राधा रमण मंदिर
श्री राधारमन्दिरं भारतस्य उत्तरप्रदेश: राज्यस्यवृन्दाव नं नामक स्थाने प्रसिद्धं हिन्दुमन्दिरम्अस्ति ।यत् भगवतः कृष्णस्य राधारमणरूपाय समर्पितं वर्तते |. इदं मन्दिरं वृन्दावनस्य सप्तप्रमुखप्राचीनमन्दिरेषु अन्यतमम् अस्ति । येषु राधावल्लभमन्दिरं, राधादामोदरमन्दिरं, राधामदनमोहनमन्दिरं, राधागोविन्ददेवमन्दिरं, राधाश्यामसुन्दरमन्दिरं, राधागोकुलानन्दमन्दिरं च सन्ति अस्मिन् मन्दिरे शालिग्रामशिलातः प्रादुर्भूतस्य स्वयंभूश्रीकृष्णस्य मूर्तिः स्थापिता अस्ति । [१] [२] [३]
राधारमणशब्दस्य अर्थः "राधाप्रियः" इति । प्रायः ५०० वर्षपूर्वं गोपालभट्टगोस्वामी इत्यनेन अस्य मन्दिरस्य स्थापना कृता आसीत् | चैतन्यमहाप्रभोःविग्रहलीलायाः समाप्तेः अनन्तरं यदा गोपालभट्टगोस्वामी वियोगे आसीत् तदा भगवान् स्वप्ने तस्मै प्रकटितः भूत्वा नेपालं गत्वा शालिग्रामशिलां प्राप्तुं निर्देशं दत्तवान् इति विश्वासः अस्ति
-
वृन्दावनस्य राधारमणमन्दिरस्य श्रीकृष्णस्य मूर्तिः
- एषा मूर्तिः शालिग्रामात् एव प्रादुर्भूता, अतः सा स्वप्रकटरूपा मन्यते ।
- अस्मिन् मन्दिरे ठाकुरः इत्यस्य एकः एव मूर्तिः अस्ति, परन्तु सा एकः मूर्तिः त्रयः पक्षाः प्रतिबिम्बयति । भक्तानां मतं यत् कदाचित् एषा मूर्तिः गोविन्ददेवसदृशी भवति, कदाचित् तस्याः वक्षःस्थलं गोपीनाथसदृशं भवति, कदाचित् पादयोः मदनमोहनमूर्तिः प्रतिबिम्बिता भवति। एवं त्रयाणामपि विख्यातरूपसङ्गमा एषा मूर्तिः । [४]
- अस्मिन् मन्दिरे गोपालभट्टगोस्वामी इत्यस्य समाधिः अपि अस्ति ।
- चैतन्य महाप्रभोः "उन्नागवस्त्रम्" अपि अत्र सुरक्षितम् अस्ति ।
- गोस्वामीपरिवारस्य पुरुषसदस्याः एव भोगप्रसादस्य निर्माणं कुर्वन्ति, तस्य सेवायाः अपि दायित्वं तेषां भवति ।
- अस्मिन् मन्दिरे प्रायः ५०० वर्षाणि यावत् अग्निः स्वयमेव प्रज्वलितः अस्ति तथा च ठाकुरः इत्यस्य आरती नित्यं तस्मिन् एव अग्निना क्रियते इति कथ्यते । [५] [६]
अस्य मन्दिरस्य प्रशासनं गोपालभट्टगोस्वामीतः वंशजैः गोस्वामीपरिवारैः पूजितं च भवति | [७]
- राधावल्लभमन्दिरम्
- बाँकेबिहारीमंदिरम्
- राधादामोदरमंदिरम्
- राधामदनमोहनमंदिरम्
- गोविन्ददेवमंदिरम्
- निधिवन्म्
- ↑ "The history of Sri Radha Raman Temple". salagram.net. आह्रियत 2025-05-05.
- ↑ "वृंदावन के राधा रमण मंदिर से जुड़ी रोचक बातें". HerZindagi (in Hindi). आह्रियत 5 मई 2025.
- ↑ "दिल्ली के पास मथुरा-वृंदावन तो देखा होगा, अब देखिए यहां के वो 7 मंदिर जहां श्री कृष्ण खुद बरसाते हैं कृपा". Navbharat Times (in Hindi). आह्रियत 6 मई 2025.
- ↑ "The history of Sri Radha Raman Temple". salagram.net. आह्रियत 2025-05-05.
- ↑ Empty citation (help)
- ↑ "वृंदावन के राधा रमण मंदिर से जुड़ी रोचक बातें". HerZindagi (in Hindi). आह्रियत 5 मई 2025.
- ↑ "वृंदावन के राधा रमण मंदिर से जुड़ी रोचक बातें". HerZindagi (in Hindi). आह्रियत 5 मई 2025.