योगदर्शनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
योगशास्त्रस्य प्रणेता पतञ्जलिः

योगदर्शनं (Yoga Darsana) दर्शनेषु अन्यतमम् । अस्य योगशास्त्रस्य रचयिता महर्षिः पतञ्जलिः । अयं पतञ्जलिः जीवः ईश्वरश्चेति तत्वद्वयं स्वीकरोति । अतः एव अस्य दर्शनस्य "सेश्वरसांख्यदर्शनम्" इति नामान्तरम् । अस्यैव शास्त्रस्यापरं नाम "सांख्यप्रवचनम्" इति । एतद्दर्शनं पतञ्जलिना प्रणीतत्वात् "पातञ्जलदर्शनम्" इत्यपि व्यवहारयोग्यं भवति । यद्यपि पतञ्जलेः पूर्वाचार्याः हिरण्यगर्भयाज्ञवल्क्यादयः अनेके आचार्याः योगशास्त्रस्य प्रवक्तारः आसन्, अथापि जनसाधारणानां कृते पतञ्चलिरेव तं योगशास्त्रं सूत्ररूपेण ग्रन्थीकृत्य सम्यक् सरलरीत्या व्याजहार इति हेतोः अस्य योगदर्शनस्य "पातञ्जलदर्शनम्" इति नाम सयुक्तिकं तिष्ठति ।

योगसूत्राषां भाष्यं महर्षिव्यासेन कृतमासीत्, तदेव प्रमाणतमो वर्ततेऽद्य।

हिन्दुधर्मःOm symbol.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

योगशास्त्रपरिचयः[सम्पादयतु]

अस्मिन् योगशास्त्रे चत्वारः पादाः सन्ति । तेषां नामानि क्रमाद् भविष्यन्ति -समाधिपादः, साधनपादः विभूतिपादः, कैवल्यपादश्चेति । प्रथमे पादे भगवान् पतञ्जलिः -‘अथ योगानुशासनम्’,[१] इति शास्त्रारम्भस्य प्रतिज्ञां करोति । अनन्तरं योगस्य परिभाषा अस्ति -"योगश्चित्तवृत्तिनिरोधः" [२] इति । चित्तवृत्तयः-प्रमाणविपर्ययविकल्पादयः । एतेषां निर्वर्तनं योगशब्दार्थः । समाधिशब्दस्यार्थः -सम्यक् आधानम् इति, अर्थात् चित्तस्य स्वात्मस्वरूपे अवस्थापनमिति । योगवासिष्ठे समाधिलक्षणमेवमभिहितम्-
'इमं गुणसमाहारमनात्मत्वेन पश्यतः
'
अन्तः शितलता यस्य समाधिरिति कथ्यते इति ।

