रूपकसाहित्यम्
रूपकसाहित्यं संस्कृतसाहित्यजगति साहित्यान्तरमिव सुसमृद्धं विद्यते । तत्र तस्य स्वकीया एव विशिष्टपरम्परा । लोकप्रियतादृष्ट्या काव्येषु रूपकसाहित्यस्य प्रथमस्थानम्मन्यते । तस्य त्रयाणामेवाङ्गानां नाट्य-नृत्य-नृत्तानां वैदिकयुगात् प्रागेव अप्यस्तित्वम् आसीदिति वेदसाहित्यत एव सिध्यति । ऋग्वेदे उषा -
अधि पेशांसि वपते नृतरिवापोर्णते वक्ष उस्रेव वर्जहम्।
ज्योतिर्विश्वस्मै भुवनाय कृण्वती गावो न व्रजं व्युषा आवर्तमः॥[1]
नर्तकीरूपेण चित्रिताऽस्ति । एवमेव तत्र नाट्यतत्त्वेषु मुख्यतमं कथोपकथनमपि दृश्यते यथा पुरुरवोर्वशीसूक्ते, यमयमीसूक्ते, इन्द्रेन्द्राणीदृषाकपिसंवादे च । कात्यायनश्रौतसूत्रे सोमपानावसरे अभिनयस्य प्रसङ्गोऽपि आयाति। यथा - 'अपीर्णते दीक्षितः शिरः'[2] इति । यजुर्वेदे नृत्तगीतयोः कृते जातेरेवोल्लेखो दृश्यते सूतशैलूषादीनाम् । यथा - नृत्ताय सुतं गीताय शैलूषं,[3] शब्दायाडम्बराघातं महसे वीणावादं,[4] नर्माय पुंश्वलूं हसाय कारिं[5]। इत्थं हि वैदिककाले ससुप्तं नाट्यबीजं रामायणकाले समुद्गतं दृश्यते । तदा नाट्यं नृत्तं गानञ्च जीवनस्यानिवार्याङ्गत्वेन गृहीतानि दृश्यन्ते तथैवाभिनयोऽपि । तत्र नटनर्तकादीनां सङ्गस्याप्युल्लेखो दृश्यते । यथा-
'नटनर्तकसङ्घानां गायकानां च गायताम्।
यतः कर्णसुखा वाचः शुश्राव जनता ततः॥' इति ।
महाभारते तु रामायणं कौबेररंभाभिसारश्चेति नाटकद्वयस्य नाम्नैवोल्लेखो दृश्यते ।[6] हरिवंशे वसुदेवयज्ञप्रसङ्गे भद्राख्यस्य नटस्य नाट्यप्रदर्शनं स्मृतमस्ति । पाणिनिरप्यष्टाध्याय्यां शिलालीत्यभिधानस्य विदुषो नटसूत्रं स्मरति[7] तथैव कर्मन्दकृशाश्वादीन्नाट्याचार्याश्च।[8]
विनयपिटके रङ्गशालायाः उल्लेखो दृश्यते चुल्लवग्गकथाप्रसङ्गे । पातञ्जले महाभाष्येऽपि कंसवध-वालिवधाख्यनाटकद्वयं स्मृतमस्ति । शुङ्गकालात्तु नाट्ययुग एव प्रर्वाततो दृश्यते । तत्र भास-सुबन्धु-शूद्रक-सौमिल्ल-कविपुत्र-कालिदास-अश्वघोष-श्रीहर्ष-भवभूति-विशाखदत्त-भट्टनारायण-मुरारि-अनङ्गहर्ष-मायुराज-शक्तिभद्र-दामोदर-राजशेखर-क्षेमीश्वर-दिङ्नाग-क्षेमेन्द्र-विल्हण-कृष्णमिश्र-यशश्चन्द्र-कनकाचार्य-रामचन्द्र-विशालदेव-सोमदेव-सुभटजयदेव-मदन-जयसिंह-प्रह्लाद-यशःपाल-शिङ्गभूपाल-मोक्षादित्य-रामभद्र-रविवर्म-बालकवि-हस्तिमल्ल-रुद्रदेव-विद्यानाथ-नरसिंह-विश्वनाथ-विरूपाक्ष-मणिक-उद्दण्ड-वेदान्तदेशिक-वामनभट्टबाण-ब्रह्मसूरि-गङ्गाधर-हरिहर-रूपगोस्वामि-रामदेव-जीवराम-शेषकृष्ण-श्रीनिवास-यज्ञनारायण-लक्ष्मण-विलिनाथ-गोकुलनाथ-शठकोप-ताताचार्य-रामानुज-जगज्ज्योतिर्मल्ल-गुरुराम-राजचूडामणि-नीलकण्ठ-वेङ्कटाध्वरि-रुद्रदास-महादेव-रामभद्र-नल्ला-सामराज-वादिचन्द्रपद्मसुन्दर-अकबरशाहि-विश्वेश्वर-देवराज-घनश्याम-राजधर्म-विश्वनाथ-देवकवि-भूशुक्लदेव-जगन्नाथ-आराध्य-शङ्कर-जगन्नाथ-कृष्णदत्त-वेङ्कटसुब्रह्मण्यपेरुसूरि-रामदेव-विट्ठल-मथुरादास-नीलकण्ठ-नरसिंह-लोकनाथ-शङ्कर-रामकृष्ण-माधव-पद्मनाथ-बल्लिशाय-शिवेन्द्र-रामचन्द्र-वैद्यनाथ-पञ्चानन-अम्बिकादत्त-मुकुन्द-युवराज--कृष्णपण्डित--शङ्करलाल--श्रीनिवासाचारी-रामशास्त्रिकाशीनाथ-श्रीनिवासाचारी-जग्गू-वेङ्कटरमण-महालिङ्ग-सुन्दरेश-मूलशङ्करमथुराप्रसाद-हरिदास-सुदर्शनपति-पञ्चाननतर्क-क्षमाराव-नीलकण्ठ-प्रभुदत्त-भीमभट्ट-धम्पी-वरदराज-हेवरे-सीतादेवी-तिरुवेङ्कटाचार्य-सुरेन्द्रमोहन-रामनाथ-लीलावल्लभ-सुरेन्द्रमोहन-जीवन्यायतीर्थ-खोतनायर-वटुकनाथ-मधुसूदनसुदर्शन-राघव-कपिलदेवादयः कतिपये ज्ञाताः नाटककाराः ।
संस्कृतनाटकसाहित्योत्पत्तिमधिकृत्य पण्डितैर्मतमतान्तराणि प्रवर्तितानि सन्ति । तदनुसारेण अनुकरणप्रवृत्तिरेव नाटकस्य मूलाधारः । अनुकरणप्रवृत्तिस्तु मनुष्यस्य सर्वासु प्रवृत्तिषु मूर्धन्या । विशेषतः बालकेषु प्रवृत्तिरेषा प्रौढापेक्षया विशिष्टतमा। इयमेव प्रवृत्तिः क्रमशोऽभिनयस्य पश्चाच्च नाट्यस्य योनिः समुपद्यते । प्रथमतस्तु प्रवृत्तिरेषा वीरपूजायां समूर्ताऽभवत् ।
स्वर्गतवीरपुरुषाणां स्मृतौ तान् प्रति सम्मानप्रदर्शनाय समये समये सामूहिकोत्सवाः आयुज्यन्ते स्म । ते हि समाजशब्देन व्यपदिश्यन्ते स्म । तादृशे हि समाजे श्रद्धेयवीरचरितमनुक्रियते स्माभिनयकुशलैः। रामलीला कृष्णलीला चास्यैवोदाहरणेष्वन्यतमाः । तत्र हि प्राकृतिकपरिवर्तनानां मूर्तरूपेणोपस्थापनप्रवृत्तिरपि नाट्योत्पत्तौ सहायिकाऽऽसीत् । सम्भवति पुत्तलिकानृत्यस्याप्यत्र योगदानं महायॆमेवासीत् । इन्द्रध्वजोत्थानप्रभृतिमहोत्सवा अपि नाटयोत्पत्तौ सहकारिकारणानि सम्भवन्ति । वस्तुतस्तु नाट्योत्पत्तेः मनुष्यस्य स्वाभाविकी अनुकरणप्रवृत्तिरेव योनिः । भरताचार्यस्तु नाट्योत्पत्तेरन्यदेव कारणं निर्दिशतिः । तदनुसारेण हि वैवस्वतमन्वन्तरे त्रेतायुगे प्रथमे लोके सुखदुःखाभिभूतत्वेन ग्राम्यधर्म प्रवृत्ते तस्य शिक्षणाय सार्ववणिकवेदरचनार्थमिन्द्रादिभिः प्रार्थितः पितामह ऋग्वेदात्पाठ्यं सामभ्यो गीतं यजुर्वेदादभिनयं रसानाथर्वणादादाय वेदोपवेदसम्बद्धं नाट्यवेदं प्रणिनाय । ततश्च भरतमुनिस्तस्य प्रयोगाय ब्रह्मणाऽऽदिष्टः । इन्द्रध्वजमहे नान्दीपुरःसरं वेदस्यास्य प्रथमः प्रयोगः कृतः।[१] परमेष्ठिप्रणीतोऽमृतमन्थनो नाम समवकारः नाट्यत्वेन प्रथमतोऽभिनीतः, ततश्च द्वितीयतस्त्रिपुरदाहाख्यो डिमो ब्रह्मप्रणीतः[२] इति । यद्यपि भरतमते वास्तविकतापेक्षया पौराणिकत्वमेवाधिकं विलसति तथापि एतस्मादेतत्तु सिध्यति यदिन्द्रध्वजोत्सवायोजना हि नाट्यस्य प्रथमतः प्रेरिकेति। नाट्योत्पत्तिविषये रिजवेमहोदयस्य वीरपूजामतं कीथस्य प्राकृतिक परिवर्तनमतापेक्षया पिशेलस्य पुत्तलिकानृत्यमतापेक्षया कोनोमहोदयस्य च्छायानाटकापेक्षयाऽपि प्रशस्यतरं प्रतिभाति यतो हि तदेव मतं वस्तुतो नाट्याचार्यभरतमतेन सह संवदतेऽपि । अमृतमन्थनं त्रिपुरदाहश्च वीरपूजापरम्पराया एवं ग्रन्थविशेषौ। '
नाट्यस्य प्रयोजनं हि लोकरञ्जनपूर्वकं धर्मार्थकामशिक्षणम् । उक्तमेव‘त्रिवर्गसाधनं नाट्यम्' । तत्रापि लोकरञ्जनमेव नाट्यस्य मूलभूतमुद्देश्यम् । यथाऽऽह धनञ्जयः--‘आनन्दनिःस्यन्दिषु रूपकेषु व्युत्पत्तिमात्र फलमल्पबुद्धिः ।' इति । एतद्धि दुःखार्तानां श्रमाततां शोकार्तानाञ्च विश्रामजननम् । इदं हि त्रैलोक्यस्यास्य भावानुकीर्तनं सर्वमेव विनोदजननञ्च । यथाऽऽह कालिदासो मालविकाग्निमित्रे
‘देवानामिदमामनन्ति मुनयः शान्तं क्रतुं चाक्षुषं..
