रमा चौधुरी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
रमा चौधुरी
जननम् विंशतिशताब्दी
वृत्तिः लेखकः
राष्ट्रीयता भारतीयः
प्रकारः नाट्यकारः
विषयाः पौराणिक-ऐतिहासिकनाटकानि
प्रमुखकृतयः शङ्करशङ्करम्, देशदीपम्, पल्लीकमलम्, कविकुलकोकिलम्

डा० रमा चौधुरी डा० यतीन्द्रविमलस्य पत्नी बहूनि संस्कृत-नाटकानि प्रणीतवती । रमा यतीन्द्रेण सार्धमेवाधीत्य अक्सफोर्ड विश्वविद्यालयस्य ‘डी० फिल्' इत्युपाधिमुपलेभे । सा त्रिंशद् वर्षाणि यावद् 'ब्रावोर्न कालेजे' प्राचार्यपदमलङ्करोति स्म । ततः सप्त वर्षाणि यावद् रवीन्द्रभारती-विश्वविद्यालये कुलपतिपदं निरवहत्।

डा० रमायाः पितामह आनन्दमोहनबोसो न केवलम् उच्चकोटिको मनीषी विधिपारङ्गतः ( Bar-at-Law ) आसीत् , अपि तु भारतीय-राष्ट्रियसभायाः (Indian National Congress) अध्यक्षोऽवर्तत। स साधारणब्रह्मसमाज-संस्थापकेष्वन्यतम आसीत् । तस्य शिक्षा-दीक्षा आङ्ग्लराष्ट्रे सम्पन्ना । स खलु गणित-विषयमधिकृत्य कैम्ब्रिजविश्वविद्यालयस्य ‘रैंगलर” इत्युपाधिमुपलब्धवान् । प्रसिद्धो वैज्ञानिकः ‘सर' जगदीशचन्द्रो बसुस्तस्याः पितुर्मातुल आसीत् । रमायाः मातुलः प्रयागविश्वविद्यालयस्याध्यक्षः प्राध्यापकः ए० सी० बनर्जी बभूव । कवयित्र्याः पिता सुधांशुमोहनो विधिपारङ्गतः बंगीय-जनसेवायोगस्याध्यक्षश्चासीत् । एवम्भूतेऽभिजातवंशे समुत्पन्नाया रमायाः छात्रजीवनं प्रतिभापूर्णभिरुपलब्धिभिर्मण्डितं विद्यते । कोलकाताविश्वविद्यालयस्य दर्शनपरीक्षासु प्रथमश्रेण्यामुत्तीर्णछात्रेषु सा प्रथमपदं लब्धवती।

प्रायेण विंशति-वर्षाणि यावत् रमा भारतस्य विविधस्थानेषु विदेशेषु च स्वस्य यतीन्द्रस्य च नाटकानामभिनयमुच्चस्तरं प्रयोजयते । नाटकानामभिनयद्वारा भारतीयसांस्कृतिकप्रवृत्तिः कल्याणोन्मुखीः इति प्रपत्तौ सा जीवनस्य सार्थकतां मनुते । सा अनेकसांस्कृतिकसंस्थानां शैक्षणिक-संस्थानानां च साध्यक्षादिपदान्यलङ्करोति स्म । १९७० ईसवीये जर्मन-प्रशासनेन उच्चकोटिकभारतीयनागरिकरूपेणा सा सम्मानिता । १९७१ ईसवीये रूसप्रशासकाः द्वाभ्यां कुलपतिभ्यां सममिमां सम्मानयामासुः । संस्कृतनाटकातिरिक्ताः कवयित्र्या अधोलिखिताः कृतयो वर्तन्ते आंगल भाषायाम्

(1) Doctrines of Nimbarka and his Followers (in 3 Vols. )

(2) Sufism and Vedanta.

(3) An Indo-Islamic Synthetic Philosophy.