द्वितीये साधनपादे -" तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः" (यो० सू०-१) इत्यादि सूत्रद्वारा चञ्चलचित्तपुरुषाणां तपः स्वाध्यायादि क्रियायोगः एवं यमनियमादिबहिरङ्गसाधनभूतानां तत्त्वानामुल्लेखः वर्णितः । अत्र तपः इति शब्देन चान्द्रायणादिक्लेशकारकस्य तपसः अर्थावबोधो न भवति, यतः चान्द्रयणादयः शरीरे क्लेशजनकत्वात् तेन चित्तस्य ऐकाग्य्रं न तिष्ठति । अत्र तपः शब्दार्थः इत्थंभूतः भवति-हितकारकं स्वल्पं सात्विकभोजनं तथा शीतोष्णसुखदुःखादीनां सहनं एवमिन्द्रियाणां निरोधात्मकं यद्भवति तत्तपः इत्युच्यते । योगशास्त्रे तपः प्रसन्नकरणात्मकं वर्तते न तु पीडात्मकम् । स्वाध्यायस्यार्थः-मोक्षशास्त्राध्ययनं या नियमपूर्वकं प्रणवादिजपानुष्ठानमिति । ईश्वर-प्रणिधानं नाम परमात्मनः अनुचिन्तनम् अथवा परमात्मनि सर्वकर्मणां समर्पणम् इति भवति । सर्वेषु क्रियायोगेषु ईश्वरप्रणिधानं नाम क्रियायोगः उत्तमः इति स्वीक्रियते । "यद्यत् कर्म करोमि तत्तदखिलं शम्भो तवाराधनम्" इति ईश्वरप्रणिधानयुक्तः पुरुषः सर्वकर्माणि ईश्वारार्पितसेवाबुध्या करोति इत्यादयः विषयाः प्रतिपादिताः । तृतीये विभूतिपादे -जन्मान्तरज्ञानं, भूतभविष्यदर्थकं ज्ञानं, अन्तर्हितम् इत्यादि अनेकप्रकाराः सिद्धयः उपन्यस्ताः । चतुर्थे कैवल्यपादे -"जन्मौषधिमन्त्रतपः समाधिजाः सिद्धयः" [३] इति सूत्रेण पञ्चानां सिद्धीनां वर्णनं करोति । देवतानां सिद्धिः जन्मना एव जायते । एवं पक्षिणामाकाशे उड्डयनं पशूनां जलतरणमित्यादि जन्मतः एव प्रसिद्धः । ओषधेभ्यः सिद्धिः प्राप्यते । आयुर्वेद, रसेश्वरदर्शनादिषु सिद्धिरियं वर्णिता । मन्त्रेण एवं तपोबलेन सिद्धीनां प्राप्तिवर्णनं तन्त्रादिशास्त्रेषु मिलिष्यति । समाधेः सिद्धिः शास्त्रस्यास्य गौणविषयभूता भविष्यति । यमनियमादि अष्टाङ्गोपासनेन यदा योगवृक्षः फलति तदा पूर्णभावनया समाधिरुपफलपरिपकानन्तरं प्रकृति-पुरुषयोः भेदात्मकः साक्षात्कारः सिध्यति । तदानीं असंगः पुरुषः स्वस्वरूपावस्थानेन तिष्ठतीति कृत्वा आत्यन्तिकदुःखविनाशरूपः मोक्षः सिध्यति । अस्मिन् योगशास्त्रे षड्विंशतितत्त्वानि भवन्ति । यथा सांख्याभ्युपगतानि पञ्चविंशतितत्त्वानि, एतेषामतिरिक्तत्वेन एकः ईश्वरः अस्तीति ईश्वरतत्त्वमपि पतञ्जलिरयं स्वीकरोति इत्यतः अस्य नाम सेश्वरवादी सांख्यः इति । ईश्वरस्य लक्षणमेव प्रतिपादयति पतञ्जलिः क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः (यो० सू० १-२४) इति ।

वैदिकी जीवनपद्धतिः धर्मार्थकाममोक्षरूपिणि पुरुषार्थचतुष्टये आश्रिता वर्तते । अन्तिमः पुरुषार्थः एव जीवनस्य अन्तिमम् उद्देश्यम् अस्ति । तदर्थमेव दर्शनशास्त्राणां प्रवृत्तिर्जायते यद्यपि सर्वाणि दर्शनानि स्व-स्वसिद्धान्तानुसारं मोक्षस्य निरूपणमकुर्वन् तथापि योगदर्शनं मोक्षस्य कृते साक्षात्कृतयत्नो विधीयते । मोक्षस्य कृते एव योगस्य उदयः सञ्जातः । इदं तात्पर्यं ‘योग’ पदस्य व्युत्पत्त्याऽपि स्पष्टमस्ति । “युज् समाधौ” धातोः योगशब्दस्य निष्पत्तिः संजाता । आत्मनः परमात्मनि विलय एव योग उच्यते । यदा त्रिविधदुःखानाम् एकान्तिकी आत्यन्तिकी च निवृत्तिर्भवति, तदा आत्मा स्वरूपे विलीनो भवति । तत्पश्चात् जननमरणादयः पुनर्न जायन्ते ।

