रिडैमन् बोयी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



२१. रिडैमन् बोयी

जनकः मिहैल्ट् लपासम्म्
ग्रामः-मौखैयाव्
मण्डलम्-जैण्टिया
राज्यम्-मेघालयः

परिचयः[सम्पादयतु]

भारतस्य ईशान्यभागे अस्ति मेघालयः। एतस्य राज्यस्य जयन्तिगिरौ जोवायपत्रालयक्षेत्रे मौखैयाव् इति ग्रामः अस्ति । अस्य ग्रामसय् समीपे मैण्टाङ्ग् इति एका नदी प्रवहति । रिडैमन् बोयि तावत् मिहैल्ट् लपासम्म् जान्लिबोयि इति दम्पत्योः पुत्रः । अस्य जन्म ७-१२-१९७४ तमे दिनाङ्के अभवत् । एतस्य षट्सहोदराः सन्ति । अस्य माता नास्ति इदानीम्। परिवारे उद्भूतया समस्यया अस्याः विद्याभ्यासः स्थगितः अभवत् । १९८६ तमे वर्षे नवेम्बर्मासस्य २५ तमे दिने एकादशवादनसमयः । रिडैमन् बोयीं तस्याः पितृव्यः वन्सलान् बोयी मैण्टाङ्ग् नद्यां मस्यग्रहणार्थं नीतवान् । मत्स्यग्रहणसन्दर्भे स्वेन गृहीतान् मीनान् कण्डोले स्थापयितुं तथा अन्यकर्मणि साहाय्यमाचरितुं नीतवान् आसीत् । वन्सलान् बोयी तरणं सम्यक जानाति स्म । परन्तु रिडैमन् किञ्चिदपि न जानाति स्म । तौ मत्स्यग्रहणार्थं नदीमध्ये स्थानमेकं चितवन्तः। तत्र नद्याः गभीरता आसीत् ३० पादपरिमिता । जलस्य उग्रवेगः अपि आसीत् ।अतः जलस्य आकर्षणशक्तिः अपि अधिका आसीत् । यदा समीचीनतया जालं क्षिप्तवान् तदा मीनाः बद्धाः भवन्ति स्म । एवमेव कञ्चित् कालं तौ मीनान् गृहीतवन्तः । अनन्तरं वन्सलानः स्वपूर्णां बलम् उपयुज्य जालं प्रासारिय्तवान् । विस्तृतम् जालं तु तमेव आकृष्टवत् । वन्सलानः अकस्मात् तत्र नद्यां पतितः। तस्य दक्षिणपादे जालः बद्धः अभवत् । स्वेन विस्तारितं जालं स्वस्य कृते एव बाधकं सञ्जातम् आसीत् । तीर्त्वा शिलां गृह्णामि इति तस्य प्रयत्नः अपि न फलितः । तथापि हस्तसाहाय्येन जले स्थिरतां सम्पादितवान् । स्वपितृव्यं नद्यां पतितं वीक्ष्य रिडैमन् सम्भ्रान्ता । साहाय्यार्थं कोऽपि आगच्छेत् इति इतस्ततः पश्यति परन्तु कोऽपि नागतवान् । सः किञ्चित् वस्तु गृह्णीयात् इति धिया किमपि वस्तु क्षिपामि इति चिन्तयति. परन्तु समीपे किमपि वस्तु नासीत् । कथं पितृव्यं तटे आनयामि इति चिन्ताक्रान्तः अभवत् । सपदि एकः उपायः दृष्टः । शीघ्रं शिलां सम्यक् गृहीत्वा स्वपादौ जले लम्बितवान् । अहं शिलां सम्यक् गृहीतवान् अस्मि, भवान् मम पादौ गृहीत्वा उपरि आगच्छतु इति उक्तवान् । वन्सलानः अनुक्षणं तस्य पादौ गृहीतवान् । तदा एव प्रवहत् जलं वन्सलानमपि आक्रष्टुमारब्धवत् । रिडैमनस्य शरीरमपि आकृष्टवत् इव अभवत् । रिडैमनः तु एतद् न निरीक्षितवान् । यदि हस्तच्युति भवति तदा द्वावपि जले निमज्य मृतौ भवेव इति भीत्या चिन्ताक्रान्तः अभवत् । रिडैमनः शिलां सम्यक् गृहीत्वा पितृव्यम् उपरि आगन्तुं साहाय्यमाचरितवान् । वन्सलानः शिलायाः उपरि यदा अगतवान् तदा जालं निष्कास्य उक्तवान् "रे रिडैमन ! त्वं चतुरः बलशाली धैर्यवान् च । त्वं समयोचितेन चातुर्येण कार्यं कृतवान् । यदि भवान् मां प्रति पादौ न लम्बयते स्म तर्हि अहं जलग्रस्तः भवामि स्म । भवान् मां रक्षितवान् । देवः भवन्तं सुखेन रक्षतु” इति अवदत् । रिडैमनः अवदत्- "हे पितृव्य ! भवतः जालस्य मौल्यं तु ऊनविंशतिरूप्यकाणि । परन्तु भवतः जीवनस्य मौल्यं तु अनर्घम् । अपायं विरुध्य न जीवेत् , उपायेन कार्यं करणीयम् । आगच्छतु गृहं प्रति गच्छाम" इत्यदत् । उभावपि गृहमागतवन्तौ । तरणपटुः अपि आपदि पतितवान् इति प्रवृत्तघटनां स्मृत्वा वन्सलानः कम्पितः अभवत् । एषा वार्ता ग्रामे सर्वत्र प्रसृता । सर्वकारः अपि एतस्य विषये अवगतविषयः अभवत् ।पत्रिकासु अपि एषः विषयः आगतः । मेघालयराज्यस्य बालकल्याणमण्डली अपि एतस्मै प्रशस्तिपत्रं २५० रूप्यकाणि च दत्त्वा सममानयत् । राष्ट्रप्रशस्त्यर्थं एतस्य नाम चितमभवत् ।भारतबालकल्यानमण्डली अपि एतस्य स्मयप्रज्ञां, धैर्यं, साहसं च अभिलक्ष्य २५-१-१९८८ तमे दिवसे राष्ट्रसाहसप्रशस्त्या एतं सममानयत् । रिडैमनः वैयक्तिकजीवने अहं एकः श्रेष्ठः वणिक् भविष्यामि इति अचिन्तयत् । ""

"https://sa.wikipedia.org/w/index.php?title=रिडैमन्_बोयी&oldid=406506" इत्यस्माद् प्रतिप्राप्तम्