(4) Doctrines of Shrikantha, (in 3 Vols. )

(5) Sanskrit and Prakrit Poetesses.

(6) Philosophical Essays.

(7) Ten schools of Vedanta.

बङ्गभाषायां रचनाः

(८) दशवेदान्त सम्प्रदाय ओ वंगदेश ।

(६) साहित्यकण ।

(१०) निम्बार्क दर्शन ।

(११) वेदान्तदर्शन ।

(१२) सुफीदर्शन ओ वेदान्त।

रमायाः नाट्यं प्रति प्रवृत्तिः पत्युः कार्यसरणिममरां निर्मातुं विद्यते इति मन्यते । तद्यथा - शङ्कर शङ्करस्य प्रस्तावनायाम् -

"यतो यतिश्रेष्ठ-यतीन्द्रविमल-पुण्यजीवनसाधनापि न म्लाना शुष्का च भविष्यति कदापि । सा स्फुटिता राजिष्यते निरन्तरं यतीन्द्रविमलजीवन-सर्वस्वाया यतीन्द्राविमलैकजीवनाया डाक्टर-रमाया रमणीयजीवने।"

डा० रमायाः सम्बन्धे निम्नलिखिता प्रशस्तिः प्राप्यते -

"The only lady dramatist, poet, ballet writer and drama-organiser etc. of India and outside of great fame and universal approbation, Pioneer of Modern Sanskrit Drama Movement in India."

शङ्कर-शङ्करम्[सम्पादयतु]

मुख्यलेखः : शङ्करशङ्करम्

शङ्करशङ्करस्य प्रथमः प्रयोगः प्राच्यवाण्याः १९६५ ईसवीयस्य द्वाविंशत्तमे प्रतिष्ठादिवसे विहितः । इदं तावद्रमाया द्वितीयं नाटकम् । कवयित्र्याः प्रथमं नाटकं यतीन्द्र-यतीन्द्रमस्ति । भारतीयदूतावासस्य समाश्रयेणास्याभिनयः संवृत्तः । अस्य प्रेक्षकेषु नेपालनरेशो महाराज महेन्द्रः सपरिवारो विराजते स्म । महाराजेनास्य सर्वेऽभिनेतारः पुरस्कृताः।

देशदीपम्[सम्पादयतु]

मुख्यलेखः : देशदीपम्

देशदीपे राष्ट्ररक्षायां दिवङ्गतानां वीराणां स्मरणं कृतम् । अस्याभिनयः डा० यतीन्द्रविमल-चौधुरी-जन्मोत्सवे सम्पन्नः।

पल्लीकमलम्[सम्पादयतु]

मुख्यलेखः : पल्लीकमलम्

पल्लीकमलं नवदृश्यात्मकं नाटकं विद्यते। अस्मिन् नायकस्य रूपकुमारस्य नायिकाया कमलकलिकायाश्च प्रेम्णः परिणतिः परिणये भवति।

कविकुलकोकिलम्[सम्पादयतु]

मुख्यलेखः : कविकुलकोकिलम्

कविकुलकोकिले नाटकेऽस्मिन् दश दृश्यानि विलसन्ति । १९६० ईसवीये उज्जयिन्यां कालिदाससमारोहे नाटकस्यास्याभिनयेन स्वर्णकलशस्य पुरस्कार उपलब्धः ।

मेघमेदुरमेदनीयम्[सम्पादयतु]

मेघमेदुरमेदनीय-नाटके मेघदूतस्य पूर्वोत्तरघटनानां सङ्घटनं विद्यते । इदमपि कालिदाससमारोहावसरे उज्जयिन्यामभिनीतम्।

कथावस्तु[सम्पादयतु]