अस्य आत्मसाक्षात्कारस्य शास्त्रीयं मार्गदर्शकं योगशास्त्रमस्ति । समाधेरवस्थायाः अपरः पर्यायो योगः एवास्ति । चित्तवृत्तिः बाह्मजगतः अपवार्य आन्तरतत्त्वे स्थिरयेत् इत्याकारकोऽयं योगमार्गोऽत्र प्रतिपादितः । योगदर्शनं वैदिकदर्शनमस्ति यतो हि वेदेषु उपनिषत्सु च योगस्य सोपायं वर्णनं प्राप्यते । प्राचां ऋषीणां त्रैकालिकज्ञानस्य मूलमिदं योगदर्शनमस्ति, अतोऽस्य प्राचीनता असन्दिग्धा प्रतीयते । यदा वेदानाम् अपौरुषेयत्वं परीक्ष्यते तदा योगः एव तेषां अपौरुषेयत्वस्य साधक इति सिद्ध्यति । यतो हि ऋषयोऽपि योगेन एव मन्त्राणां साक्षाद्दर्शनं कृतवन्तः । ते मन्त्रप्रणेतारो नासन् ।

अस्य अलौकिकवेदज्ञानजन्ययोगदर्शनस्य क्रियान्वयनं समाधिं विना नैव सम्भवति, अतः योगोवेदादपि प्राचीनं प्रतीयते । यद्यपि योगोऽपि एकं विशिष्टं ज्ञानमस्ति तथा च वेदाः अपि ज्ञानरुपाः सन्ति । ज्ञानस्य कदापि विनाशो नैव जायते । वेदाः अनादिज्ञानरूपाः वर्तन्ते । तेषामालोके योगमार्गस्य दर्शनम् अभवत् येन पश्चात् अदृष्टज्ञानम् अन्तर्निहितं ज्ञानं वा पुनः प्रकाशितम् । वैदिकदर्शनेषु योगस्य महत्त्वपूर्णं स्थानमस्ति । अवैदिकैः जैनबौद्धादिदर्शनैरपि अस्य महत्त्वं स्वीकृतं, स्वसम्प्रदायेषु च सादरं योगस्य प्रतिष्ठापना विहिता । उदाहरणार्थं जैनदर्शनस्याचार्येण ’उमास्वामिना हेमचन्द्रेण’ च योगप्रक्रियाया विषयो विस्तरेण प्रतिपादितः । हठयोगानुगामिनि नाथसम्प्रदायेऽद्यापि योगस्य व्यावहारिकः अभ्यासो विधीयते ।

योगदर्शनस्य विकासः[सम्पादयतु]

योगदर्शनस्य प्रणेता महर्षिः पतञ्जलिः आसीत् । तद्र्चना योगसूत्रनाम्ना प्राप्यते । “ अथ योगानुशासनम्” इति सूत्रेण योगसूत्रस्य प्रारम्भो भवति । अनुशासन शब्दस्यार्थोऽस्ति-उद्दिष्टसिद्धान्तानां प्रतिपादनम् । अत एव इदमनुमानं स्वाभाविकं जायते यत् योगस्य सिद्धान्ताः पूर्वम् उपदिष्टाः । याज्ञवल्क्यस्मृतिग्रन्थे उल्लेखोऽस्ति यत् महायोगी हिरण्यगर्भ एव सर्वप्रथमं योगस्य उपदेशं प्रददौ । महर्षिणा पतञ्जलिना तस्योपदेशस्यैव सुव्यवस्थितं निरूपणं कृतम् ।

महाभाष्यस्य प्रणेता वैय्याकरणः पतञ्जलिरेव योगसूत्रस्य कर्त्ता आसीत् इति तथ्यम् अनेकैः प्रमाणैः सिदध्यति । यद्यपि सांख्ययोगौ एकीभूतौ मन्येते तथापि योगशास्त्रे सांख्य प्रतिकूलस्य स्फोटवादसिद्धान्तस्य समर्थनं विहितम् | स्फोटवादः व्याकरणशास्त्रे सुचर्चितोऽस्ति | अतः योगसूत्रकर्त्ता पतञ्जलिः स्फोटवादस्य प्रणेता महाभाष्यकार एकैवावर्तत । पतञ्जलेः स्थितिकालः ईस्वीपूर्वं द्वितीयशताब्दी स्वीक्रियते । यद्यपि कैश्चिद् विद्वद्भिः योगसूत्रस्य चतुर्थपादे विज्ञानवादस्य खण्डनमस्ति अतः योगसूत्राणां रचनाकालः बौद्ध-आचार्यात् मैत्रेयात् परवर्ती स्वीकृतः, किन्तु तन्मतं युक्तियुक्तं नास्ति | यतोहि बौद्धविज्ञानवादस्य अवधारणायाः पूर्वमपि विज्ञानवादस्य उल्लेखः प्राप्यते यथा छान्दोग्योपनिषदि ।

