यशोरेश्वरी (ईश्वरीपुरम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


जेस्सोरेश्वरी/यशोरेश्वरी (ईश्वरीपुरम्) एतत् शक्तिपीठं बाङ्ग्लादेशस्य सातखीरमण्डलस्य ईश्वरीपुरम् इत्यत्र अस्ति । बाङ्ग्लादेशस्थं पञ्चमं शक्तिपीठम् एतत् ।

सम्पर्कः[सम्पादयतु]

एतत् स्थानं सातखीरमण्डलस्य श्यामनगरसमीपे अस्ति । किन्तु अत्र प्राप्तुं न्यू दौलतपुरतः प्रस्थितं चेत् वरम् ।

वैशिष्ट्यम्[सम्पादयतु]

ऐतिह्यानुसारम् अत्र सतीदेव्याः हस्तपादाः पतिताः इति विश्वासः । अत्रत्या देवी जेस्सोरेश्वरी/यशोरेश्वरी इति पूज्यते । अत्रत्यशिवः चण्डनाम्ना पूज्यते । पूर्वं राज्ञः प्रतापादित्यस्य राजधानी आसीत् ईश्वरीपुरम् । प्राचीनं पुरातनं देवालयं पातयित्वा तस्मिन् स्थाने अट्टद्वययुक्तं मन्दिरं प्रतापादित्यः निर्मितवान् । राज्ञः कोटः(दुर्गम्) अत्र आसीत् इत्यतः अत्रत्या देवी कोटेश्वरीनाम्ना अपि पूज्यते ।