रुद्रणेदमुमाकरव्यतिकरे स्वाङ्गे विभक्तं द्विधा ।
जैगुण्योद्भवमत्र लोकंचरितं. नानारसं दृश्यते
नाट्यं भिन्नरुचेर्जनस्य बहुधाऽप्येकं समाराधनम् ॥[३] इति ।
अवस्थानुकृतिर्नाट्यं तच्च रसाश्रयम् । अन्यद्भावाश्रयं नृत्यं ताललयाश्रितं नृत्तम् । वस्तु-नेतृ-रसभेदान्नांव्यं दशविधं नाटकप्रकरणभाणव्यायोगसमवकारडिम-ईहामृग-अङ्ग-वीथी-प्रहसनभेदात् । वस्तु द्विविधमाधिकारिक प्रासङ्गिकञ्च । तच्च पुनः प्रसिद्धकल्पितभेदाद् द्विविधम् । नेता चतुर्विधो धीरोदात्तधीरोद्धत-धीरललित-धीरप्रशान्तभेदात् । रसा अष्टौ शृङ्गारवीरकरुणाद्भुतहास्यभयानकबीभत्सरौद्रभेदात् । व्यापाराभावेनाभिनयासम्भवात् नैव शान्तस्य नाट्ये पुष्टिरिति केचित् । रामचन्द्रमते तु तस्यापि पुष्टिरभिनयसम्भवात् । दृश्यतया हि नाट्यं रूपमित्यप्युच्यते समारोपांदूपकमपि । अभिनय एव नाट्यस्य जीवनम् । तच्चतुविधं वाचिक-आङ्गिक-आहार्य-सात्त्विकभेदात् । नटादौ पात्राणां तादात्म्यायत्या नाट्ये सामाजिकानां रसास्वादनसम्भवः । अथाऽत्र कतिपयेषां रूपकाणां तत्प्रणेतृणाञ्च संक्षिप्त परिचय उपस्थाप्यते ।।
नाटकचक्रम्
[सम्पादयतु]नाटकचक्रस्य कर्ता भासः। सः सम्प्रतिविज्ञातनाटककृत्सु प्राचीनतमो मतः । तस्य हि नाटकचक्रे विंशत्यधिकनाटकानि सन्ति । इदं नाटकचक्रं प्रथमतो गणपतिशास्त्रिणा १९६६ मितवैक्रमाब्दे प्रकाशितं प्रमाणितञ्च तेषां भासकर्तृकत्वम् । तत्र त्रयोदशनाटकान्यासन्।
अविमारकम्
[सम्पादयतु]अविमारकं हि षटस्वङ्केषु विभक्तं रूपकम् । अत्र हि • काशीयुवराजस्य सौवीरराजधर्मपुत्रस्याविमारकस्य कुन्तीभोजराजकुमार्या कुरङ्गयां सह प्रेमलीलोपर्वागताऽस्ति । अत्र हि .तथा रचनाचमत्कारः प्रतिभाति । सम्भवति भासो हि स्वीयामेव व्यथामत्र प्रकटीकरोति । कृतेरस्या भासप्रणीतत्वापत्तिरपि न तथा युक्तिहीना।
चारुदत्तम्
[सम्पादयतु]चारुदत्तं हि नाटकं चतुषु अङ्केषु विस्तारितम् । अत्र हि उज्जयिन्याश्चारुदत्तस्थ वसन्तसेनाख्यया वेश्यया सह प्रेमविनिमयो र्वाणतोऽस्ति । कृतिरियं स्वजातौ प्रथमा यतो हि.राजेतरः कश्चिद्विप्रोऽत्र नायकत्वेनोपस्थापितः । अपूर्णमिदं नाटकं भासस्य चरमा कृतिः । अत्र हि चारुदत्तेन सह वसन्तसेनाया अभिसारनिमित्तकव्यवस्थापर्यन्तैव कथाऽस्ति । तदनुर्वातना विशालेशेन शूद्रकेनं मृच्छकटिक प्रणीय कथैषा पूरिताऽस्ति ।
प्रतिमानाटकम्
[सम्पादयतु]सप्ताङ्के नाटकेऽस्मिन् रामवनगमनपर्यन्ता कथा संक्षेपेणोपवणताऽस्ति।
अभिषेकनाटकम्
[सम्पादयतु]षडङ्कात्मकं हि नाटकमिदं प्रतिमानाटकस्योत्तरार्द्धम् । अत्र हि रामायणे किष्किन्धा-सुन्दरयुद्धकाण्डंगता कथा संक्षिप्योपवणिताऽस्ति । इदमेव बालिवधसंज्ञयाऽपि व्यपदिश्यते । ।
बालचरितम्
[सम्पादयतु]बालचरितं हि भागवताश्रितं नटिकम् । इदमेव कंसवधसंज्ञयाऽपि व्यपदिश्यते । अत्र हि कृष्णस्य जन्मत आरभ्य कंसवधपर्यन्ता कथोपवणताऽस्ति । ।
ऊरुभङ्गम्
[सम्पादयतु]रूपकमिदमेकाङ्कि। अत्र हि दुर्योधनस्योरुभङ्गपर्यन्ता कथोपवणताऽस्ति । 'सम्भवत इदमेव हि संस्कृतसाहित्ये प्रथमं दुःखान्तनाटकम् ।।
दूतवाक्यम्
[सम्पादयतु]एकाङ्कनाटकमिदं श्रीकृष्णस्य पाण्डवदौत्यकथासम्बद्धम् ।
पञ्चरात्रम्
[सम्पादयतु]अत्र हि त्रयोऽङ्काः । अत्र हि यज्ञावसाने द्रोणो दक्षिणीरूपेण पाण्डवेभ्योऽर्द्धराज्यप्रदानं वृणुते । दुर्योधनोऽपिः यजमानः पञ्चरात्राभ्यन्तरे पाण्डवागमने तथाकरणाय प्रतिजानीते । द्रोणस्य प्रयासेन पाण्डवास्तत्रोपतिष्ठति यथाप्रतिश्रुतं हि राज्याध्यै दुर्योधनस्तेभ्यः प्रयच्छति । कथैषा महाभारतकथया सह विवदते ।
दूतघटोत्कचम्
[सम्पादयतु]एकाङ्केऽस्मिन् रूपकेऽभिमन्युवधानन्तरं श्रीकृष्णः सन्धिप्रस्तावाय घटोत्कचं दूत्ये नियुनक्ति । सोऽपि धृतराष्ट्रसकाशं गत्वा सर्वं निवेद्य कृतानादरो दुर्योधनेन पुनः प्रत्यागच्छति ।।
कर्णभारम्
[सम्पादयतु]एकाङ्के रूपकेऽस्मिन् कर्णस्य ब्राह्मणरूपधारिणे शक्राय कवचकुण्डलदानेन सह सम्बद्धा कथा वणताऽस्ति ।।
मध्यमव्यायोगः
[सम्पादयतु]मध्यमव्यायोगेस्मिन् भीमेन घटोत्कचाद् ब्राह्मणपुत्ररक्षणं भीमस्य हिडिम्बया सह पुनर्मिलनञ्च वर्णितमस्ति। व्यायोगेऽस्मिन्नस्ति लोकमणिदाहालस्य कलाख्या टीका।
एतदतिरिक्तमपि भासस्य कृतित्वेन सप्तान्यानि नाटकान्यपि स्मर्यन्ते येषु वीणावासवदत्ता यज्ञफलञ्चापि । तदतिरिक्तमपि भासस्य कृतित्वेन स्मर्यते महाकाव्यमपि । यथा हि समुद्रगुप्तस्तं भासमानमहाकाव्यः कृतिविंशति• नाटकः । इति स्तौति । बहवो हि श्लोका भासप्रणीता इति यत्रतत्रोद्धता दृश्यन्ते, येषां हि त्रयोदशे एव रूपके न दृश्यते प्रतिष्ठा । तेनाऽपि भासस्य कृत्यन्तरस्यापि सम्भावनोदेति । भासनाटकानां हि स्वीयमेव वैशिष्ठ्यं विद्यते येन हि ते इतरकविकृतिभ्यो वेभिद्यन्ते । यथा हि बाणभट्टः स्मरति -
‘सूत्रधारकृतारम्भैर्नाटकेर्बहुभूमिकैः।
सपताकैर्यशो लेभे भासो देवकुलरिव ।।' इति ।।
कथनेनानेन भासरूपकाणां त्रिविधं वैशिष्टयं स्मर्यते यत्रेषामारम्भः सूत्रधारद्वारैव भवति न तु नान्दीतः, तत्र हि सुविस्तृता कथा वय॑ते पात्राणां बाहुल्यञ्च तथैव तत्र पताका विशेषेण विरचिताऽस्ति ।
भासरूपकवैलक्षण्यञ्च यथोपसंहृतं समालोचकैः -
१. भासरूपकाणि हि सूत्रधारकृतारम्भाणि सन्ति । नाटकान्तरे तुं प्रथम नीन्दीपाठो दृश्यते तत एव सूत्रधारप्रवेशः ।
२. तस्य हि रूपकेषु प्रस्तावनास्थाने स्थापना' पदप्रयोगो दृश्यते ।
३. भासरूपकेषु सुविस्तृतं कथावस्तु दृश्यते बहुषु पात्रेषु व्याप्तम् । अस्य रूपकाणामुद्देशः कथाविस्तार एवं न तु तन्माध्यमेन पौण्डित्यप्रदर्शनम् ।
४. अस्य हि रूपकेषु प्ररोचनाया नितान्तमेवाभावः । सा हि प्रस्तावनाया आदिमो भागो यत्र कवेः कृतेश्च परिचयी दीयते येथा रूपकान्तरेषु दृश्यते ।
५.अस्य कतिपयेषु विशेषतः प्रतिज्ञायौगन्धरायण-स्वप्नवासवदत्त-पञ्चरात्रोरुभङप्रतिमाख्येषु प्रारम्भिक पद्य मुद्रालङ्कारमण्डितं दृश्यते यत्र हि मुख्यमुख्यपात्राणां नामोल्लेखः कियते । यथा स्वप्नवासवदत्ते -
उदयनवेन्दुसवर्णावासवदत्ताबलौ बलस्य त्वाम् ।
पद्मावतीर्णपूण वसन्तक्रमौ भुजौ पाताम् ।।
अत्र हि उदयन-वासवदत्ता-पद्मावती-वसन्तकानां भङ्गयन्तरेण नामोल्लेखः । एतादृशं वैशिष्ट्यं नाटकान्तरे प्रायो न लभ्यते ।।
६. एषु हि भरतवाक्ये न तथा वैशिष्टयम् । कतिपयेषु तु तस्याभावोऽपि दृश्यते ।
७. अस्य हि नाटकेषु स्थापनाऽतिस्वल्पा प्रायः साऽपि सर्वत्र समानैव ‘आर्यमिश्रान् विज्ञापयामि' इत्याद्या । । ८. अस्य हि एकमेव पात्रमेकाधिकनाटकेषु, दृश्यते । यथा प्रतिहारिणी विजया चतुषु नाटकेषु, कञ्चुकी वादरायणः प्रतिज्ञायौगन्धरायणे दूतवाक्ये च ।।
९. एषु हि सुवदना दण्डकप्रभृत्यप्रचलितच्छन्दसामपि प्रयोगो दृश्यते प्रायोऽनुण्टुभो बाहुल्यञ्च ।
१०. तस्य कृतिषु व्यङ्गयस्य बाहुल्यं बहुधा प्रसपैति । अत एव सर्वत्र पताकास्थानकप्रयोगो दृश्यते ।
११. अस्य प्रायः सवस्वेव कृतिषु भाषिकसमानता रीतिसाम्यञ्च दृश्यते । तथैव तेषु उपमोत्प्रेक्षादीनामलङ्काराणाञ्च सर्वत्र प्रयोगो विलसति सामान्यतः । कथ्यते ह्यस्य रूपकेषु १२७ सङ्ख्याकवाक्यानि सर्वत्र समानानि दृश्यन्ते यथाऽन्विष्टं सुक्थङ्करमहाभागेन।
१२. अस्य हि कृतिषु अपाणिनीयानामार्षाणाञ्च पदानां प्रयोगबाहुल्यं दृश्यते यथा 'व्यूरौढाः' इत्यादि ।
१३. भासस्य रूपकाणि प्रायः परस्परसम्बद्धानि दृश्यन्ते । यथा स्वप्नवासवदत्तं प्रतिज्ञायौगन्धरायणस्योत्तरभागः। तथैव अभिषेकनाटकं प्रतिमानाटकस्य । एवमेव दूतवाक्य-कर्णभार-ऊरुभङ्गाख्यानि च प्रायः परस्परसम्बद्धान्येव ।