योगसूत्रस्य चत्वारः पादाः सन्ति –(१) समाधिपादः (२) साधनपादः (३) विभूतिपादः (४) कैवल्यपादश्च । प्रथमे समाधिपादे चित्तवृत्तीनां समाधिभेदानां च वर्णनं विद्यते । द्वितीये साधनपादे क्रियायोग- क्लेशनाशोपायानां योगाङ्गानां च प्रतिपादनमस्ति । तृतीये विभूतिपादे धारणा –ध्यान –समाधिरूपाणां अवशिष्टानां विशिष्टयोगाङ्गानां प्रतिपादनेन सह योगाभ्यासजन्य –अदृश्यशक्तीनाम् अर्थात् विभूतीनामपि वर्णनं प्राप्यते । चतुर्थे कैवल्यपादे समाधिसिद्धि-निर्वाणचित्त-विज्ञानवादखण्डन –कैवल्यादयो विषयाः विस्तरेण निरूपिताः सन्ति ।

  1. समाधिपादः
  2. साधनापादः
  3. विभूतिपादः
  4. कैवल्यपादः

पतञ्जलिविरचितस्य योगसूत्रस्य एको भाष्यग्रन्थः प्रसिद्धोऽस्ति । तस्य नामास्ति व्यासभाष्यम् इति । योगसूत्राणां रहस्यं स्फुटीकर्त्तुम् अस्य भाष्यग्रन्थस्य अपयोगिता प्रामाण्यं च स्वीक्रियते । यद्यपि व्यासभाष्ये क्लिष्टताया आधिक्यमस्ति तथापि दुर्वहं नास्ति, यतो हि अस्य भाष्यस्यापि अनेके टीकाग्रन्थाः प्राप्यन्ते । वाचस्पतिमिश्रस्य तत्त्ववैशारदी “ विज्ञानभिक्षोः” “योगवार्तिकम् “ च श्रेष्ठौ टीकाग्रन्थौ स्तः । एतदतिरिक्तं हरिहरानन्द आरण्यक विरचिता एका अन्या टीका “ भास्वती” नाम्नाऽपि प्राप्यते । तत्त्ववैशारदी” विषयीकृत्य कालान्तरे राघवानन्देन “पातञ्जलयोगरहस्यम्” इति नाम्ना टीकाग्रन्थो रचितः ।

योगसूत्रमधिकृत्यापि अनेकाः टीकाः प्राप्यन्ते । यथा –भोजविरचिता भोजवृत्तिः, भावगणेशविरचिता वृत्तिः, रामानन्दयतिविरचिता मणिप्रभा, अनन्तपण्डितरचिता योगचन्द्रिका, सदाशिवेन्द्रसरस्वतीकृत “योगसुधाकराख्ये”, नागोजिभट्ट विरचिता ब्राह्मवृत्तिः, बृहतीवृत्तिश्च, ओमानन्दतीर्थप्रणीतः योगप्रदीपश्चेति ।

उपर्युक्ताः सर्वाः टीका अनुभविभिः योगसाधकैः रचिताः सन्ति । योगसूत्राणां परिज्ञानाय आसां सर्वासां टीकानामुपयोगिता प्रतीयते । स्वामिना ओमानन्दतीर्थेन लिखिते योगप्रदीपग्रन्थे विस्तृतभूमिकायां योगस्य स्वरूपम् उपस्थाप्य ग्रन्थस्य उपादेयता संवर्धिता । इयं टीका गीताप्रेस्, गोरखपुरतः प्रकाशिताऽस्ति ।

