रामनाथः (श्रीरङ्गराजा)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

रामनाथः होसलवंशोद्धवः स्वसमयस्य प्रतापी, विख्यातो वीरश्च आसीत् । रामनाथो मृदुप्रकृतिः क्षमाशीलश्वासीत् । अयं हि राजा होसलेषु वर्णाश्रमधर्माणां तथा प्रतिष्ठामकरोत्, यथा प्रजातन्त्रसत्ययुगस्योदयं तत्र मेनिरे । रामनाथस्य पिता सोमेश्वरोऽस्य वंशस्योन्नायकेषु प्रधानोन्नायकः आसीत् । असौ स्वकीयेन अतुलितेन शौर्यबलेन सर्वानपि चौलप्रदेशान् विजित्य स्वाधीनान् कृतवान् । रामनाथः सोमेश्वरस्य द्वितीयपुत्रः आसीत् । 'केवलमहादेव्याः' गर्भादयं समुत्पन्नो बभूव । सोमेश्वरस्य प्रथमपुत्रः नरसिंहस्तस्य ‘विज्जला’ नाम्न्याः राज्ञाः गर्भादजायत । सोमेश्वरः पैतृकसिंहासने नरसिंहं नाम रामनाथस्य वैमात्रेयं भ्रातरम् अभ्यषेचयत्। स्वराज्यकाले एव सोमेश्वरः रामनाथं दक्षिणप्रदेशानां प्रशासकपदे नियुक्तवान् । पितरि दिवंगतेऽपि रामनाथोऽस्य श्रीरङ्गपुरमस्यैव शासकः आसीत् । अतः भरतस्वामिना अस्योल्लेखः यथार्थ एवाऽकारि । असौ ज्येष्ठभ्रातुर्भिन्न एव स्वतन्त्ररूपेण दक्षिणप्रदेशे शासनमकरोत् । पित्रा विजितश्चोलप्रदेशोपरि अस्यैव शासनमासीत् ।

एकदा महीपुरस्य दक्षिणभागे स्वज्येष्ठभ्रात्रा सह अस्य संग्रामोऽप्यभवत् । नरसिंहदेवस्य मृत्युः ख्रीष्टस्य द्वानवत्यधिकद्वादशाब्देऽभवत् । किञ्चित्कालं व्यतीत्य ख्रीष्टस्य पञ्चनवत्यधिकद्वादशाब्देऽयमपि स्वर्गं जगाम।[१]

 सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. ‘कैम्ब्रिज हिस्ट्री आफ इण्डिया' तृतीयभागस्य ४८३-४८६ पृष्ठे