सत्यपि तथास्पष्टे भासरूपकवैशिष्ट्ये सत्यपि तथात्वे बाणप्रभृतीनां साक्ष्येऽपि केचित्समालोचका गणपतिशास्त्रिप्रकाशितत्रयोदशरूपकाणां भासप्रणेतृत्वं नैव मन्यन्ते । तेषु हि काणेमहाभागोऽग्रणीः । किन्तु ते विस्मरन्ति यद्वाणभट्टः सूत्रधारकृतारम्भबहुकथबहुपात्रताकास्थानकाकीर्णरूपकाणां भासप्रणीतत्वं स्पष्टमेव मन्यते । दण्डी च 'लिम्पतीव तमोऽङ्गानि वर्षती वाञ्जनं नभः' इति पद्यमद्धरति भासनाटकगतम् । गौडवधस्य प्रणेता वाक्पतिराजोऽपि भासं ज्वलनमित्रत्वेन स्मरति । तदधिकं, प्रथमकाव्यशास्त्री भामहः प्रतिज्ञायौगन्धरायणगतं अनेन मम भ्राताहतः' इत्यादिकथनं 'हतोऽनेन मम भ्राता ममपुत्रः पिता च मे इति श्लोकबद्धमुद्धरति । वामनाचार्यों हि । भासस्य सप्तश्लोकास्तत्र तत्रोद्धरति । यथा व्याजोक्त्यलङ्कारनिदर्शने स्वप्नवासवदत्तगतं -शरच्छशाङ्कगौरेण-इति पद्यमेव मन्यानपि । राजशेखरस्तु स्वप्नवासवदत्तं नाम्नैव स्मरति । यथा -
भासनाटकचक्रेऽपि छेकैः क्षिप्ते परीक्षितुम् ।
स्वप्नवासवदत्तस्य दाहकोऽमून्न पावकः । । इति ।
अभिनवगुप्तपादोऽपि स्वप्नवासवदत्तं स्मरति । भोजराजोऽपि शृङ्गारप्रकाशे स्वप्नवासवदत्तगतं वाक्यमक्षरश उद्धरति। नैतावन्मात्र कालिदास एव भासं प्रथितयशस्कं नाटककारं मन्यते । कौटिल्योऽपि तस्य प्रतिज्ञायौगन्धरायणगतं 'नवं शरावं' इति पद्यमुद्धरति । सत्स्वपि प्रमाणेष्वेतेषु विद्यमानेषु कश्चिद्धि स्वप्रकर्ष साधनाय भासं द्वादशशतकभवं वा नाटकचक्रं वाक्यारसम्बद्धं च मन्यते तदा किमेवं वक्तव्यमवशिष्यते। वयमेव सर्वतोभावेन रूपकचक्रमिदं भासप्रणीतं तथा भासस्योदयनसमकालिकत्वमत एव विक्रमपूर्व चतुर्थशतकभवमपि मन्यामहे।
यानि हि खलु वैशिष्ट्यानि नाटयस्यावश्यकतत्वरूपेण निरूपितानि काव्यं विद्भिर्यथा घटनैक्यं तत्सार्थकता, तस्याः संसरंम्भा गतिः, कवित्वं. चरित्रचित्रणं स्वाभाविकता च तानि हि सन्ति मूर्तीकृतानि भासरूपकेषु । भासस्य कृतौ सर्वत्र विलंसतिं प्रासादिकता । तत्र विकटबन्धक्लिष्टकल्पनाश्लेषभार-समासभ्यस्त्वादीनि निकाममेव नैव दृश्यन्ते । तंत्र तु नाट्यानुरूपा कथा, कथानुरूपा तस्या गतिः, गत्यनुजारं पात्रयोजना, यात्रानुसारिणी भाषा, भाषानुसारिणी अलङ्कारयोजनाच दृश्यते बाहुल्येन । कथायाः सादृशः स्वाभाविको विकाशः, पात्राणां तथा कथानुकूलनं विरलमेवान्यत्र दृश्यते ।
वत्सराजचरितम्
[सम्पादयतु]चन्द्रगुप्तसुतस्य विन्दुसारस्य मंगधेशस्य सभाकविः काश्मीराभिजनः । सुबन्धुः वत्सराजचरिताख्यं नाटकं व्यंधादिति समुद्रगुप्तस्य -
व्याहारसौष्ठवमदाररसं महार्थं ।
यन्नाटकं सुरभिर्गाभितनाटकञ्च ।
तद्वत्सराजचरितं मृदुभावहारि
कृत्वा सुबन्धुरेभवत्कृतीनां वरेण्यः ।।
इति वचनाज्ज्ञायते । सम्प्रति तन्नैवोपलभ्यते किन्तु समुद्रगुप्तेन तदवश्यमेव दृष्टं भवति । यतो हि स तद् व्याहारसौष्ठवोदाररसमहार्थ-गभितनाटकादिविशेषणैः स्तौति । सुबन्धुह बिन्दुसारस्य मगधेश्वरस्य सभाकविरासीदिति ।
‘बिन्दुसारस्य नृपतेः स बभूव महाकविः ।
किन्तु सेहे न तद्गर्वं तिरञ्चक्रे च तां सभाम् ।।
उरगामे नृपे तस्मिन् क्रुद्धे बन्धयितुं कविम् ।
सरस्वती मोचयामास तं देशं सोऽत्यजत्तदा ।।
विद्वान् जयी वत्सराजो दृष्ट्वा वैदुष्यमुत्तमम् ।।
पञ्चग्रामान ददौ तस्मै निजां भगिनिकां तथा ।।
इति समुद्रगुप्तकथनात् तथैव -
‘सुबन्धुः किल निष्क्रान्तो बिन्दुसारस्य बन्धनात् ।
तस्यैव हृदयं बध्वा वत्सराजः .............
इति अवन्तिसुन्दरीकथायाभुक्तत्वाच्च ज्ञायते ।।
एतदनुमीयते यत्सुबन्धुर्मगधेश्वरस्य विन्दुसारस्य सभाकविरासीत् । कवयो हि स्वभावेनैव गुणपक्षपातिनः । तेन हि स्वनाटके सर्वजनप्रिय उदयनो नायकत्वेन वर्णितः । तस्य हि तथाचिन्तने, भासस्य रूपकाणि तथैव जनमानसे उदयनस्य स्थानञ्च प्रेरकत्वेनास्तामेव । उदयनस्य लोकप्रियत्वं तु प्रतिज्ञायौगन्धरायणे ‘विस्रम्भयत्येनं कथमप्युत्पन्नः पौरानुरागः' इति कथनात् कालिदासस्य ‘प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धान्' इति कथनेन च ज्ञायते । ततः पञ्चशतकोत्तरार्द्धभवः कालिदासस्तमित्थं स्मरति चेत्ततोऽपि द्विशतकपूर्ववर्तना सुबन्धुना स उपवणत इति किमाश्चर्यम् । किन्तु राजानो हि प्रकृति कृपणाः स्वभावतः परोत्कर्ष नैव सहन्ते एव । अपरञ्च वत्समगधयोरासीत्प्राचीनो विद्वेषः । मगधेशेन शिशुनागेन वत्सदेशो मगधसाम्राज्ये समावेशित आसीत् । पुनश्च धननन्द समये स स्वाधीनः सञ्जात आसीत् । विन्दुसारो हि तस्य पुनर्मगधेष्वेव विलयने कृतप्रयत्नस्त्वासीदेव । स हि स्वसभाकविना तथा विधेन स्वशत्रुराजकीर्तिवर्णनं विन्दुसारः सोढुं नाशकत् तेन हि स कविर्बन्धने निक्षिप्तः। किन्तु तस्य पत्नी सरस्वती स्वयमपि कवयित्री कवेर्मर्म जानाति स्म। तेन हि तया कथञ्चिदेव बन्धनान्मोचितः कविः । मुक्तश्च स वत्सानेव जगाम । तत्र हि राज्ञा कृतसत्कारः स सुखमवसकृतदारो व्यरचयच्च तत्रैव वासवदत्ताख्यं प्रथमगद्यमहाकाव्यञ्च । तेन हि २५० मित विक्रमपूर्ववत्सरमभितस्तस्य स्थितिकालः । एतदधिकं तद्विषये न किमपि ज्ञातम् ।
मृच्छकटिकम्
[सम्पादयतु]भासनाटकचक्रमादाय यथा पण्डितेषु भासप्रणीतत्वं तेषां स्याद्वा न वेति विवादस्तथैव शूद्रकस्य मृच्छकटिकमादायापि । अत्रापि विवादस्य द्वौ पक्षौ स्तः । एकः शूद्रकस्थितिकालसम्बद्धः अपरस्तस्य मृच्छकटिककृत्वसम्बद्धः। केचिच्छुद्रकं कल्पितमनुष्यं मन्यन्ते केचिदैतिहासिकं विदिशाप्रतिम्। विषयेऽस्मिन् समुद्रगुप्तः कथयति स्वीये कृष्णचरिते राजकविवर्णनप्रसंगे -
पुरन्दरबलो विप्रः शूद्रकः शस्त्रशास्त्रवित् ।
धनुर्वेदं चौरशास्त्रं रूपके द्वे तथाऽकरोत् ।।
स विपक्षविजेताऽभूच्छास्त्रैः शस्त्रैश्च कीर्तये।
बुद्धिवीर्ये नास्य वरे, सौगताश्च प्रसेहिरें ।।
स तस्तारारिसैन्यस्य देहखण्ड: रणे महीम् ।
धर्माय राज्यं कृतवान् तपस्विव्रतमाचरन् ।।
शस्त्रजितमयं राज्यं प्रेम्णाऽकृत निजगृहम् । ।
एवं ततस्तस्य तदा साम्राज्यं धर्मशासितम् ॥
तत्कथां कृतवन्तौ तौ कवीरामिलसौमिलौ ।
तस्यैव सदसि स्थित्वा तौ मानं बह्ववाप्नुताम् ।।
सतां मतः सोऽश्वमेधं कृतवानुरुविक्रमः ।
वत्सरंःस्वं शकाञ्जित्वा प्रावर्तयत वैक्रमम् ।।
भूयः सः मृच्छकटिक नवाङ्कं व्यधात् । ।
व्यधात्तस्मिन् स्वचरितं विद्यानयबलोजितम् ॥
तदार्यजयकं नाम्ना ख्याति विद्वत्स्वविन्दत ।
एवं ब्रह्मक्षत्रतेजोराशिरासीत्स , शूद्रकः ।।
उपवेश्य निजं पुत्रं देवमित्रं निज़ासने ।
वार्धके, मुनिवृत्त्यैव नयन् कालं वनं ययौ ॥
तस्याभवन्नरपतेः कविराप्तवर्णः
श्रीकालिदास इति योऽप्रतिमप्रभावः ।
दुष्यन्तभूपति कथां प्रणयप्रतिष्ठा
रम्याभिनेयं भरितां सरसाञ्चकार ।
शाकुन्तलेन स कविर्नाटकेनाप्तवान् यशः
वस्तुरम्यं दर्शयन्ति त्रीण्यन्यानि लघूनि च ।।[४]
तथैव अवन्तिसुन्दरीकथायामुक्तं -
शूद्रकेनासकृज्जित्वा स्वच्छयां खङ्गधारया।
जगद्भूयोऽन्यवष्टब्धं वाचा स्वचरितार्थया ।।[५]
एभिरुद्धरणैः शूद्रकस्य विषये कतिपयानि तथ्यानि स्पष्टीभवन्ति यदसौ वास्तविकः पुरुषो न तु काल्पनिकः । असौ हि स्वबाहुवीर्येणाजितां भुवं बुभुजे न तु क्रमागतम् । असौ हि विप्र आसीत् अनेन हि शंकाञ्जित्वा तानपसार्य वैक्रमः संवत्सरः प्रवततः । अस्य सभायां रामिल: सौमिलः कालिदासश्च कवय आसन्नाश्रिताः। अनेनाश्कमेधोऽपि विहितः । अस्य पुत्रो देवमित्राख्यः । असौ हि विचक्षणोऽप्यासीत् । अनेन हि धनुर्वेदं चौरशास्त्रं, द्वौ रूपकग्रन्थी तदतिरिक्तं मृच्छकटिकं नाम नवाङ्कं नाटकमपि प्राणायिषत । मृच्छकटिकं हि तस्य निजचरितमेव । ततः प्रभृति तय नाम आर्यजयकमपि प्रचलितमभूत् । मृच्छकटिके आर्यकस्य गोपालोपरि विजयो राज्यप्राप्तिश्च तस्य कवेःस्वचरितमेव । तेनाऽपि तथैव म्लेच्छाश्रयं पालकमपाकृत्य स्वयमेव राज्यं शासितमिति । इत्थं हि- शस्त्रेण तेन. भूमिरवाप्ता स्वचरितार्थया वाचा यशश्च । स हि वार्धक्ये पुत्रं देवमित्रं राज्ये संस्थाप्य तपसे वनं प्रविष्टः । उक्तमेव मृच्छकटिके -