योगस्वरूपम्[सम्पादयतु]

“योगश्चिवृत्तेर्निरोधः “ इति योगस्य परीभाषा योगसूत्रकारेण उदाहृता । चित्तञ्च क्षिप्त –मूढ –विक्षिप्त –एकाग्र –निरुद्धाख्यासु पञ्चभूमिषु विद्यमानं भवति । क्षिप्तभूमिः रजोगुणबहुला वर्तते । एषाऽवस्था दैत्य-दानव –उन्मत्तजनानां च भवति । मूढभूमिः तमोगुणबहुला भवति । इयं राक्षस-पिशाच-मदोन्मत्तानां जायते । विक्षिप्तभूमिः सत्त्वप्रधाना किन्तु रजोयुक्ता अपि भवति । इयं प्रथमभूस्थितानां योगिनां देवानां च चित्तभूमिरस्ति । इयं निरुद्धसत्त्वप्रधाना मन्यते । चित्तस्य सर्वासु वृत्तीषु उपरुद्धासु तत्तद्वृत्तीनां संस्कारमात्रेण युक्तं चित्तं निरुद्धं भवति । एषैव अन्तिमा भूमिरस्ति । चित्तवृत्तयोऽपि पञ्चविधाः प्रतिपादिताः –(१) प्रमाणवृत्तिः (२) विपर्ययवृत्तिः (३) विकल्पवृत्तिः (४) निद्रावृत्तिः (५) स्मृतिवृत्तिश्चेति । इमा रागद्वेषादिक्लेशानां कारणरूपाः सन्ति, तेषां विनाशिन्योऽपि भवन्ति, अतः आसां वृत्तीनां वर्गीकरणं द्विधा प्रतिपादितम् –क्लिष्टा अक्लिष्टाश्चेति ।

प्रमाणानि[सम्पादयतु]

योगदर्शने सांख्यसम्मतानां त्रयाणां प्रमाणानामेव स्वीकृतिरस्ति । अत्रापि इतरप्रमाणानाम् अन्तर्भावः एषु प्रत्यक्षानुमानशब्दाख्येषु त्रिष्वेव प्रमाणेषु जायते ।

  • विपर्ययः –वस्तुनो विपरीतम् अथवा मिथ्याज्ञानं विपर्ययोऽस्ति ।
  • विकल्पः –शब्दज्ञानेनोत्पन्नः किन्तु वस्तुशून्यो विकल्पः कथ्यते । यथा चैतन्यमेव पुरुषस्य स्वरूपमस्ति ।
  • निद्रा - वस्तुनोऽभावस्य ज्ञापयित्री वृत्तिः निद्रा इत्युच्यते ।
  • स्मृतिः - अनुभूतविषयाणां तस्मिन्नेव रूपे स्मरणं स्मृतिरिति कथ्यते ।

आसां वृत्तीनां विरोधादेव आत्मस्वरूपस्य दर्शनं भवति । अर्थात् सांसारिकदुःखानाम् आत्यन्तिकं निवृत्तिश्च जायते । आसां वृत्तीनां निरोधो अभ्यासेन वैराग्येण च भवति । वैराग्येण विवेकस्य उदयो भवति । अभ्यासेन च चित्तं सत्त्वे प्रतिष्ठते ।

अङ्गानि[सम्पादयतु]

चित्तवृत्तीः स्थिरयितुं योगाभ्यास आवश्यको भवति । तत्कृते योगाङ्गानां अभ्यासो विधीयते ।

योगस्य अष्टौ अङ्गानि अभिमतानि-

  1. यमः
  2. नियमः
  3. आसनम्
  4. प्राणायामः
  5. प्रत्याहारः
  6. धारणा
  7. ध्यानम्
  8. समाधिः

मुख्याः विषयाः[सम्पादयतु]

समाधिः[सम्पादयतु]

चित्तवृत्तेर्निरोध एव समाधिरुच्यते । समाधिर्द्विधा वर्तते –सम्प्रज्ञातसमाधिः, असम्प्रज्ञातसमाधिश्चेति ।