हिमालये नूपुरनिक्वणायाः सरितः समीपे एकाकिनी कनककलिकानाम्नी यक्षकन्या नदीवन्दनानन्तरं सखीं ललितलतिकां मिलति । यक्षकन्या सरिदवगाहनस्य योजनां सख्याः पुरतः प्रास्तावयत्। ललितलतिकया निवेदितं - क्रूरा, कुटिला, कराला नदी न विश्वासयोग्या भवतीति । कनककलिका सखीमतमवहेल्य यावन्नद्यां स्नातुमवतरति तावदेव निमजन्ती त्राहि त्राहीत्युवाच । जलविहाराय समागतो यक्षोऽरुणकिरणस्तां निमज्जन्तीमुद्दधार ।

द्वितीये दृश्ये कमलकलिकारुणकिरणस्य ध्याने निमग्ना वर्तते। अरुणकिरणोऽपि तस्याः ध्याने उद्भ्रान्तो भवति। द्वावपि मिलने सति सौहार्दवार्तां कुरुतः । अस्मिन्नेवान्तराले कुबेरस्य निकटवर्ती प्रचण्डप्रतापो नाम यक्षः तत्रायाति । स कमलकलिकामात्मनः प्रेमपाशे निबध्य विलासार्थमिच्छति । अरुणकिरणस्य कृते तस्याभद्रता सहनीया नासीत् । कनककलिका तं धिक्करोति । तदारुणकिरणस्यापि तेन समं संघर्षों भवति । अन्ते न कनककलिकां परित्यक्ष्यामीति कथयित्वा प्रचण्डप्रतापो गतः।

तृतीयदृश्ये कनककलिकायाः अपहरणेऽसफलः प्रचण्डप्रतापः तस्याः पितुः समीपं गत्वा तां याचते । पित्रा कथितं विवाहविषये तु कन्याया मन एव परमं प्रमाणम् । अथ तदानीमेव यक्षदुहिता दयितेनारुणकिरणेन सहागता । प्रचण्डप्रतापाय घृणां प्रकटयामास । ततः स गतः । अरुणकिरणेन सह तस्याः परिणयो निश्चितः।

चतुर्थे दृश्ये प्रेमियुगलं पूर्णिमारात्रौ निकुञ्जे मिलति । तयोः प्रेमनिशायां व्यावहारिकं जगत् सत्ताविहीनमासीत् । अरुणकिरणेन तस्यां निशि कुबेरस्य मायामदिरनामकं तटाकं रक्षितव्यमासीत् । स खलु प्रणयव्यापारे कार्यमिदं कर्तुं न शशाक । प्रचण्डप्रतापः तत् कमलवनं स्वहस्तिभिः भ्रंशयामास । अग्रिमेऽह्नि कुबेरस्यार्धाङ्गिणी कामपूजायै कमलानां विशेषोपहाराय कमलानि न प्राप्नोत्। पञ्चमे दृश्ये राज्ञः कुबेरस्य समक्षं वादोऽयं गतः । प्रेमोन्मादिने अरुणकिरणाय प्रचण्डप्रतापस्य प्रयासेन वर्षे यावत् प्रेयसीतो दूर वासस्य दण्डः प्रणीतः।

षष्ठे दृश्ये यक्षो दयितामामन्त्र्य रामगिरिं गच्छति । सप्तमे दृश्येऽरुणकिरणो दूरवासस्य अष्टमे मासे आषाढस्य प्रथमदिवसे मेघमवलोक्य तद्वारा प्रियायै सन्देशं प्रेषयति । अष्टमे दृश्ये कनककलिकाया विरहवेदनायाश्चर्या विद्यते । यक्षसन्देशहरो मेघस्तस्यै दयितसन्देशं प्रयच्छति । यक्षपत्नी पत्युः सन्देशेन मोदते । नवमे दृश्ये यक्षः पुनरलकापुरीमायाति । अथ तयोमिलनं चिरं भवति ।

युगजीवनम्[सम्पादयतु]

