रामकृष्णमिशन्-विवेकानन्दविश्वविद्यालयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(रामकृष्ण-मिशन्-विवेकानन्द-विश्वविद्यालयः इत्यस्मात् पुनर्निर्दिष्टम्)
रामकृष्णमिशन्-विवेकानन्दविश्वविद्यालयः
Ramakrishna Mission Vivekananda University
स्थापनम् 2005
अवस्थानम् Howrah, West Bengal, India
अनुमोदनम् UGC
जालस्थानम् http://www.rkmvu.ac.in/

रामकृष्णमठस्य विवेकानन्दविश्वविद्यालयः (Ramakrishna Mission Vivekananda University) असर्वकारीयः रामकृष्णमिशन् संस्थया सञ्चाल्यमानः कश्चन विश्वविद्यालयः। अयं विश्वविद्यालयः विश्वविद्यालय-अनुदान-आयोगस्य (UGC) मान्यतां प्राप्तो वर्तते । सम्प्रति अस्य विश्वविद्यालयस्य चत्वारः परिसराः सन्ति। प्रधानकार्यालयः वेलुरमठे, अन्ये च कोयेम्बटुर-स्थाने, नरेन्द्रपुरे, तथा रांचीनगरे वर्तन्ते। २००५ क्रैस्ताब्दे जूलैमासे अयं विश्वविद्यालयः मानितविश्वविद्यालयत्वेन स्वीकृतिमवाप । अत्र संस्कृतं गणितं पदार्थविद्या भारतीयैतिह्यं प्रतिबन्धिनिर्वर्तनशिक्षणं ग्रामोन्नयनम् इत्यादिविषयाणाम् अध्ययनं प्रचलति ।

बाह्यानुबन्धः[सम्पादयतु]