि तु अग्निपुराणे मेधाविरुद्रौ काव्याचार्यत्वेन स्मृतौ स्तः ।

मेधाविविषये द्वे परस्परविरोधिमते दृश्येते । केचिन्मेधावी रुद्रश्चेति पृथक्पृथगेव मन्यन्ते यथाऽग्निपुराणे। केचित्तु मेधाविरुद्ध इति एकमेव व्यक्तित्वं गृह्णन्ति । भामहस्तु मेधाविनमेव स्मरति न तु रुद्रोत्तरं वा रुद्रमेव । नमिसाधुः राजशेखरश्च मेधाविरुद्रम् एवैकव्यक्तित्वेन गृह्णीतः। वस्तुतस्तु मेधावीरुद्रश्चेति पृथक्त्वेनोपादानमेवोपयुक्तं मन्यते अग्निपुराणे तथास्मृतत्वाद्भामहेन मेधाविमात्रस्य ग्रहणाच्च।

कालः[सम्पादयतु]

मेधाविरुद्रस्य वा मेधाविरुद्रयोः स्थितिकालविषये नैव किञ्चिदपि अनुमातुमपि शक्यते किमुत इदमित्थन्तया वक्तुम् । एतावदेव वक्तुं पार्यते यत् स वा तौ भामहपूर्वकालिको वा भामहपूर्वकालिकौ आसीद्वाऽऽस्ताम् भामहग्रन्थे मेधाविमतस्योल्लेखात् । तत्रापि नमिसाधुस्तु संस्कृत-प्राकृतपौर्वापर्यविषय एव आन्दोलयति ‘दण्डिमेधाविरुद्रभामहादिकृतानि' इति कथनेन । तस्यानुसारं तु दण्डिनः पश्चाद्वर्तित्वेन मेधाविरुद्रस्योल्लेखो भामहपूर्ववर्तित्वेन । तथा हि सति अग्निपुराणं विपद्येत । तद्धि मेधाविरुद्रावेव काव्याचार्यत्वेन स्मरति न तु दण्डिनमपि । यदि मेधावी दण्ड्यनन्तरकालवर्ती सिध्येत् तदा तदुल्लेखकं पुराणमपि दण्ड्यनन्तरमेव प्रणीतं भवेद्येन तस्य पुराणत्वमेव प्रणश्येत् । यद्यपि प्राचीनत्वमेव न पुराणलक्षणं तथापि प्रायः सर्वत्र पुराणेषु अग्निपुराणस्योल्लेखात्तस्य नवीनत्वे सिद्धे सति सर्वेषामेव तदुल्लेखकानां पुराणानामपि दण्ड्यनन्तरकालवर्तिता सिध्यति, येन समस्ताऽपि पुराणमान्यता विपन्ना भवेत् । अपरञ्च यदि तावानंशः पश्चान्निक्षिप्तो मन्यते तदाप्यनन्ततादोष आपद्यते निक्षिप्तांशस्य इयत्तानिर्धारणासम्भवात् । इदमपि चिन्तनं भवति यद्यत्र मेधाविरुद्रौ समुल्लिखितौ तदा दण्ड्यपि अवश्यमेवोल्लिखितो भवेद्यदि स तत्पूर्ववर्ती सम्भवेत् । किन्तु वस्तुस्थितिस्तु तत्प्रतिकूलैव । केचनैतदपि तर्कयन्ति यन्मम्मटपर्यन्ताचार्यैर्न कैश्चिदप्यग्निपुराणमलङ्कारशास्त्रविवेचकत्वेन स्मृतम् । मम्मटोऽपि केवलं विष्णुपुराणमेव स्मरति नत्वग्निपुराणम् । अलङ्कारशास्त्रपरम्परायामग्निपुराणस्योल्लेखस्तु प्रथमं साहित्यदर्पणकारेण विश्वनाथेनैव कृत इति अग्निपुराणस्य तावानंशो मम्मटानन्तरविश्वनाथपूर्ववर्तिकाले प्रक्षिप्त इति । उद्धरणमात्रमेव न प्राचीनत्वलक्षणम् । सम्भवति मम्मटादिभिः तदज्ञातमपि स्यादथवा उपेक्षितमपि । स्वमतोपस्थापनपरायणो यदि परोत्कर्षमुपेक्षते चेत्किमाश्चर्यम् । तेनैतदेवं प्रतिष्ठापितं सम्भवति यन्मेधावी आलङ्कारिकेषु प्राचीनतमो येन समग्रमेवालङ्कारशास्त्रं प्रोक्तम् । तच्च शिष्यपरम्परया सुरक्षितं सत्तस्य कतिपयोंऽशो भामहेन स्वग्रन्थे समवतारितोऽथवा मेधाविनो ग्रन्थः कालकवलितः सञ्जातः । अग्निपुराणे यावदेव काव्यशास्त्रविवरणं दत्तं तत्सर्वं मेधाविरुद्रानुवादः इति तु तत्रैव स्वीकृतमेव । तेन मेधाविरुद्रस्य वा मेधाविरुद्रयोः कालः पौराणिककालसंवादी । सामान्यतः एतदनुमीयते यद्भरतमेधाविनौ शास्त्रप्रवर्तकाचार्यौ यत्राद्यो नाट्यशास्त्राचार्योऽपरोऽलङ्कारशास्त्राचार्यः इति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मेधाविरुद्रः&oldid=438454" इत्यस्माद् प्रतिप्राप्तम्