ऋग्वेदं सामवेदं गणितमथं कलां वैशिक हस्तिशिक्षा
ज्ञात्वा शर्वप्रसादाद् व्ययगततिमिरे चक्षुषी चोपलभ्य ।।
राजानं वीक्ष्य पुत्रं परमसमृदयेनाश्वमेधेन चेष्टवा
लब्ध्वा चायुः शताब्दं दशदिनसहितं शूद्रकोऽग्नि प्रविष्टः ।।[६]
अत्र 'अग्नि प्रविष्टः' इत्येतस्य ‘आत्मदाहं चकार ।' 'मृतः' इत्याशयं गृहीत्वा केचनं पाण्डित्याभिमानिनः ‘स्वं निधनं न कोऽप्युद्धोषयितुं प्रभवति' इति समालोच्य काव्यमिदं केनचिच्छूकनाम्ना प्रणीतमिति साधयन्ति । वस्तुतोऽग्नि प्रविष्टः इत्येतस्याशयस्तु वानप्रस्थमगादित्याशयो बोध्यते । ‘वार्धक्ये मुनिवृत्यैव नयन् कालं वनं ययौ' इति कथयित्वा समुद्रगुप्तोऽपि तथैव समर्थयति । 'विहाय लक्ष्मीपतिलक्ष्मकार्मुकं जटाधरः सन्स जुहाव पावकम्' इति पद्यस्यास्य परमार्थ: । बाणभट्टोऽमुं विदिशत्वेन कादम्बयाँ स्मरति । आवन्तिकाख्यः कविः शूद्रकजयं ग्रन्थं प्रणीय आवन्तिकं घोषयति। ततत्त सुनिश्चितमेव यदसौ दाक्षिणात्याभिजनः । अंसौ हि वायुपुराण सिन्धुक इति, मत्स्यपुराण शिशुक इति, विष्णुपुराणे शिने छ अन्ध्रः शूद्रः वृषले इति च नाम्ना व्यपदिष्टः । अनेन .. fणं हत्वा राज्यं हस्तगतमकारि । असौ हि महाशैर्य महाशय आसीत् । तं हि भागवता से वृषलं कथयन्तीति किमाश्चर्यम् ।' स्कन्दपुराणे त्वयं शदक एवं कथितः । यथा -
त्रिषु वर्षसहस्रेषु कलेयतेषु 'पाथवः ।
शद्वको नाम वीराणामधिपः सिद्धिमित्तकः
इति । अमरकोषटीकाकृत् क्षीरस्वामी हि शूद्रकं चक्रवतिष्वेकं गणयति । यथा -
••••••विक्रमादित्यः साहसाङ्कः शकान्तकः ।।
शूद्रकश्चाग्निमित्रो वा हालः स्याच्छालिवाहनः ॥' इति ।
तथैव वाक्यपदीयस्य स्वोपज्ञटीकायां भर्तृहरिरपि शूद्रकं स्मरातीत्थं - ‘लोकेऽपि राजपुरुष इत्युक्ते कस्य राज्ञः शूद्रकस्येति ।' एवं सदाश्रयोऽपि काव्यादर्शटीकायां-सदाश्रयं-हर्षशूद्रकोदयनादिसत्पुरुषतमाश्रयम् इति तं स्मरति वामनाचार्योऽपि तं स्मरति । यथा
शूद्रकादिरचितेषु प्रबन्धेषु अस्य भूयाने प्रपञ्चो दृश्यते । इति ।
यदि तथा, कालिदासः शूद्रकसभाकविसौमिल्लं स्मरति तदाश्रयभूतं शूद्रकं कथं न स्मरतीह्यपेक्षायां कथ्यते यत्कालिदासस्तत्र प्रसिद्धान् नाटककारानेव स्मरति । मृच्छकटिकं तु शूद्र कस्य चरमो कृतिरर्याद राज्यत्यागानन्तरमेव तेन प्रणीतमिदम् । सा कृतिः कालिदासस्य नैव नयनपथमागता भवेदथवा मालविकाग्निमित्रस्य रचना मृच्छकटिकरचनाया प्रागेव सञ्जाता। कथ्यते हि शूद्रकस्य स्थितिकालो विक्रमयुगारम्भात्सप्तविंशतिवर्षमितपूर्वकाल एव । तस्य च शूद्रक इति नाम यथाऽशोकस्य देवानीं प्रिय इति । यदेव प्रचलितं तदेव तेनापि धारितम् । वस्तुतस्तु तस्य नाम शिंमुक इति केषाञ्चिन्मतम् । पिशेलमहाभागो दण्डिनमस्य प्रणेतारं मन्यते तस्य काव्यादर्ने । ‘लिम्पजीव तमोङ्गानि इति पद्यस्य दर्शनात् । किन्तु तन्नैव युक्तियुक्तं प्रतिभाति यतो हि तथा सति प्रस्तावनायां शूद्रकविषयकचर्चा किंकृता सम्भवति । लेबी महाभागस्तु मृच्छकटिकं कस्याप्यन्यस्य कवेः कृति शूद्रकनाम्ना ख्यात मन्यते किन्तु स तथाकरणे कारणं तु नैव प्रस्तोतुं प्रभवति। कीथमहोदयस्तुं शूद्रकमेव 'काल्पनिकं मन्यते किन्तु एतत्सम्भवति यतैन समुद्रगुप्तस्य कृष्णचरिते तस्योल्लेखो नैव दृष्टः स्यात् ।
स हि नितान्तमेवैतिहासिको राजा भासानन्तरवर्ती कालिदाससमकालीनश्च । नेरूरकरमहाशयस्तु मॅच्छकटिकमपिभासस्यैव कृति मन्यते चारुदत्तस्योत्तरार्द्धत्वेन । तर्कोऽयं तकन्तरापेक्षया. मननीयं प्रतिभाति यतो हि भास उदयनसभाकविरिति तु पूर्वं प्रतिपादितमेवं । मृच्छकटिके समुल्लिखितौ पालकार्यको प्रद्योतस्यावन्तिकम्य वंश्यौ । प्रद्योतस्य गोपालपालकाविति द्वौ सुतौं । पालको हि गोपालं घातयित्वा प्रद्योतानन्तरं राज्यमपहरति । गोपालकसुत अर्यकः पितृवंधप्रतिशोधाय प्रयतमानः पालकपुरुष गृहीतः कारागीरे संबन्धनं निक्षिप्यते । आर्यकः वर्थञ्चित्ततः पलायित्वा बहिरागत्य पालकं हत्वा राज्यं गृह्णाति । उदयनस्य विवाहकाले एव प्रद्योतोऽतिवृद्ध आसीत् । तेन सम्भवति भाससमये एव सा घटना घटिता भवेत् । अपरञ्च, भासस्य प्रतिज्ञायौगन्धरायणस्वप्नवासवदत्ते, प्रतिभानाटकाभिषेकनाटके चान्योन्यस्य पूर्वापरभागौ दृश्येते । तथैव चारुदत्तस्योत्तरार्द्धत्वेनेदमपि प्रणीतं सम्भवति । किन्तु तत्र शूद्रकस्योल्लेखस्य सङ्गतिनँव तिष्ठति । यदि हि नाटकमुख्यभागो भासप्रणीतः प्रस्तावनाभागश्च पश्चादन्येन तथा संयोजित इति कथ्यते चेदपि तन्न युक्तियुक्तं प्रतिभाति । समुद्रगुप्तो हि स्पष्टमेव शूद्रकस्यास्तित्वं तस्य मृच्छकटिकस्य कर्तृत्वञ्च स्मरति ।।
मृच्छकटिके हि वैदिकधर्मेण सह बौद्धधर्मोऽपि सादरमादतो दृश्यते । तत्र : बौद्धभिक्षोः संवाहकस्योपस्थितिस्तथैव सूचयति । एतद्धि विक्रमसमकालकालमभित एव सम्भवति । राजतन्त्रस्य दौर्बल्यञ्च तस्मिन्नेव युगे आसीत् । अपरञ्च ग्रन्थोऽयं भरतप्रणीतप्राकृतप्रयोगनियमं दृढतयानुकरोति, तथैवाये । वररुचेः प्राकृतंव्याकरणंप्रणयनाय दृढाधारश्च । भासो हि न तु भरतप्रणीतनाट्यनियमाननुयाति नैव च तत्कृतप्राकृतप्रयोगनियमं पालयति । तेन हि मृच्छकटिक भासादनन्तरकालर्वातनाटकं सिध्यति ।
मृच्छकटिके हि सन्ति दशाङ्काः। समुद्रगुप्तस्तु नवाङ्कमिदं कथयति । सम्भवति अङ्कगणनाभ्रमो वा द्वयोरङ्कयोरेकाङ्गणनं वा । अत्र हि चारुदत्त-.. वसन्तसेनयोः प्रणयः पूर्वभागे चरमभागेच. तयोमिलनं वणितमस्ति । चारुदत्तस्य पुत्रो रोहितको मृन्निमितशकटेन, क्रीडितुं नैव वाञ्छति स्पृहयति च हैमशकटेन क्रीड़नाय । वसन्तसेना तन्निमित्तं स्वान्याभूषणानि तस्मै प्रयच्छति यानि हि पश्चाच्चारुदत्तस्य विपत्तिनिमितानि भवन्ति । शकारो वसन्तसेनाये स्पृहयंति राजश्यालः किन्तु साः तमपाकरोति । सोऽप्यभिमानवशात्तां गले : निगृह्णाति,। मृतप्रायां तां पराच्छाद्य न्यायालयं गत्वा चारुदत्तेन दरिद्रेण धननिमित्तं वसन्तसेना.हतेति चारुदत्तमभियुक्ति । चारुदत्तो मत्युदण्डन दण्ड्यते । एतस्मिन्नेवान्तरे वसन्तसेना संवाहककृतोपचारेण पॅनरुज्जीविता चारुदत्तं तथाकारितं श्रुत्वा तमनुधावति । तदैवार्थकोऽपिचारपत्रं पालकमतिकर्माणं हत्वा स्वयमेव राजा भवति उद्घोषयति. च चार मोक्षम् । ततश्च कृतपरिणयौ वसन्तसेना चारुदत्तौ सुखेन तिष्ठतः। मृच्छकटिकस्य शैली सरला सरसा च । तत्र हि काले दश्यमाना क्लिष्टता मनागपि नैवालोच्यते । भाषाभावादिदां भाससामोप्यमेव भजते पश्चाद्वतिकाव्यापेक्षया । शूद्रको हिककाराऽपितु सिद्धहस्तः कविश्च । अस्य प्रकरणे नाटकीयता क न्नोभे एवं स्पष्टतया प्रतिभाते । स हि वैदभेरीतः कविः । दृश्यतामस्य काव्यच्छटा मूढे निरन्तरपयोधरया ममैव कान्तः सहाभिरमते यदि किं तवात्र। मा गजितरिति मुहुविनिवारयन्ती मार्गं रुणद्धि । कुपितेव निशा संपली ।[७] तस्य हि वर्षतर्वर्णनं भासस्य सन्ध्यासमयवर्णनेन सह नितान्तमेव साम्यं । भजते । यथा -
गता नाशं तारा उपकृतमसाधाविव जने
वियुक्ताः कान्तेन स्त्रिय इव न राजन्ति ककुभः ।
प्रकामान्तस्तप्तं त्रिदशपतिशस्त्रस्य शिखिना
द्रवीभूतं मन्ये वतति जलरूपेण गगनम् ।।