सम्प्रज्ञातसमाधिः[सम्पादयतु]

कस्मिंश्चिद् एकस्मिन् वस्तुनि चित्तस्य स्थैर्यं जाग्रतावस्था च इतरवृत्तीनां क्षये सति सम्प्रज्ञातः सबीजो वा समाधिर्भवति । अस्य समाधेश्चत्वारो भेदाः सन्ति –(१) वितर्कानुगतः (२) विचारानुगतः (३) आनन्दानुगतः (४) अस्मितानुगतश्च । एषु चित्तं स्थूलेभ्यः सूक्ष्मेषु आलम्बनेषु तिष्ठति ।

असम्प्रज्ञातसमाधिः[सम्पादयतु]

वृत्तीनां परमेण वैराग्येण निरोधे सति ज्ञातृ-ज्ञान-ज्ञेयानां भेदोपशमे सति चालम्बनस्य संस्कारमात्रे अवशिष्टे असम्प्रज्ञातः समाधिर्भवति । इयं निर्बीजसमाधिरपि उच्यते । अस्याम् अवस्थायां क्लेशाः नैव तिष्ठन्ति, न च कर्माशयाः ।

असम्प्रज्ञातसमाधेरपि भेदद्वयम् अस्ति-भवप्रत्ययः उपायप्रत्ययश्च । अविधावशात् निरोधस्समाधिः ‘भवप्रत्यय’ नाम्ना विज्ञायते ।अत एव रक्त-मांस-मेद –अस्थि-मज्जा शुक्रादिषाट्कौषिकस्य शरीरस्य पतनोपरान्तम् इन्द्रियेषु अथवा भूतेषु लीनाः संस्कारमात्रेण सहिताश्च जीवा ‘विदेह’ संज्ञका भवन्ति । श्रद्धा –वीर्य- स्मृति – समाधि-प्रज्ञाभ्य उत्पन्नः उपायप्रत्ययः योगिभिः प्राप्यते । इयमेकान्तिकी दुःखनिवृत्तिर्नास्ति । अत्र अविद्यायाः विनाशेन क्लेशाः अपि विनश्यन्ति । अतः चित्तं ज्ञाने प्रतिष्ठते ।

चित्तस्य निरोधं प्रति गत्यवरोधकाः चित्तविक्षेपाः भवन्ति । यथा-रोगः, अकर्मण्यता, भ्रान्तिदर्शनम्, निरुद्धाप्राप्ति, समाधौ चेतसः अस्थैर्यम् इत्यादि । चित्तविक्षेपग्रस्ताः जनाः दुःखं दौर्मनस्यं कम्पनं श्वासप्रश्वासादिनां चानुभवन्ति । अतः एषामवरोधाय चित्तस्य तत्त्वे स्थापयितुं अभ्यास कार्यः । सर्वेषु प्राणिषु- मैत्रीभावः, करुणाभावश्च, पुण्यात्मनः प्रति प्रसन्नता, पापकारिणामुपेक्षा च करणीयाः ।

असमाहितचित्ताः अपि जनाः तपः-स्वाध्याय, ईश्वरप्रणिधानादिभिः योगे प्रवर्तन्ते। फलस्वरूपं समाधिभावस्य उदयः क्लेशानां विनाशश्च जायेते । क्लेशाः प्रायेण अविद्यायाः आच्छादिताः भवन्ति । तद् मिथ्याज्ञानं भ्रान्तिरपि कथ्यते । क्लेशः पञ्चधा प्रतिपादितः –अविद्या, अस्मिता, रागः, द्वेषः, अभिनिवेशश्च । अनात्मपदार्थः आत्माऽस्तीति अविद्या वर्तते । द्रष्ट्रादृश्ययोरभिन्नताऽस्तीति अस्मिता वर्तते । सुखस्य उत्कटेच्छा रागो भवति । दुःखहेतुभ्यः ईर्ष्याभावो द्वेषः । मृत्योर्भयश्चाभिनिवेशो भवति ।

परिणामविचारः[सम्पादयतु]

