रतलाममण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(रतलाम मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)
रतलाममण्डलम्

Ratlam District
रतलाम जिला
रतलाममण्डलम्
रतलाममण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे रतलाममण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे रतलाममण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि रतलाम, पिपलोदा, आलोट, ताल, जावरा, सैलाना, बाजना
विस्तारः ४,८६१ च. कि. मी.
जनसङ्ख्या (२०११) १४,५५,०६९
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ६६.७८%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४८.५%
Website http://ratlam.nic.in/

रतलाममण्डलम् ( /ˈrətəlɑːməməndələm/) (हिन्दी: रतलाम जिला, आङ्ग्ल: Ratlam district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य उज्जैनविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति रतलाम इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

रतलाममण्डलस्य विस्तारः ४,८६१ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे उज्जैनमण्डलं, पश्चिमे राजस्थानराज्यम्, उत्तरे मन्दसौरमण्डलं, दक्षिणे धारमण्डलम् अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं रतलाममण्डलस्य जनसङ्ख्या १४,५५,०६९ अस्ति । अत्र ७,३८,२४१ पुरुषाः, ७,१६,८२८ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २९९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९९ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.७२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७१ अस्ति । अत्र साक्षरता ६६.७८% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- रतलाम, पिपलोदा, आलोट, ताल, जावरा, सैलाना, बाजना ।

कृषिः वाणिज्यं च[सम्पादयतु]

इदं मण्डलं मध्यप्रदेशराज्यस्य उद्यमकेन्द्रं मन्यते । अस्मिन् मण्डले बहवः यन्त्रागाराः सन्ति । अस्मिन् मण्डले बहूनां वस्तूनां व्यापारः भवति ।

वीक्षणीयस्थलानि[सम्पादयतु]

शिवमन्दिरम्[सम्पादयतु]

शिवमन्दिरं रतलाममण्डलस्य झार-ग्रामे स्थितमस्ति । मन्दिरेऽस्मिन् भगवतः शिवस्य सुन्दरं लिङ्गम् अस्ति । इदं मन्दिरं परमार-शासनकालीनम् अस्ति । अत्र एकः जलप्रपातः अस्ति । वर्षाकाले बहवः जनाः तत्र दर्शनार्थं गच्छन्ति ।

गुलाब चक्कर पुरातत्व-सङ्ग्रहालयः[सम्पादयतु]

गुलाब चक्कर पुरातत्व-सङ्ग्रहालयस्य निर्माणम् ई. १८७९ तमे वर्षे राज्ञा रणजीतसिंहेन (१८६१-१८९३) कारितम् । अस्य सङ्ग्रहालयस्य नाम राजपुत्र्याः नाम्ना कारितम् । अस्य स्थितिः अव्यवस्थया जर्जरी आसीत् । अस्य पुनः जीर्णोद्धारः कृतः । इदानीम् इदं स्थलं जनानाम् आकर्षणस्य केन्द्रमस्ति । सैलाना इत्यत्र ’केक्टस गार्डन’, जावरा इत्यत्र ’हुसैन टेकरी’, केदारेश्वर-मन्दिरम् इत्येतानि अपि अस्य मण्डलस्य वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://ratlam.nic.in/
http://www.census2011.co.in/census/district/301-ratlam.html

"https://sa.wikipedia.org/w/index.php?title=रतलाममण्डलम्&oldid=463987" इत्यस्माद् प्रतिप्राप्तम्