प्राकृतस्य सप्त भेदा अत्र प्रयुक्ता दृश्यन्ते । ते च शौरसेनी अवन्तिकाप्राच्या-मागधी-शकारी-चाण्डाली-ढक्कीतिसंज्ञिताः। अत्रत्यं हि सामाजिक राजनैतिकञ्च चित्रणं वस्तुतो विलक्षणमेव । मृच्छकटिक हि तादात्यसामाजिकस्थितेरुपहास एवं राजनैतिकास्थिरताया उन्नयनञ्च । एतदतिरिक्त शूद्रकस्य पद्मप्रभृतकभाणोऽपि कृतित्वे कथितः किन्तु ग्रन्थोंऽयं सम्प्रति नैवोपलभ्यः ।
मालविकाग्निमित्रम् अभिज्ञानशाकुन्तलं विक्रमोर्वशीयञ्च
[सम्पादयतु]कालिदासनामश्रवणेनैव रसिकानामन्तस्करणं द्रवतीति कथनेनैव लेशमात्रमप्यत्युक्तिः । काल्या दासोऽयं सर्वानेव सहृदयान् दासीकरोति सरसवचनैः । अस्य हि प्रथितानि त्रीणि रूपकाणि मालविकाग्निमित्रं विक्रमोर्वशीयमभिज्ञानशाकुन्तलञ्च।
महाकवेरस्य देशकालविषये पण्डिता नैकमयं भजन्ते । स्वयञ्च तेन न कुत्रापि तद्विषये किञ्चिन्मात्रमपि सङ्केतितम् । तस्य ग्रन्थानामाभ्यन्तरपरी क्षणेऽपि विषयेऽस्मिन्न कोऽपि प्रकाश उदेति । रूपकव्यतिरिक्तं ह्यस्य सन्ति चत्वारः काव्यग्रन्थाः कुमारसम्भव --रघुवंशमेघदूत ऋतुसहाराभिधाः । किन्तु ते सर्वेऽपि कवेरस्य देशकालविषये स्वं स्वं मृदङ्ग वादयन्ति स्वाभिमते एव ताले । कुमारसम्भवस्य कविर्गन्धमादनस्य कोणे कोणे भ्रमति येन तस्य तत्प्रान्तवासिना सिध्यति । न हि अन्यदेशीयस्तथा वर्णयितुं प्रभवति । यद्यपि कवयः कान्तदशनस्तेषां तथापि क्रान्तदशिताऽपि न तथा यथार्थमाकलयितु प्रभवति । रघुवंशकारस्तु मगधेष्वेव रमते ‘कामं नृपाः सन्तु सदृशोऽन्ये राजन्वतीमाहुरनेन भूमिम्' इति कथनात् । स हि रघोदिग्विजयवर्णनेऽपि मगधान् नैव स्पृशति येन हि तस्य तद्देशीयता सिध्यति । ऋतुसंहारकुत्तु विन्ध्येष्वेव रमते । तेन वणित ऋतुस्वभावा विन्ध्ये एव सम्भवति न तु हिमवत्पाश्र्वे । स हि वैन्ध्यवनं नाम्नापि स्मरति। मेघदूतस्य प्रणेता उज्जयिनीं प्राणाधिकां मन्यते वक़ः पन्या यदपि भवतः प्रस्थितस्योत्तरस्याम्' इत्ति कथनेन । तथैव मालविकाग्निमित्रकृत्कविरात्मानं विशालापक्षपातिनं दर्शयति । स हि पुष्यमित्रं सेनापतिनाम्ना जानाति । तस्याश्वमेधञ्च स्मरति स्मरति च अग्निमित्रपुत्रेण वसुमित्रेण सिन्धुनिवासियवनध्वंसञ्च । विक्रमोर्वशीये स हि महेन्द्रादित्यराजधानीं मालवां पूजयति ।
अभिज्ञानशाकुन्तले कविरात्मानं मालिनीतटें एवं प्रापयति । स हि तत्रत्य भूमि नेत्रसाक्ष्येणेव वर्णयति । विसङ्गत्यामस्यां कतमो देशः कालिदासस्येति वक्तुं नैव पार्यते । तस्य हि ग्रन्थेषु सामान्यमेतावदेव यत्स-शैव आसीदद्वैतमतसमर्थकश्च । तस्य हि सर्वेऽपि ग्रन्थाः केनाऽप्युपायेन पर्वतप्रदेशं स्पृशन्त्येव । एतदाधारेणैतदनुमीयते यत्कालिदासस्य जन्म कश्मीरेभ्य आरभ्य भुतस्थानपर्यन्तं यत्र कुत्रापि पर्वतीयप्रदेशे समभवद्विशेषतस्तत्रापि केदारखण्डे यतः स हि भागीरथीमेव समधिकं वर्णयति । ततश्च स : अग्निमित्र-शदक-विक्रमादित्य सभामपस्थितो दश्यते । एतेषां हि स्थितिकालस्य पूर्वाषरर्वार्तत्वं प्रसिद्धमेव । तत्रापि कालिदासोऽग्निमित्रसभाकविरासीदिति मतं न तथोपयुक्तं प्रतिभाति यतो हि जीवितेऽग्निमित्रे कदापि नाटकस्य नायकतां स नैव स्त्रीकुर्यात्सम्राङ् हि सः । मम्भवति तद्वंशीयस्य कस्यचिद्राज्ञस्तेन सभामत्वं स्त्रीकृतं स्यात् । तथा सत्यपि तस्य विक्रमसभासत्वं नैव सिध्यति । अन्तिमशुगवंश्यस्य नपतेविक्रमादित्यस्य 'समये सामान्यतोऽपि सप्तषष्टिमितवमराणामन्तरम् ।
शुद्रस्य स्थिलिकालोऽपि विक्रमकालात्सप्तविंशतिवर्षपूर्वमनः । नावदेव सम्भवति यत्कालिदासः प्रथमयौवने शुद्रक संसेव्य उत्तरयौवने विक्रमाश्रितवानिति । रचनाप्रौढीदष्टया तदपि न सम्भवति । यतो हि निश्चमेवाभिज्ञानशाकुन्तलं. तव्य चराकृतिमलिविकाग्निमित्रं प्रथमा । तेन हि शाकुन्तलात्पूर्वमेव विक्रमोर्वशीयस्य रचना भवितुमर्हति । विषयप्रस्तावनादष्ट्या । अतोऽस्य तत्वं निहितं गुहायाम् । तेन हि महाजनो येन गतः मपन्था । महाजनास्त्वत्र चतुंर्धा विभक्ता विक्रमानन्तरषष्ठशतकोत्तरार्द्धवादिनः वैक्रमचतुर्थशनकवादिनस्तथैव विक्रमसमकालवादिने विक्रमपूर्वकालवादिनश्च । षष्ठगतकोत्तरार्द्धवादिनो हि यशोवर्माणं वा श्रीहर्ष विक्रमशकत्रवर्तकं तथा च कालिदास तत्संभावं .वं मन्यन्ते। किन्तु मतमिदं वातभवनमेव यतो हि ततः पूर्वमपि मालवगणस्थितिवर्षगणना नैकटयमालम्बते यथाकथञ्चित् । वस्तुतस्तु कालिदासस्य शूद्रकसभाकवित्वमेव सुसङ्गतं दृश्यते तथैव समुद्रगुप्तोऽपि सङ्केतयति स्वीये कृष्णचरिते । स हि रघुवशे रधोईणोपरि विजय वर्णयति किन्तुः रघुणा ये हुणाः पराजितास्ते भारताद्वहिरेवासन् । पारसिकविजयानन्तरं रघुहंणान् व्यजैषीत् । तेन हि हूणानामवस्थितिस्तदा पामीरपाश्र्ववतनी दृश्यते। विक्रमपूर्वद्वितीयशतकमभितो हि हूणा स्तत्रासन्निति पुरावृतविदो वदन्ति । तांश्च शूद्रकः विजित्य वैक्रमशकं प्रावर्तयदिति समुद्रगुप्तस्य कृष्णचरिताज्ज्ञायते । पाण्यानामवस्थितिढूणानां पश्चिमोत्तरप्रान्तवासित्वं, क्षत्रियकान्यानां स्वयंवरविधिरुपनर्मदप्रदेशे द्वैराज्यपद्धतिश्व कालिदासं विक्रमशकप्राग्वतनं साधयन्ति । अथाऽस्य रूपकाणां संक्षिप्तिः परिचयोऽत्रोपस्थाप्यते ।
मालविकाग्निमित्रम्
[सम्पादयतु]नाटकमिदं कालिदासस्य प्रथमकृतित्वेन प्रसिद्धम् । अत्र सन्ति पञ्चाङ्काः । ग्रन्थेऽस्मिन् शुङ्गवंश्यों युवराजः अग्निमित्रो नायको धीरोदात्तप्रकृतिको धीरललितत्वगुणसम्पन्न, नायिका च तथैव मालविकाऽऽख्या विदर्भराजकन्या । निश्चितसम्बन्धों माधवसेनो वैदर्भः स्वभगिनीं मालविकामादाय विदिशां गच्छन्मार्गे यज्ञसेनेन गृहीतो बन्धने निक्षिप्तश्च । सम्भ्रमे प्रणष्टा मालविका वीरसेनेन नर्मदादुर्गरक्षकेण धारिणीनिमित्तं विदिशां प्रेषिता भवति । महामहिषी धारिणी तां नायकतो यथाशक्ति परिहरति किन्तु स तां पश्यति भवंतश्चोभौ परस्परानुरक्तौ । मिलने बाधंक रूपेण धारिणीं मालविका बन्धने निक्षिपतिं किन्तु सर्पदंशच्छलेन विदूषकस्तां मोचयति । एतस्मिन्नन्तरे से निकहस्तक्षेपेण माधवसेनः कारागाराद्विमुच्यते स्थाप्यते च विदर्भेषु माधवसेनयज्ञसेनयोर्दै राज्यम् । प्राप्तपरिचया धारिणी मालविकया संहाग्निमित्रस्य परिणयमनुमन्यते । ततश्च कृतविवाहो नायकः सह प्रेयस्या सुखमेधते इति नाटकस्यास्याधिकारिकवृत्तम् । अत्र हि मुख्यो रसः शृङ्गारोः वीरश्चाङ्गम् । वस्तुतस्तु रूपकमिदं नाटिकाकोटिक किन्तु पञ्चाङ्कप्रणीतत्वान्नाटकत्वेन गृहीतम् ।।
असौ हि कालिदासस्य प्रथमा कृतिः । अत्र हि कविरंनन्तरप्रणीतनाटकापेक्षया न तथा सिद्धहस्तस्तथापि कालिदासस्तु कालिदास एव । तस्ये रचनासौष्ठवं सरसपदावली चात्रापि तथैव येथेतरनाटकेषु तस्य । अस्य हि कवित्वं, घटनासंयोजनं पात्रोपस्थापनादिकञ्च प्रशंसनीयं प्रभावि च। कविः स्वयमेव कथयति यत्सत्स्वपि भाससौमिल्लकविपुत्रादिप्रणीतेषु रूपकेषु रूपकमिदमपि ग्राह्यमेव यतो हि
पुराणमित्येव न साधु सर्वं न चापिकाव्यं नवमित्यवद्यम् ।
सन्तः परीक्ष्यान्यतरद् भजन्ते मूढः परप्रत्ययनेयबुद्धिः ।।[८]
नाटकस्य ग्राह्यतामादाय स कथयति -
देवानामिदमामनन्ति मुनयः शान्तं ऋतुं चाक्षुषं
रुद्रणेदमुमाकरब्यतिकरे स्वाङ्गे विभक्तं द्विधा ।
जैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते
नाट्यं भिन्नरुचेर्जनस्यं बहुधाऽप्येकं समाराधनम् ।।[९]
कथनेऽस्मिन् कविर्भरतप्रणीतनाट्यशास्त्रमक्षरशोऽनुसरति । अत्र हि नाट्याचार्ययोर्हरदत्तगणदासयोरन्योन्यस्पर्धा साधु चित्रिता । सुशिक्षकत्वमधिकृत्य कविः कथयति -
क्लिष्टा क्रिया कस्यचिदात्मसंस्था सङ्क्रान्तिरन्यस्य विशेषयुक्ता।
यस्योभयं साधु स शिक्षकाणां धुरि प्रतिष्ठापयितव्य एव ।।[१०]
