यथा प्रदीप्तं ज्वलनं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः ।
तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः ॥ २९ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य नवविंशतितमः(२९) श्लोकः ।

पदच्छेदः[सम्पादयतु]

यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः तथा एव नाशाय विशन्ति लोकाः तव अपि वक्त्राणि समृद्धवेगाः ॥ २९ ॥

अन्वयः[सम्पादयतु]

यथा समृद्धवेगाः पतङ्गाः प्रदीप्तं ज्वलनं नाशाय विशन्ति तथा एव समृद्धवेगाः लोकाः तव वक्त्राणि अपि नाशाय विशन्ति ।

शब्दार्थः[सम्पादयतु]

यथा = येन प्रकारेण
समृद्धवेगाः = तीव्ररयाः
पतङ्गा = शलभाः
प्रदीप्तम् = ज्वलितम्
ज्वलनम् = अग्निम्
नाशाय = विनाशाय
विशन्ति = प्रविशन्ति
तथा एव = तेन प्रकारेण एव
समृद्धवेगाः = तीव्ररयाः
लोकाः = प्राणिनः
तव वक्त्राणि अपि = तव मुखानि अपि
नाशाय =विनाशाय
विशन्ति = प्रविशन्ति ।

अर्थः[सम्पादयतु]

यथा तीव्रगतयः पताः ज्वलितम् अग्निम् आत्मविनाशाय प्रविशन्ति तथा एव तीव्रगमनाः प्राणिनः तव मुखानि स्वविनाशाय एव प्रविशन्ति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]