परिणामः त्रिविधः । धर्मपरिणामः, लक्षणपरिणामः, अवस्थापरिणामश्चेति ।

  • धर्मपरिणामः -धर्मे पूर्वधर्मतिरोभावेन धर्मान्तरप्रादुर्भावः धर्मपरिणामः ।
  • लक्षणपरिणामः - विद्यमानधर्मेषु लक्षणमेकं त्यक्त्वा लक्षणान्तरस्वीकरणेन यः परिणामः सः लक्षणपरिणामः ।
  • अवस्थापरिमाणः - वर्तमानं यल्लक्षणं तस्य अवस्थान्तरं त्यक्त्वा अन्यावस्थायां परिणामत्वेन वर्तमानत्वम् ।

अविद्याविचारः[सम्पादयतु]

विद्यायाः अभावः अविद्या इति व्युत्पत्त्या निर्मक्षिकम् इत्यत्र अव्ययीभावसमासेन मक्षिकानामभावः यथा प्रतीयते तथा पूर्वपदप्रधानग्रहणेन अविद्या पदशब्दार्थः विद्याभावः इति सिध्यति । अथवा न विद्या अविद्या इति विग्रहे नञ् तत्पुरुषसमासः प्रयुज्यते तर्हि विद्याविरोधित्वेन अन्यः अर्थः उच्यते । यथा, अब्राह्मणः अराजपुरुषः इत्यादिषु ।

पुरुषस्य कैवल्यम्[सम्पादयतु]

एकतायाः नाम कैवल्यमिति । प्रकृतेः कार्यभूतमहत्तत्वादीनां विलयेन, एवं पुरुषेण सह प्रकृतेः आत्यन्तिकवियोगेन एव प्रकृतेः एकाकित्वं सिद्धम् । पुरुषस्य कैवल्यमेतद् भवति यत् आत्मा स्वात्मनि वर्तमानानि समस्तोपाधिकस्वरूपाणि त्यक्त्वा स्वमूलस्वरूपे स्थायित्वेन वर्तमानत्वमिति ।

योगस्य तत्त्वानि[सम्पादयतु]

योगदर्शने प्रतिपादितः ईश्वरः मुक्तजीवः कैवल्यमुपगतो योगी वा नास्ति अपितु तदपेक्षया भिन्नो विद्यते । मुक्तजीवः अथवा केवली पुरुषः पूर्वसांसारिकबन्धनेभ्यो मुक्तो भवति किन्तु ईश्वरस्तु सदैव मुक्तो भवति । प्रकृतौ लीनः पुरुषोऽपि ईश्वरो नास्ति । ईश्वरः सर्वदा इच्छा-ज्ञान-क्रियारूपाभिः शक्तिभिः सम्पन्नो भवति । एताः शक्तयोऽपि ईश्वरे स्वाभाविक्य एव सन्ति । अनादिकालादेव ईश्वरे एताः विद्यन्ते । ईश्वरश्चैतत्प्रभावात् एव ऐश्वर्यसम्पन्नोऽस्ति । जीवानुग्रह ईश्वरस्य प्रधानः गुणोऽस्ति ।

प्रणवः अर्थात् ओङ्कारः ईश्वरस्य वाचको वर्तते । तस्य ईश्वरस्य सम्प्राप्तिः स्वाध्यायेन योगसम्पत्त्या वा सम्भवति । ईश्वरप्रणिधानेनैव चित्तस्य विक्षेपाः नश्यन्ति । समाहितचेताः योगाभ्यासी ईश्वरचिन्तनेन निर्मलां बुद्धिं लभते । तेन तस्मिन् ऐश्वर्यस्य उदयो भवति । यद्यपि ऐवर्यस्य प्राप्तेरनन्तरं बहवो विध्ना उपतिष्ठन्ति किन्तु ईश्वरप्रणिधानेन तेषां नाशो भवति । एवं समाधिस्थो भूत्वा योगी ईश्वरं चिन्तयेत् तदैव तस्य कैवल्यलाभो भवति । ईश्वरत्वस्य स्वीकृतेरेव योगदर्शनं सेश्वरसांख्यमिति व्यवाह्रियते ।