अस्य हि प्रसादशिला माधुर्यं गुणमण्डिता भाषा कमपि रसिकं रसयितुं समर्था।
विक्रमोर्वशीयम्
[सम्पादयतु]रचनाकोटिदृष्ट्या रूपकमिदं मालविकाग्निमित्राभिज्ञानशाकुन्तलयोर्मध्यवति । अत्र हि अप्सरस उर्वश्या सह पुरूरवसः प्रेमलीला, वणताऽस्ति । लक्षणदृष्टयेदं त्रोटकम् । अत्रापि पञ्चैवाङ्का । कथानकमिदं ऋग्वेदादौ पुराणेषु चोपवर्पितं पुरूरवस उर्वश्याश्च प्रणयसम्बन्धं कविकल्पनया नवीनत्वेनोद्राव्य प्रस्तुतम् । मेघविद्यदपयोरुभयोः परस्पराश्रयनैवास्य शाङ्गरिकः पक्षः । पुरूरव हि विक्रम विक्रम्य राक्षसोपद्धतामुर्वशीं मोचयति । अन्योन्यविलोकने हिं तयोश्चेतस्यनुराग उद्भवति। पुरूरवसः स्मृत्या भ्रष्टगतिरुवंशी भरतेन. भूतलस्पर्शाय शप्ता भवति पुत्रदर्शनेन शापान्तश्च निश्चीयते । पश्चाच्च शक्रप्रसादेन तयोराजीवनं मिलनं सुनिश्चितं भवति । त्रोटकमिदमन्वर्थसंज्ञम् । ग्रन्थेऽस्मिन् कविः सौन्दर्यवर्णने परमं कौशलं दर्शयति । उर्वशीमादाय स कथयति -
अस्याः सर्गविधौ प्रजापतिरमूच्चन्द्रो नु कान्तिप्रदः
शृङ्गारैकरसः स्वयं नु मदनो मासो/नु पुष्पाकरः ।
वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो
निर्मातं प्रभवेन्मनोरममिदं रूपं पुराणो मुनिः ।।[११]
इतिउर्वशीवियोगे नायकस्य व्यामोह इत्थं वर्णितः -
क्वाकार्यं शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येव सा
दोषाणां प्रशमाय नः श्रुतमदो कोपेऽपि कान्तं मुखम् ।
कि वक्ष्यन्त्यपकल्मशाः कृतधियः स्वप्नेऽपि सा दुर्लभा
चेतः स्वास्थ्यमुबेहि कः खलु युवा धन्योऽधरं वास्यति ।'
कवेरस्य व्यतिरेकच्छटेत्थम् -
अभिरणस्याभरणं, प्रसाधनविधेः प्रसाधनविशेषः ।
उपमानस्याऽपि सखे प्रत्युपमानं वपुस्तस्याः ।।[१२]
स हि सम्भोगावस्थानुकूल्यं विरहावस्थाप्रतिकूल्यञ्चैकत्रैव वर्णयति सुनिपुणम् । यथा -
पादास्त एव शशिनः सुखयन्तिः गात्रं
बाणास्त एव मदनस्य मनोऽनुकुलाः । ।
संरम्भरूक्षमिवः सुन्दरि यद्यदासीत् ।
त्वत्सङ्गमेन मम, तत्तदिवानुनीतम् ॥[१३] इति ग्रन्थेऽस्मिन्काटयवेमटीका प्रसिद्धा ।
अभिज्ञानशाकुन्तलम्
[सम्पादयतु]अभिज्ञानशाकुन्तलं तु न केवलं संस्कृतसाहित्यस्यैवापितु विश्वसाहित्यस्यैव मुकुटायते रचनासौष्ठवदृष्ट्या । मृगयाविहारी पौरंवो हि दुष्यन्तो मालिनीतटस्थितं कण्वाश्रमं प्राप्नोति । तत्र स शकुन्तलां दृष्ट्वा भृशं तस्यामनुरक्तः कण्वस्योपस्थितानेव तां गान्धर्वेण विधिना परिणीय ताञ्चोपभुज्य कृतप्रतिज्ञस्तन्नयनाय राजधानी प्रति निवर्तते । एतस्मिन्नन्तरे शून्यहृदयां शकुन्तलामात्मानमुपोक्षितवतीं मत्वा दुर्वासा यथेच्छांगतस्तां प्रियो विस्मरतीति शपति । सखिभ्यां प्रसादितश्च स प्रणयचिह्नदर्शनाच्छापान्तमपि निदशति । तीर्थयात्रातः प्रत्यागतः कण्वः सुतां दुष्यन्ततेजोधारिणीं ज्ञात्वा तां ग्रहीतुः सकाशं प्रेषयति । राजा तु शापप्रभावात्कृतप्रयत्नोऽपि नैव परिचिनोतितामत एव तिरस्करोति । एतस्मिन्नन्तरे काचिदप्सरोवरा तां मारीचाश्रम प्रापयति । तत्रैव सा तनयं सूयते । आत्रान्तराले धीवरात्प्राप्ताङ्गुलीयको राजा तां स्मरति भवति तंद्विरहेण व्यामुग्धः । शक़साहाय्याय दिवं गत्वा प्रत्यागतः स मारीचाश्रममबतीर्णो बालकं सिंहशिशुना क्रीडन्तं पश्यति । तत्रैव भवति च तयोः पुनर्मिलन शकुन्तलादुष्यन्तयोः।
कथानकमिदं महाभारतादावपि दृश्यते किन्तु तत्र नास्ति सजीवत्वं कथायाम् । कालिदासेन तामेव नीरस कथामादाय स्वप्रतिभया तां.नवत्वेन परिकल्प्य सन्निवेशिनाऽस्ति सा । पुराणेषु शकुन्तला प्रौढायुवतिंदृश्यते । सा हि स्वयमेव सूचितस्वजन्मवृत्तान्ता तत्तनय एव युवराजो भविष्यतीति संविदिं दुष्यन्तस्य पत्नीत्वं स्वीकरोति।, कण्वाश्रमे एव सा तनयं सूते । षड्वर्षवयस्क तमादाय सा प्रतिष्ठानपुरं गच्छति । तत्र दुष्यन्तो जाननपि तां तिरस्करोति लोकवादभिया। ततश्च नभोवाणीप्रेरितस्तां गृह्णाति चोभौ सुखमेधते च।
कालिदासकल्पितकथायां तु शकुन्तला मुग्धा नायिका । सा स्वयमेव नैव किञ्चित्कथयति । स्वजन्मनो वृत्तान्तमपि सा सखीमुखेन ज्ञापयति । गर्भमरालसैव सा पतिगृहं प्रेप्यते कण्वेन । शकुन्तला प्रस्थापनवृत्तान्तं कविना तथा निबद्धं यथा हि तेन मन्ये दृषदपि द्रवत्वमायाति शोकविह्वला । सा च पथि शक्रतीर्थे स्नानसमये दुष्यन्तप्रदत्ताङ्गुलीयकं जले पतितमपि शापप्रभावान्नैव जांनाति । तेनैव सा दुष्यन्ताय स्वपरिचयप्रदानेऽसफला भवत्यत एव तिरस्कृता च । पश्चाच्च धीवरस्तदङ्गुलीयक मत्स्योदरे प्राप्नोति निगृह्यते च तद्विक्रीणझापणे । ततश्च तद्राज्ञे निवेद्यते । राजाऽपि तदृष्ट्वा जागृतस्मृतिः पश्चात्तापेन दह्यमानान्तो भृशमुद्विग्नो भवति । एवं खिन्नचेतसं तं मातलिविदूषकखेदनेन पौरुषाय जागरयति । इत्थं हि तत्र दुर्वासःशापः, शकुन्तलाप्रस्थापनं, अङ्गुलीयकप्रकरणं मालतेरुपस्थितिश्च कवेयजनैव । शाकुन्तलस्य महिमानं तु न कोऽपि लेखन्याऽवतारयितुं प्रभवति । उक्तमेव -
'काव्येषु नाटकं रम्यं तत्र शाकुन्तलं मतम् ।।
तत्रापि च चतुर्थोऽङ्कस्तत्र श्लोकचतुष्टयम् ॥'
एवमेव जर्मनकवेर्गेटे महाभागस्य कथनसारोऽयं -
वासन्तं कुसुमं फलञ्च युगपद् ग्रीष्मस्य सर्वं च यत् ।
यच्चान्यन्मनसो रसायनमतः सन्तर्पणं मोहनम् ।
एकीभूतमभूतपूर्वमथवा स्वर्लोकभूलकंयो-
रैश्वर्यं यदि वाञ्छसि प्रियसखे शाकुन्तलं सेव्यताम् ।।
अथवा वासन्तस्य कुसुमेस्य ग्रैष्मस्य फलस्य वर्षाया हरितत्वस्य, शरदः शोभायाः शिशिरस्य शीतलत्वस्य हेमन्तस्य रमणीयत्वस्य च यदि एकत्रैव युगंपदेव स्पृहा विद्यते तदा शाकुन्तलं सेवनीयम् । अत्र हि दुष्यन्तस्य मृगयाविहारः, कण्वाश्रमदृश्यं, तापसकन्यकानां बाल्यभावः, शकुन्तलाया मुग्धात्वं, दुष्यन्तशकुन्तलयोः प्रेमलीला, पुत्रीपितुरवस्था, पुत्र्याः पतिगृहं प्रति प्रेषणम्, प्रासादव्यवहारः, भरतस्य बाल्यलीला च नितान्तमेव सर्वोत्कृष्टत्वस्य परम निदर्शनम् । मृगयाविहारो यथा-
ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्पन्दने दत्तदृष्टिः
पश्चार्द्धन प्रविष्टः शरपतनर्भयाभूयसा पूर्वकोयम् ।
शष्पैरवलीढः श्रमविवृतभ्रंशिभिः कीर्णवत्र्मा
पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमु प्रयाति ।।
बालसुलभस्नेहो यथा -
आलक्ष्यदन्तमुकुलाननिमित्तहासैरव्यक्तवर्णरमणीयवचः प्रवृत्तीन् ।
अङ्काश्रयप्रणदिनस्तनयान वहन्तो धन्यास्तदङ्गरजसामलिनीभवन्ति ।।[१४]
तापसकन्यकानां मौग्ध्यं यथा-
सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ।
इयमधिकमनोज्ञा बल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ।।
तथैव -
अनाघ्रातं पुष्पं किसलयमलूनं सररुहैरनाविद्धं रत्नं मधु.नवमनास्वादितरसम् ।
अखण्डं पुण्यानां फलमिव च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति विधिः ॥ [१५]
पुत्रीप्रस्थापनसमये पितुरवस्था यथा--
यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया
कण्ठः स्तम्भितहाष्पवत्तिकलषश्चिन्ताजडे दर्शनम् ।
वैक्लव्यं मम तावदीदृशमिदं स्नेहादरण्यौकसः
पीड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखैर्नवैः ॥[१६]
पातुं न प्रथमं व्यवस्यति जलं युष्मास्वसितेषु या
नादत्त प्रियमण्डनाऽपि भवतां स्नेहेन या पल्लवम् ।
आद्य यः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः
सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ।।
भरतस्य बाल्यलीला यथा -
'जुम्भस्व सिंह ! दन्तांस्ते गणयिष्ये । पितुर्वात्सल्यं यथा'
शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्ति सपत्नीजने
