मैत्रीं भजत

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मैत्रीं भजत इति संस्कृतभाषा-स्तोत्रगीतं काञ्चीमठस्य परमाचार्यः इति मन्यमानेन चन्द्रशेखरेन्द्रसरस्वतिना काञ्चीमठस्य मठाधिपतिना रचितम् । अस्य गीतस्य सङ्गीत-संयोजनं रागमालिका-रूपेण कृतं सङ्गीत-संयोजकेन वसन्त-देसायिना । गीतम् इदं विश्वदेशानाम् ऐक्यं प्रतिपादयति ।

ऐतिहासिकविशेषः[सम्पादयतु]

इदं गीतं संयुक्तराष्ट्रसंस्थायाः १९६६ तमवर्षस्य यू-एन्-दिनम् इति उत्सवस्य अङ्गतया, अक्टोबर्-मासस्य २३तमे दिनाङ्के संयुक्तराष्ट्रसंस्थायाः कार्यक्रमे न्यू-यार्क्-नगरे श्रीमत्या MS सुब्बुलक्ष्म्या गीतम् आसीत् । तत्र सर्वेषां मुक्तकण्ठश्लाघनाय पात्रम् अवहत् ।

अस्मिन् कार्यक्रमे गायनं कर्तुम् आहूता प्रसिद्धा भारतीया गायिका श्रीमती सुब्बुलक्ष्मी किं गीतव्यम् इति काञ्चीमठस्य चन्द्रशेखरेन्द्रसरस्वतिनं पृष्टवती आसीत् । संयुक्तराष्ट्रसंस्थायाः लक्ष्यं सर्वराष्ट्राणां सामरस्यमेव भवतु इति आशया इदं गीतं रचयित्वा आशीर्वदितम् आसीत् ।

रागसीचना[सम्पादयतु]

रागः = यमन्-कल्याणी, कापी इत्येताभ्यां रागाभ्यां, रागमालिकया च गीयते ।

तालः = आदितालः

गीतसाहित्यम्[सम्पादयतु]

मैत्रीं भजत अखिलहृज्जेत्रीम् आत्मवदेव परानपि पश्यत । युद्धं त्यजत स्पर्धां त्यजत त्यजत परेषु अक्रममाक्रमणम् ॥ जननी पृथिवी कामदुघास्ते जनको देवः सकलदयालुः। दाम्यतदत्तदयध्वं जनताः श्रेयो भूयात् सकलजनानाम् ॥

सन्दर्भोल्लेखाः[सम्पादयतु]

Sources
  1. गूगल्गणे अस्य गीतस्य विषये - https://groups.google.com/forum/#!topic/samskrita/hcNf0h3YLDc
  2. कर्णाटकसङ्गीतसङ्कलने इदं गीतम् - http://www.karnatik.com/c1438.shtml
  3. वार्तामाध्यमेषु तत्कालीनवार्ता - http://www.thehindu.com/fr/2005/09/16/stories/2005091600270300.htm

बाह्यसम्पर्काः[सम्पादयतु]

  1. ऐतिह्यस्य मूलस्रोतः - http://rlalitha.wordpress.com/2009/06/27/maitreem-bhajata-a-benediction/
  2. MS सुब्बुलक्ष्म्या गीतं श्रूयताम् - https://www.youtube.com/watch?v=Wg6S1DoQA6A
"https://sa.wikipedia.org/w/index.php?title=मैत्रीं_भजत&oldid=426418" इत्यस्माद् प्रतिप्राप्तम्