रक्तदानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
रक्तदानम्

कश्चित् स्वेच्छया रक्तं ददाति चेत् सा क्रिया रक्तदानम् इति उच्यते। एवं सङ्ग्रहीतं रक्तं रोगिणे दीयते। अथवा विभागीकरणप्रक्रियया औषधनिर्माणार्थम् उपयुज्यते। अभिवृद्धिशीलेषु राष्ट्रेषु बहवः निश्शुल्कं सेवाभावनया रक्तं यच्छन्ति। दरिद्रराष्ट्रेषु धनार्थमपि रक्तस्य विक्रयणं कुर्वन्ति। रक्तदानेन दानिनः कापि हानिः नास्ति। सूचीप्रवेशने कदाचित् अल्पप्रमाणेन वेदनायाः अनुभवः भवेत्। रक्तदानानन्तरं केषाञ्चित् श्रान्तिः अपि स्यात्। परन्तु रक्तदानाय दानी अर्हः वा इति परीक्ष्य एव रक्तं स्वीक्रियते। रक्तदानेन नष्टा व्यक्तेः शक्तिः कतिपयदिनानन्ततं पुनरुज्जीविता भविष्यति।[१] प्रायेण एकस्मात् ४५० मिलिलीटर् परिमितं रक्तं स्वीक्रियते।

रक्तदानस्य भेदाः[सम्पादयतु]

रक्तसङ्ग्रहणस्य यानम्

रक्तं यः प्राप्नोति तस्य आधारेण रक्तदानं बहुधा विभक्तम्।[२] कदाचित् रक्तस्वीकर्ता स्वस्यैव रक्तं पूर्वं सङ्गृह्य शस्त्रचिकित्साकाले तत् स्वीकरोत। इदं स्वयंपूरणदानम्।[३] औषधार्थं विशिष्टेभ्यः दानिभ्यः रक्तं स्वीक्रियते। ते अलोजनिक् दानिनः इत्युच्यन्ते।[४] रक्तदानप्रक्रियायां प्रतिराष्ट्रं भिन्नम् उपक्रमम् अनुसरति।[५][६][७] रक्तदानशिबिरम् इति कतिचन संस्थाः शिबिराणाम् आयोजनं कुर्वन्ति। अत्र रोगी न भवति, परन्तु दानिभ्यः रक्तं सङ्गृह्य तस्य उपयोगः क्रियते।[८]द्वितीयविश्वयुद्धकाले रक्तसङ्ग्रहणस्य कार्यं महता प्रमाणेन आरब्धम्।[९]

रोगपरीक्षणम्[सम्पादयतु]

सामान्यतया स्वस्थः एव रक्तदानं कर्तुमर्हति। १८ वर्षेभ्यो न्यूनवयाः रक्तदानं कर्तुं नार्हति।[१०] रक्तदानिनः अन्येऽपि कतिचन नियमाः सन्ति। तस्य रक्ते हिमोग्लोबिन् प्रमाणं १३ तः अधिकं स्याद्। तस्य मलेरिया, प्लेग् इत्यादिज्वरपीडितः न स्यात्। तस्य शस्त्रचिकित्सा न भवेत्। ड्रग्स् सेवनं न कुर्यात्। दानायोद्युक्ता महिला गर्भवती न स्यात्।


रक्तपरीक्षणम्[सम्पादयतु]

दानिनां रक्तपरीक्षणं कृत्वैव रक्तं स्वीक्रियते। अत्र रक्तस्य सर्वेऽपि अंशाः परीक्ष्यन्ते। दानिनः रक्तस्य विभागोऽपि परीक्ष्यते। सामान्यतया ओ विभागीयः सर्वेभ्यः रक्तं दातुं समर्थः भवति।[११]

परन्तु विश्वसंस्थायाः २००६ तमवर्षस्य परिशीलनानुगुणं पञ्चाशदधिकराष्ट्रेषु दानिनः रक्तस्य परीक्षणे पर्याप्तमात्रेण तृप्तिः न वर्तते। रक्तपरीक्षणं व्ययसाध्यम् इत्येतद् सम्यक् अपरीक्षणे मुख्यं कारणं भवति।[१२]

रक्तदानप्रक्रिया[सम्पादयतु]

बहुधा दानी स्वकीयं रक्तमेव रोगिणे ददाति। क्वचित् रोगिणः कृते अपेक्षिता श्वेतरक्तकणाः, कृष्णरक्तकणाः प्लास्मा वा रोगिभ्यः पृथक्कृत्य दीयते। अवशिष्टाशः दानिने प्रत्यर्प्यते। शोधकान्युपयुज्य रक्तस्वीकरणं भवति। एषा प्रक्रिया अफेरेसिस् इत्युच्यते। [१३] कदाचित् दानिनां रक्तस्य सङ्ग्रहणम् अन्यत्र अकृत्वा साक्षात् रोगिणे एव दीयते। परन्तु अयं क्रमः आधुनिककाले प्रायेण न अनुस्रियते।[१४]

रक्तस्वीकरणम्[सम्पादयतु]

रक्तस्वीकरणम्

सामान्यतः हस्तस्य मध्यभागात्(कूर्परस्य विरुद्धभागात्) रक्तं स्वीक्रियते।[१५]ततः पूर्वं रक्तस्वीकरणस्थानं रासायनिकवस्तुभिः स्वच्छीक्रियते। [१६] दानिनः हस्ते मृदु वस्तु किमपि दीयते। सः दानी करतलेन तस्य मर्दनं करोति। तेन रक्तप्रवाहः सुललितः भवति।