भविप्रकृताःपि रोषणतया मा स्म प्रतीपं गमः ।
भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सुकिनी
Zयान्त्येवं गृहिणीपदं युवतृयो वामाः कुलस्याधयः ।।[१७]
वियोगिनो वियोगेजन्यावस्था यथा -
तव कुसुमशरत्वं शीतरश्मित्वमिन्दोः
द्वयमिदमयथार्थं दृश्यते मद्विधेषु ।
विसृजति हिमगरग्निमिन्दुर्मयूखे
स्त्वमपि कुसुमबाणान् वज्रसारीकरोषि ।।[१८]
नायकस्य धीरोदात्तत्वं यथा -
कुमुदान्येव शशाङ्कः सविता बोधयति पङ्कजान्येव ।
वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः ॥[१९]
अयोगशृङ्गारो यथा -
दर्भाङकुरेण चरणः क्षत इत्यकाण्डे तन्वीस्थिता कतिचिदेव पदानि गत्वा ।
आसीद्विवृत्तवदना च विमोचयन्ती . शाखासु बल्कलमशक्तमपि द्रुमाणाम् ।।[२०]
पुत्रीपितुरितिकर्तव्यता यथा -
अस्मान् साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मन-
स्त्वय्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्ति च ताम् ।
सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया
भाग्यायत्तमतः परं न खलु तद्वाच्यं वधुबन्धुभिः ।।
इत्थं हि समुद्धरणे सर्वाण्यपि पद्यान्यस्योद्धतानि भवन्ति । वस्तुतो हि कालिदासीयं प्रत्येक वाक्यं मधुरं कूजति । शकुन्तलां दृष्ट्वा दुष्यन्तश्चिन्तयति -
इदं किलाव्याजमनोहरं वपुस्तपःक्षमं साधयितुं ये इच्छति ।
ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुमृषिर्थ्यवस्यति ।।[२१]
कालिदासो हि संस्कृतसाहित्ये सर्वोत्कृष्टः कविः । तस्य सरसा सरला च शैली सर्वानपि कवीनतिशेते । तस्य प्रतिभोच्चता, भावगाम्भीर्य, अनुभूतिदार्च, प्राञ्जला भाषा, घटनासंयोजनवैलक्षण्यञ्च नान्यत्र प्राप्यम् । स हि वैदर्भ रीतेः कविस्तेन हि तस्य रचना सर्वत्र मधुरा ललिताऽल्पसमस्ता च । यथा हि -
‘सरसिजमनुविद्धं शैवलेनाऽपि रम्यं
मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ।'
तस्य वर्णनाचातुरी तु प्रशंसातिगा। स हि यदेव स्पृशति तदेव नृत्यति सुमधुरम् । यथा हि -
अधरः किसलयरागः कोमलविटपानुकारिणौ बाह ।
कसममिव लोभनीयं यौवनमङ्गेषु सन्नद्धम् ।।[२२]
तस्यच्छन्दसां प्रयोगोऽपि भावानुसारी दृश्यते । स हि शोकं मन्दाक्रान्तया वा वियोगिन्या, गम्भीरभावं स्रग्धरया, सुकोमलभावं मालिन्या वा प्रकट यति । तेनैव तस्य कृतौ भाषाभावयोः सुन्दरः समन्वयो दृश्यते ।
कविरसौ चरित्रचित्रणं नाट्यशास्त्रीयमक्षरशोऽनुसंरति । तस्य हि पात्राणि न कदाऽपि स्वीयां सीमामुल्लङ्घयन्ति। पात्राण्यस्योदात्तभावनया प्रेरितानि सन्ति सर्वत्र ।
तस्य हि पात्राणि विविधक्षेत्रेभ्यो गृहीतान्नि सन्ति । स हि तपोवनं, राजप्रासादं निम्नकोटिकजीवनमपि तथैव स्पृशतिः यंथा तेन तत्रापि कियत्कालमुषितं स्यात् । तपोनिधिरपि कण्वः स्नेहाप्लुतपितुर्भूमिकां दर्शयति । स्पृहयन्नपि दुष्यन्तः परस्त्रीभिया शकुन्तलामपाकरोति । कवित्वभाराकान्तमपि कवेरस्य नाट्यं न कदाप्यौचित्यं जहाति । अनेन हि यत्र यदेवोचित तत्र तदेव निक्षिप्तं दृश्यते । कालिदासरूपकाणां मुख्य प्रयोजनं तु रसव्यञ्जनैव । अतस्तत्र केवलं नग्नशाङ्गरिक वातावरणं नैव दृश्यतेऽपि तु सर्वत्र संयतता समावेशिता । शकुन्तलायामासक्तोऽपि राजा धर्मपथं नैव जेहातीति परमुदाहरणमस्य । कवेरस्य पुरुषपात्रांपेक्षया स्त्रीपात्राणां चित्रणेऽधिकसफलता । तस्य हि प्रेम्णो लक्ष्यमुदात्तगुणतैव न तु कामुकता । तेनैव बाणः कथयति -
'निर्गतासु न वा कस्य कालिदासस्य सूक्तिषु ।
प्रीतिर्मधुरसान्द्राषु मञ्जरीष्विव जायते । इति । तथैव न्यायमञ्जर्यामपि -
अमृतेनेव संसिक्ताश्चन्दनेनेव चचिताः ।
चन्द्रांशुभिरिवोद्धृष्टाः कालिदासस्य सूक्तयः ।।
कथ्यते हि कालिदासस्य कुन्तेश्वरदौत्यं नाम ग्रन्थोऽप्यासीद्यथा क्षेमेन्द्रः स्मरति किन्तु स सम्प्रति नैवोपलभ्यते । सर्वतोमुखप्रतिभाशालिनां किम्मात्रमशोभनम् ।
उभयाभिसारिका
[सम्पादयतु]वररुचिना कविवरेण उभयाभिसारिकासंज्ञको भाणः प्रणीतोऽस्ति । अत्र हि कुबेरदत्तनारायणदत्तयोर्जीवनं वणितमस्ति । ग्रन्थेऽस्मिन् न्याय-साङ्ख्यसिद्धान्ताः प्रतिपादिताः सन्ति तथैव नृत्यकलावर्णनञ्च । अत्र भेासनाटकीया विषेशता लभ्यते ।
वररुचेः कालो नैव सम्यग्ज्ञातः । कथ्यते हि वररुचिनाम्ना द्वौ विचक्षणी प्रसिद्धौ स्तः । एकः कात्यायनो वररुचिः पाणिनीयव्याकरणोपरि वांतिककार: अपरस्तु प्राकृतप्रकाशकारः। द्वितीयो हि वररुचिविक्रेमसमकालीन इति विश्वस्यते । भाणोऽयं द्वितीयवररुचेः सम्भवति । विषयोऽयमधिंकानुसन्धान मपेक्षते ।
शारिपुत्रप्रकरणम्
[सम्पादयतु]अश्वघोषस्यापि शारिपुत्रप्रकरणं नाम रूपकं लूडर्समहोदयप्रयासेन प्राप्त मस्ति । अश्वघोषो हि कनिष्कसभासदिति तस्य स्थितिकालो वैक्रमप्रथमशतकमभितोऽनुमितः । | शारिपुत्रप्रकरणं हि नवाङ्प्रकरणम् । अत्र हि शारिपुत्रस्य मौद्गल्यायनस्य च भगवतो बुद्धस्योपदेशेन बौद्धधर्मग्रहणसम्बद्धा कथा वणताऽस्ति। अत्र यत्र तत्र बौद्धमतसम्बद्धा उपदेशाश्च समावेशिताः सन्ति। अत्र हि भरतवाक्यवर्जी सन्ति सर्वे नाट्यपक्षा व्यवहृताः । सरलया सस्कृतगिरोपनिबद्धेऽस्मिन् ग्रन्थे सन्ति काश्चिद् व्याकरणसम्बद्धाशुद्धयोऽपि । तच्च सर्वं प्राकृतप्रभावात्सञ्जातमित्यनुमीयते । एतदतिरिक्तं हि तस्य द्वे रूपकेऽपि लभ्येते किन्तु खण्डिते नामरहिते च। तत्रैकस्मिन् हि प्रबोधचन्द्रोदये इव, बुद्धिधृतिकीति-बुद्धानां पात्रत्वं दृश्यते । द्वितीये हि मृच्छकटिके इव मगधवती नाम्नीवेश्यायाः कौमुदगन्धाख्यस्य विदूषकस्य च चरितमपि चित्रितमस्ति । कवेरस्य प्राकृतप्रयोगः प्रशंसनीयो दृश्यते । अस्य प्राकृते कतिपये आर्षप्रयोगा अपि दृश्यन्ते ।।
धूर्तविटसंवादः
[सम्पादयतु]ईश्वरदत्तस्य धूर्तविटसंवादो नाम भाणग्रन्थः वैशिकप्रकरणसम्बद्धः । अत्र नान्दी नैव दत्ताऽस्ति । ग्रन्थेऽस्मिन् कुसुमपुरस्य वर्णनं विद्यते । अत्र हि दत्तकः शृङ्गाराचार्यत्वेन स्मृतः किन्तु नैव वात्स्यायनः । एतद्विषये एतदधिकं नैव किञ्चिदपि ज्ञातमस्ति ।
भगवदज्जुकम्
[सम्पादयतु]बोधायनप्रणीत इति भगवदज्जुकसंज्ञकप्रहसनग्रन्थो लभ्यते । केचिदमुं ग्रन्थं महेन्द्रविक्रमप्रणीतमपि मन्यन्ते, यतो हि महेन्द्रविक्रमस्य राज्ञः ६६७ मितविक्रमाब्दे उट्टङ्किते शिलालेखेऽयमपि मत्तविलासप्रहसनेन सहोल्लिखितो दृश्यते । अत्र हि भगवानिति संज्ञितः कश्चिद्योगी यौगिकशक्तिप्रदर्शनार्थमज्जुकाख्यायाः वेश्याया मृतशरीरे परकायप्रवेशं करोति प्रारभते च योगधर्मोपदेशाम् । तदैव अज्जुकाया आत्मा यमराजेन परावर्तितः सन् स्वशरीरं परप्रविष्टं दृष्ट्वा योगिनः शवमेव प्रविशति प्रारभते च शृङ्गारोपदेशाय । ग्रन्थोऽयं लेखकस्य दार्शनिकज्ञानस्य प्रमाणकः ।।
वीणावासवदत्तम्
[सम्पादयतु]अज्ञातकर्तकेऽस्मिन् रूपके सन्ति चत्वारोऽङ्काः । अत्र हि उदयनेन सह वासवदत्ताया वीणावादनशिक्षणसम्बद्धा कथा वर्णिताऽस्ति । ग्रन्थोऽयमपूर्ण एव । अयं हि शैलीदृष्ट्या भासग्रन्थैः सह साम्यं बिभति ।
दामकप्रहसनम्
[सम्पादयतु]ग्रन्थोऽयमपि अज्ञातकर्तृकः । अत्र हि कर्णस्य परशुरामादस्त्रप्राप्तिकथा वणताऽस्ति । कर्णस्य मित्रं दामको नाम । तत्सम्बन्धेनैवास्य नाम दामकमिति ।
कुन्दमाला