दशदृश्ययुते युगजीवननाटके स्वामिनो रामकृष्णस्य दिव्यं जीवनं चर्चितमस्ति । कालीमन्दिरे पौरोहित्यं, भैरवीब्राह्मणी-द्वारा तस्य तान्त्रिकदीक्षा, तोतापुरीद्वारा तस्याद्वैत वेदान्तस्य शिक्षा, सारदामणेः सार्धं तस्य दिव्यं दाम्पत्यं, नरेन्द्रनाथस्य (विवेकानन्दस्य) उपलब्धिः, रामकृष्णस्य समाधिः इत्येताः अस्य नाटकस्य प्रमुख घटनाः सन्ति । भारते शतश इदमभिनीतम्।

निवेदित-निवेदितम्[सम्पादयतु]

प्रस्तुते द्वादशदृश्यान्विते नाटके भगिन्या निवेदिताया जीवनस्य प्रमुखाः घटनाः रूपायिताः।

अभेदानन्दम्[सम्पादयतु]

अभेदानन्दनाटके रामकृष्णपरमहंसस्य प्रमुखशिष्यस्य सम्पूर्णं जीवनचरितं द्वादशदृश्येषु विलसति । अस्य प्रकाशनं प्राच्यवाणीतः १९७७ ईसवीयेऽभवत् ।

रामचरितमानसम्[सम्पादयतु]

द्वादशदृश्ययुते रामचरितमानस-नाटके तुलसीदासस्य चरितगाथा वर्तते । तुलसीदासस्य पत्न्या सह प्रगाढं प्रेम, तस्याः भर्सनया गृहत्यागः, तपस्यया भक्तया च रामचन्द्रदर्शनं, रामचरितमानसस्य रचना इत्यादयोऽस्य रूपकस्य प्रमुखाः घटनाः विद्यन्ते।

रसमय-रासमणिः[सम्पादयतु]

अष्टदृश्यात्मकेऽस्मिन्नाटके राज्ञ्या रासमणेः उज्ज्वला चरितगाथा विद्यते।

चैतन्य-चैतन्यम्[सम्पादयतु]

चैतन्य-चैतन्ये पञ्च दृश्यानि सन्ति । अस्मिन् महाप्रभोश्चैतन्यस्य चारुचरितावली चित्रिता वर्तते। तस्याविर्भावः, बाललीला, दिग्विजयः, महासमाधिश्चास्य प्रमुखाः घटनाः।

संसारामृतम्[सम्पादयतु]

संसारामृतस्य सप्त दृश्येषु केलिनाम्न्याः दरिद्रपरिवारस्य कन्यायाः विपत्तीनां कथा वर्तते । मयूखनामा पुरुषः तस्याः प्रवञ्चनां करोति । अन्ते सा मयुरनामानमभीष्टं प्रियतमं प्राप्नोति । समृद्धस्य मयूरस्य चारित्रिकदौर्बल्यं तां भृशं पीडयति, किं तु शनैः शनैः तस्य चरित्रस्य परिमार्जनं भवति।

नगरनूपुरम्[सम्पादयतु]

नगरनूपुरस्य दशदृश्येषु मेखलाभिधानाया अपूर्वसुन्दर्या गणिकाया गीतनृत्याभ्यां समाजश्चमत्कृतो जायते । सा नित्यं बहून् कार्याणि विद्यदिव सम्पादयति । अन्ते सावगच्छति यद्, इयं जीवनस्य व्यापृतिः व्यर्था । अत्र न कोऽपि सारः । ततः सा हरद्वारं गत्वा महात्मनः उपदेशेन जीवनस्य वास्तविकं तत्त्वं जानाति । पश्चात् सा संन्यासिनी भवति ।

भारतपथिकम्[सम्पादयतु]

पञ्चदृश्यसमन्विते भारतपथिके राज्ञो राममोहनरायस्य चरितगाथा विद्यते।

कविकुलकमलम्[सम्पादयतु]

