यत्रोपरमते चित्तं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
यत्रोपरमते चित्तं निरुद्धं योगसेवया ।
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ २० ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य विंशतितमः(२०) श्लोकः।

पदच्छेदः[सम्पादयतु]

यत्र उपरमते चित्तं निरुद्धं योगसेवया यत्र च एव आत्मना आत्मानं पश्यन् आत्मनि तुष्यति ॥

अन्वयः[सम्पादयतु]

यत्र योगसेवया निरुद्धं चित्तम् उपरमते, यत्र च एव आत्मना आत्मानं पश्यन् आत्मनि तुष्यति ।

शब्दार्थः[सम्पादयतु]

यत्र = यस्मिन् अवस्थाविशेषे
योगसेवया = योगाभ्यासेन
निरुद्धम् = विषयेभ्यः विमुखीकृतम्
चित्तम् = मनः
उपरमते = विरमति
यत्र च एव = यस्मिन् च अवस्थाविशेषे
आत्मना = मनसा
आत्मानम् = आत्मानम्
पश्यन् = अवलोकयन्
आत्मनि = स्वस्मिन्
तुष्यति = सन्तुष्यति....... ।

अर्थः[सम्पादयतु]

यस्मिन् अवस्थाविशेषे योगाभ्यासेन निरुद्धं चेतः उपरतिं प्राप्नोति, यस्मिन् च अवस्थाविशेषे आत्मना आत्मानं पश्यन्, आत्मनि एव सन्तुष्टः भवति । ( तं योगसंज्ञितं विद्यात् ।)

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=यत्रोपरमते_चित्तं...&oldid=482156" इत्यस्माद् प्रतिप्राप्तम्