रक्तसङ्ग्रहणम्

रक्तस्वीकरणप्रमाणम्[सम्पादयतु]

रक्तस्वीकरणप्रमाणं देशानुगुणं भिद्यते। प्रायेण २०० मिलिलीटर् तः ५५० मिलिलीटर् परिमितं रक्तं सङ्गृह्णन्ति। भारते प्रायेण ४५० मिलिलीटर् रक्तं सङ्गृह्यते। सङ्गृहीतं रक्तं सोडियं सिट्रेट्, फास्फेट्, ग्लूकोस्, डेक्स्ट्रोस्, आडनीन् युक्तेषु प्लास्टिक् स्यूतेषु संरक्ष्यते।[१७] कदाचित् इतराणि रासायनिकवस्तूनि च संयोज्यन्ते। इदं रक्तं ४२ दिनाभ्यन्तरे रोगिणे दीयते अथवा रक्तात् प्लास्मा उत्पाद्यते। [१८] सामान्यतया रक्तकेन्द्रेषु दानिभ्यः रक्तदानानन्तरं किमपि पानीयं दीयते। रक्तस्वीकरणस्थानं परितः रक्तं यथा बहिः न निस्सरेत् तथा प्रतिरोधः क्रियते।.[१९] रक्तदानानन्तरं 10-15 निमेषान् यावत् दानी दानस्थाने एव भवति। श्रान्तता अनुभूयते चेत् तस्य चिकित्सा अपि क्रियते।[२०]

बाह्यसम्पर्काः[सम्पादयतु]

  1. "FAQs About Donating Blood". American Red Cross Biomedical Services. आह्रियत 2009-10-26. 
  2. "Directed Donation". Mayo Clinic. आह्रियत 2008-06-25. 
  3. "Autologous (self-donated) Blood as an Alternative to Allogeneic (donor-donated) Blood Transfusion". AABB. Archived from the original on 2008-06-12. आह्रियत 2008-06-25. 
  4. "Recovered Plasma". AABB. Archived from the original on 2008-06-12. आह्रियत 2008-06-25. 
  5. "Giving Blood -> What to Expect". Australian Red Cross Blood Service. आह्रियत 2007-10-06. 
  6. "The Donation Experience". Canadian Blood Services. Archived from the original on 2007-02-03. आह्रियत 2006-12-17. 
  7. "Tips for a Good Donation Experience". American Red Cross. Archived from the original on 2006-12-14. आह्रियत 2006-12-17. 
  8. "Sponsoring a Blood Drive". American Red Cross. Archived from the original on 2008-05-26. आह्रियत 2008-06-25. 
  9. "ISBT Quarterly Newsletter, June 2006, "A History of Fresh Blood", page 15" (pdf). International Society of Blood Transfusion (ISBT/SITS). Archived from the original on 2006-08-13. आह्रियत 2008-07-31. 
  10. "Parental consent form" (pdf). Australian Red Cross Blood Service. Archived from the original on 2008-06-25. आह्रियत 2008-06-01. 
  11. "Plasma fact sheet". American Red Cross. Archived from the original on 2008-06-25. आह्रियत 2019-03-05. 
  12. "Advisory Committe on MSBTO, 28 June 2005". Archived from the original on 2008-05-28. आह्रियत 2008-06-01. 
  13. Sagi E, Eyal F, Armon Y, Arad I, Robinson M (Nov 1981). "Exchange transfusion in newborns via a peripheral artery and vein". Eur. J. Pediatr. 137 (3): 283–4. PMID 7318840. doi:10.1007/BF00443258. [नष्टसम्पर्कः]
  14. "Blood on the Hoof". Public Broadcasting Service. आह्रियत 2008-06-25. 
  15. Lee CK, Ho PL, Chan NK, Mak A, Hong J, Lin CK (Oct 2002). "Impact of donor arm skin disinfection on the bacterial contamination rate of platelet concentrates". Vox Sang. 83 (3): 204–8. PMID 12366760. doi:10.1046/j.1423-0410.2002.00219.x. 
  16. M. L. Turgeon (2004). Clinical Hematology: Theory and Procedures (fourth ed.). Lippincott Williams & Wilkins. p. 30. ISBN 0781750075. आह्रियत 2008-06-21. 
  17. Akerblom O, Kreuger A (1975). "Studies on citrate-phosphate-dextrose (CPD) blood supplemented with adenine". Vox Sang. 29 (2): 90–100. PMID 238338. doi:10.1111/j.1423-0410.1975.tb00484.x. 
  18. "Plasma Equipment and Packaging, and Transfusion Equipment". Office of Medical History (OTSG). आह्रियत 2008-06-19. 
  19. "Report on the promotion by Member States of voluntary unpaid blood donation". Commission of the European Communities. Archived from the original on 2008-08-03. आह्रियत 2008-06-26. 
  20. Eder AF, Hillyer CD, Dy BA, Notari EP, Benjamin RJ (May 2008). "Adverse reactions to allogeneic whole blood donation by 16- and 17-year-olds". JAMA 299 (19): 2279–86. PMID 18492969. doi:10.1001/jama.299.19.2279. 
"https://sa.wikipedia.org/w/index.php?title=रक्तदानम्&oldid=480852" इत्यस्माद् प्रतिप्राप्तम्