ईश्वरः[सम्पादयतु]

योगदर्शनं ईश्वरं विश्वसिति । तत्र कारणानि –

  • वेदैः ईश्वरसत्त्वम् अङ्गीक्रियते । वेदाश्च शब्दप्रमाणम् । अतः सृष्टिकर्ता ईश्वरः अङ्गीकर्तव्यः ।
  • ईश्वरसत्त्वे अनुमानमपि प्रमाणम् । यदि सर्वस्यापि मूलम् अन्विष्यते तर्हि सर्वस्यापि ज्ञानस्य मूलम् ईश्वर इति बुद्ध्यते ।
  • प्रकृति-पुरुषयोः संयोगवियोगयोः कारणं किञ्चित्स्यादेव । सः हेतुरेव ईश्वरः ।

पतञ्जलि – ईश्वरः[सम्पादयतु]

ईश्वरः क्लेशकर्मविपाकसंस्कारैः रहितः । मुक्तपुरुषैर्भिन्नः । देशकालातीतः । सर्वज्ञः, सर्वशक्तः,सर्वव्यापी,परिपूर्णः,ज्ञानस्वरूपी,गुरुः,वेदानामुपदेशकश्च । “औम्” इतीदं तस्य सङ्केतः । ईश्वरः जगतः सृष्टिस्थितिलयानां न हेतुः । सः विशेषपुरुषः । आत्मानि न शिक्षति । सः मुक्तिं न प्रयच्छति । क्लेशान् अपनुद्य गुरुरिव मार्गं दर्शयेत् । मोक्षस्तु पुरुषेण स्वप्रयत्नेन साध्यः । देवः तत्साधने केवलं सहकरोति ।

प्रमुख्यग्रन्थाः[सम्पादयतु]

ग्रन्थः कर्ता
योगसूत्रम् पतञ्जलिः
व्यासभाष्यम् (योगसूत्रटीका) व्यासः
भास्वती (व्यासभाष्यस्य टीका) हरिहरानन्दः आरण्यकः
मणिप्रभाटीका (योगसूत्रटीका) रामानन्दयतिः
योगचन्द्रिका (योगसूत्रटीका) अनन्तपण्डितः
योगसूत्रवृत्तिः (योगसूत्रटीका) भावगणेशः
योगसुधाकरः (योगसूत्रटीका) सदाशिवचन्द्रसरस्वती
लघ्वीवृत्तिः (योगसूत्रटीका) नागोजीभट्टः
तत्त्ववैशारदी वाचस्पतिमिश्रः
योगसारः (तत्त्ववैशारद्याः टीका) विज्ञानभिक्षुः
योगवार्तिकम् विज्ञानभिक्षुः
पातञ्जलरहस्यम् राघवानन्दसरस्वती
भोजवृत्तिः/भोजमार्तण्डः भोजराजः

अध्ययनकेन्द्राणि[सम्पादयतु]

नाम राज्यम् सङ्केतः
राष्ट्रियसंस्कृतसंस्थानम्
http://www.sanskrit.nic.in
देहली (दशराज्येषु अस्ति) राष्ट्रिय संस्कृत संस्थान

मा. स. वि. मन्त्रालय के अन्तर्गत स्थापित 56-57 इन्स्टीट्यूशनल एरिया जनकपुरी नई दिल्ली - 110 058 ई-मेल: rsks@nda.vsnl.net.in

राष्ट्रियसंस्कृतविद्यापीठम्
http://www.rsvidyapeetha.ac.in
आन्ध्रप्रदेशः तिरुपतिः-५१७५०७. आन्ध्रप्रदेशः
श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठम्
http://www.slbsrsv.ac.in
देहली बि-४, कुतुब् इन्स्टिट्युशनल् येरिया, निव् देहली -११००१६


आधाराः[सम्पादयतु]

  1. यो० सू०, पतञ्जलिः, १-१
  2. यो० सू०, पतञ्जलिः, १-२
  3. यो० सू०,पतञ्जलिः, ४-१

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=योगदर्शनम्&oldid=460719" इत्यस्माद् प्रतिप्राप्तम्