कविकुलकमले महाकवि कालिदासस्य उत्तरकालिकी चरितगाथा वर्तते । अस्मिन्नष्टौ दृश्यानि विलसन्ति ।

भारताचार्यः[सम्पादयतु]

द्वादशदृश्यान्विते भारताचार्ये नाटके राष्ट्रपतेः सर्वपल्ल्युपास्य राधाकृष्णस्य पावनी चरितगाथा वर्तते । चरितनायकस्य दर्शनं प्रति प्रवृत्तिः, दर्शनविद्वत्सु मूर्धन्यत्वम्, भारतशासनस्य राष्ट्रपतित्वं, यशस्विता चास्य रूपकस्य प्रमुखघटनाः सन्ति। १९६६ ईसवीये राष्टपतिभवने डा० रमायाः निर्देशने नाटकमिदमभिनीतम् । अस्य प्रेक्षकेषु चरितनायकः स्वयमपि सकुटुम्बो विद्यमानः आसीत् । राष्ट्रपतिना पुरस्काररूपेण १५०० रूप्यकाणां राशिः प्राच्यवाण्यै प्रदत्तः।

अग्निवीणानाटकम्[सम्पादयतु]

अग्निवीणानाटके बाङ्गलादेशस्य महाकवेर्नजरुलेस्लामस्य चरितगाथा वर्तते।

गणदेवतानाटकम्[सम्पादयतु]

गणदेवतानाटकं वङ्गानां उपन्यासकारशिरोमणेः ताराशङ्कर-वन्द्योपाध्यायस्य जीवनचरितमुपजीवति ।

यतीन्द्रयतीन्द्रम्[सम्पादयतु]

डा० रमायाः पतिर्यतीन्द्रो वस्तुतो यतीन्द्र एवासीत् । तस्य मृत्युः १९६४ ईसवीये बभूव । १९६४ ईसवीये कवयित्र्या तस्य चारुचरितं यतीन्द्रयतीन्द्र उपनिबद्धम् । उपरि प्रोक्ते एवेसवीये वर्षे यतीन्द्रशिष्यैरिदं नाटकमभिनीतम्।

भारततातम्[सम्पादयतु]

भारततातस्य षडङ्केषु पूज्यस्य महात्मनो गान्धिनः पावनं जीवनवृत्तं समुल्लसति। हरिजनोद्धारः, साम्प्रदायिकमिलनप्रचेष्टा, सुभाष चन्द्रबोस देशबन्धुचितरञ्जनदासयोः मेलापः, लवणसत्याग्रहः नोवाखाल्यभिज्ञा इत्येताः अस्य प्रमुखघटनाः । अस्याभिनयो बापू-शताब्दीमहोत्सवे भारतशासनस्य शिक्षामन्त्रालयस्य समाश्रये सम्पन्नः।

प्रसन्नप्रसादम्[सम्पादयतु]

दशदृश्यात्मकेऽस्मिन्नाटके वंगस्य विश्रुतगायकस्य श्रीरामप्रसादस्य जीवनस्य प्रमुखघटनाः सन्ति। गुरुप्रसादाद् रामप्रसादो जगदीश्वरीमन्नपूर्णां साक्षात्कृतवान् । स प्रतिस्पर्धायाम् अजुगोस्वामिनं जिगाय। महाराजः कृष्णचन्द्रस्तमाद्रियते स्म | समाधौ रामप्रसादस्य मात्रा जगदीश्वर्या सह तादाम्यमभूत् । नाटकेऽस्मिन् रामप्रसादस्य रामप्रसादीति नाम प्रसिद्ध-गीतं संस्कृतेन समाविष्टम्।

सम्बद्धाः लेखाः[सम्पादयतु]

नाट्यशास्त्रम्

भारतम्

मेघदूतम्

संस्कृतम्

उद्धरणम्[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=रमा_चौधुरी&oldid=444068" इत्यस्माद् पुनः प्राप्तिः