[सम्पादयतु]धीरनागापराभिधानस्य दिङ्नागस्य कवेः कुन्दमालाख्यं रूपकं लभ्यते । अत्र हि रामायणस्योत्तरकाण्डगता कथा निबद्धास्ति । ग्रन्थोऽयं षट्स्वङ्केषु विस्तृतः । इदं हि सुखान्तमेव नाटकम् । सीतायाः पवित्रतायां धरित्र्या प्रमाणितायां कुशलवौ हि राजोपराजौ क्रियेते। कविरयं निश्चयमेव बौद्धनैयायिकाद् दिङ्नागाद्भिन्न एव, यतों हिं यदि स बौद्धोऽभविष्यत्तदा नैव कथमपि रामायण कथां समाश्रितोऽभविष्यत् । अस्य भावभाषागुम्फ़नं नितान्तमेव सरलं सरसं भासस्येव स्वाभाविकञ्च। भवभूतिह उत्तररामचरिते ग्रन्थादस्मात्प्रभावितो दृश्यते । भवभूतेः क्लिष्टरचनाऽस्मादुत्तरर्वातन्येव। कविरयमज्ञातदेशकालेष्वन्यतमः । एतदनुमीयते यदसौ कालिदाससमकालिको वा तत्पूर्ववर्त्यपि सम्भवति । अधिकांशसमालोचकास्त्वमुं कालिदासप्रतिपक्षिणं मन्यन्ते । तन्मते 'दिङ्नागानां पथि परिहरन स्थूलहस्तावलेपान्' इति मेघदूते समनुस्मृतो दिङ्नाग एव चेदयमेव नान्यः । अस्यापि नाटकं न कथञ्चिदपि कालिदासरूपकान्न्यूनतरकोटिकम् । विश्वस्यते ह्यस्यान्यान्यपि रूपकाव्यासन यानि हिं. कालेन कवलितानि । अहो । सर्वभक्षिता कालस्य ।
केचित्समालोचको द्विजेन्द्रनाथप्रभृतयस्तु दिङ्नागं भवभूतिप्रभावितमत एव तत्सर्वातनं मन्यन्ते । तेषां मते हि कुन्दमाला राजशेखरेण नैव स्मृता। ग्रन्थोऽयं प्राथम्येन भोजदेवेन (१०७५-११२७ बै०) स्मृतस्ततश्च रामचन्द्रेण नाट्यदर्पणे विश्वनाथेन साहित्यदर्पणे च स्मृतः, किन्तु भोजपूर्ववतिना न केनाऽप्यसौ स्मृत इति । किन्तु न केनाऽप्यनुल्लिखित इति न हि कालनिर्णयस्य दृढ आधारः । सन्त्येतादृशा बहवो ग्रन्था ये खलु पर्वातभिरज्ञाता था ज्ञात्वाऽप्युपेक्षिताश्च । बाणो हि भारवि न स्मरति इति नैव भारवेर्बाणपरर्वातत्वे प्रमाणम् । भाषासौष्ठवदृष्ट्या तु दिङ्नाग एव भवभूतिपूर्ववर्तीति ज्ञायते । निभाल्यतामस्य भाषासौष्ठवमत्र-
एते रुदन्ति हरिणा हरितं विमुच्य हंसाश्च शोकविधुराः करुणं रुदन्ति ।
नृत्यं त्यजन्ति शिखिनोऽपि विलोक्य देवी तिर्यग्गता वरममी न पुनर्मनुष्याः ॥[२३]
एवमेव -
नीतस्तावन्मकरवसतो बन्ध्यतां शैलसेतूः
देवो वह्निर्न च विगुणितः शुद्धिसाक्ष्ये नियुक्तः ।
इक्ष्वाकूणां भुवनमहिता सन्ततिर्नेक्षिता मे
किं किं मोहादहमकरवं मैथिलीं तां निरस्य ।।
तथैव -
'नादः पातालमूलात्प्रभवति, तुमुलं पूरयन्व्योमरन्ध्र
पातक्लिष्टा इवैते दिशि दिशि गिरयो मन्दमन्दाश्चरन्ति ।
बद्धानन्दात्समन्ताल्लवणजलधयो मथ्यमाना इवासन्
सीमामुल्लङ्घ्य वेगादुदनिधिसलिलैः स्वानि वेलावनानि ।'
ईदृशं हि सरलं स्वाभाविकञ्च वर्णनं भवभूतेः क्लिष्टकठोररचनातः प्रभावितं यदि कश्चिन्मन्यते स हि पुष्पमपि पाषाणपोषितं मन्यते एव । स्पष्ट मेव यद्यदि तयोरन्यतमः परमनुवदति तदा निश्चयेन भवभूतिरेव दिङ्नागं न तु दिङ्नागो भवभूतिम् ।।
तेन हि कुन्दमालायाः प्रणयनंकालो विक्रमसमकालो वा तत्पूर्ववतकालः । अत्र हि विदूषकस्योपस्थितिरप्यस्य प्राचीनत्वमेव साधयति न त्वर्वाचीनत्वम् ।
मुद्राराक्षसम्
[सम्पादयतु]राजनीतिगभितरूपकप्रणेतृष्वस्य द्वितीयं स्थानम् । अत्र हि भासस्य प्रतिज्ञायौगन्धरायणस्य स्पष्टमेव प्रभावो दृश्यते । अस्य ‘मुद्राराक्षस' नाम रूपकं प्रसिद्धमस्ति । कवेरस्य स्थितिकालविषयेऽपि पण्डितेषु नैकमत्यं दृश्यते । केचिदमुं प्रथमचन्द्रगुप्तसमकालिकं मत्वा वैक्रमचतुर्थशतकोत्तरार्द्धभवं मन्यन्तेऽपरे तु द्वितीयचन्द्रगुप्तसमसामयिकं मत्वा तं वैक्रमपञ्चमशतकमध्यवतिनं मन्यन्ते । केचित्तु तं दन्तिवर्मणः सभाकवि मत्वा वैक्रमनवमशतकभवमपि समांमनन्ति । तथैव परे तु तमवन्तिवर्मणः सभाकवि मत्वा त वैक्रमषष्ठशेतकंभवमंपि मन्यन्ते । परे तु तं काश्मीरस्यावन्तिवर्मणः सभासदं मत्वा तं वैक्रमदशमशतकमध्यवतनं मन्यन्ते । कथयितारस्तु यत्किञ्चिदपि कथयन्त्येव यतो हि तेषां कार्यमेवे कथनमात्रम्। किन्त्वेतन्नैवावश्यकं यत्तादृशं कथनं सत्यमेव भवतीति । विशाखदत्तः स्वं सामन्तवटेश्वरदत्तपौत्र महाराजपदभाजः पृथोः सुतं कथयति । किन्तु कोऽसौ वटेश्वरः कश्चासौ पृथुरिति तु नैवाद्यापि ज्ञातम् । अपरञ्च भरतवाक्यं हि कविविषये किञ्चित्प्रकाशकं भवति । अत्र हि भरतवाक्यम्-
‘वाराहीमात्मयोनेस्तनुमतनुबलामीस्थितस्यांनुरूपो।
यस्य प्राग्दन्तकोटिं प्रलयपरिगता शिश्रिये भूतधात्री।
म्लेच्छरुवेज्यमाना भुजयुगमधुना पीवर राजमूर्तेः
स श्रीमबन्धुभृत्यश्चिरमवतु महीं पाथि:••••••••••॥'
इत्येतदनन्तरं कुत्रचित् ‘वश्चन्द्रगुप्तः', क्वचित्तु 'वो दन्तिवर्मा', क्वचित्तू ‘वो रन्तिवर्मा', कुत्रचित्तु 'वोऽवन्तिवर्मा' इत्यादिपाठी दृश्यन्ते । तत्तदाधारेण समालोचकैः कवेरस्य कालनिर्णयोऽपि दत्तो दृश्यते । तत्रापि द्वौ चन्द्रगुप्तौ, त्रयो दन्तिवर्मणश्च स्म्रियन्ते । तेषां स्थितिकालश्चेत्थमनुमितः--प्रथमचन्द्रगुप्तस्य श्रीगुप्तपुत्रस्य समुद्रगुप्तपितुः ३७७-३९२ मितवैक्रमाब्दान्तराले, द्वितीयचन्द्रगुप्तस्य ४३२-४७१ मितवैक्रमाब्दान्तराले, अवन्तिवर्मणोरेकस्य कान्यकुब्जेश्वरस्य मौखरिवंशस्य ग्रहवर्मणः पितुः ५२०-५८० मितवैक्रमाब्दान्तराले, काश्मीरस्य राज्ञस्तु ९१२-९४० मितवैक्रमाब्दान्तराले, दन्तिवर्मणस्त्वेकस्य राष्ट्रकूटराज्ञः ६६० मितवैक्रमाब्दमभितः, अपरस्य लाटनरेशंस्य ९०७ मितवैक्र माब्दमभितः, तृतीयस्यं तु पल्लववंश्यस्य ८६०. मितवैक्रमाब्दम- .. भितः । रन्तिवर्मणस्तु कालोऽपि न ज्ञातः । विशाखदत्तो हि कुसुमपुरं सम्पन्ननगररूपेण वर्णयति । वैक्रमसप्तमशतके तु तस्य भग्नावशेषत्वमेव वणितं ह्वेनसागेन ।
वेनसाङ्गो हि चीनदेशीयपर्यटकः ( ६६२-७२१ वै० ) ६८७ मितवैक्रमाब्दमभितः भारतमागत आसीत् । तथ्यमिदं समाश्रित्य केचित्समालोचको विशाखदत्तं तत्पूर्ववतनमेव मन्यन्ते। किन्तु मतमिदं न तथा युक्तियुक्तं प्रतिभाति । स हि कुसुमपुरं त्वैतिहासिकनगरत्वेन वर्णयति यतो हि चन्द्रगुप्तादपि नितान्तपूर्ववतनः शिशुनागस्य समये एव राजधानी राजगहादपसार्य पाटलिपुत्रं नीताऽऽसीत् । कवेरस्य देवीचन्द्रगुप्त नामापरमपि नाटकं लभ्यते, यत्र हि रामगुप्तस्य भ्राता समुद्रगुप्तस्य द्वितीयः पुत्रश्चन्द्रगुप्तो नायकत्वेन वणितोऽस्ति । अतः कवेरस्य प्रथमचन्द्रगुप्तसमकालीनतायास्तु सम्भावनैव नोदेति । तथैव कवेरस्य द्वितीयचन्द्रगुप्तसमकालिकत्वमपि नैव सम्भवति, यतो हि चन्द्रगुप्तः स्वजीवनदशायामेव तथाविधगोपनीयकृत्यप्रकाशनं कदाऽपि नानुमन्येत । राजान्तराश्रयेऽपि तथाविधग्रन्थप्रणयनमसम्भवमेव । एतावत्तु निश्चितमेव यत्कविरसी पाटलिपुत्रं बहु जानाति श्रद्धधाति च तं नगरम् । तस्य निवासिनो व्यवहारं भौगोलिकीञ्च सीमां स साधु जानाति । तेन तेन पाटलिपुत्रवासिना वा तदभिजनेनावश्यमेव भाव्यमेव । अवन्तिवर्माश्रितो वा रन्तिवर्माश्रितो वा दन्तिवमश्रितोऽपि तथाविधं मागधोत्कर्षं वर्णयतीति नैव युक्तियुक्तं प्रतिभाति । तेन कविरसावश्यमेव कस्यापि गुप्तराजस्यैव राजकविः । स हि भगवतो वाराहीं तनुमपि स्मरति या हि गुप्तनृपाणां राजचिह्नमेव । गुप्तनृपेषु स्कन्दगुप्त एवैतादृशः कथ्यते यो हि वैष्णवोऽपि शैवानपि पूजयति स्म । तेन हि हूणाः पश्चिमोत्तरप्रान्ततो बहिनिस्सारिताः शकाश्चोज्जयिनीतः समूलमपसारिताश्च । तेन हि मुद्राराक्षसस्य भरतवाक्ये ‘पार्थिव-स्कन्दगुप्तः' इति पाठो मौलिकः सम्भवति कविरसौ च स्कन्दगुप्तसभासद्, स्कन्दगुप्तो हि देवीचन्द्रगुप्तनाटकनायकभूतस्य चन्द्रगुप्तस्य पौत्रः कुमारगुप्तस्य पुत्रश्च । तथा मते सत्येव कवेर्गुप्तनृपतिस्तवः स्थाने भवति । मौखरिवंश्योऽवन्तिवर्मा स्वयमेव 'गुप्तशासनप्रतिरोधक कथन्नाम मगधप्रशंसंकं कवि तथा सम्पूजयेत् । प्रसिद्धेतिहासिको राजबलपाण्डेयश्च तथ्येवामुं स्वीकरोति निविशेषेण ।।
प्रसङ्गेऽस्मिन्नेतदप्यवधेयं यत्स्कन्दगुप्तस्य भिटारिशिलास्तम्भाभिलेखवाक्यानां मुद्राराक्षसगतवाक्यैः सह साम्यं दृश्यते । यथा हि तत्रत्यानि कानि चिद् वाक्यानि -
१४. हुणैर्यस्य समागतस्य समरे दोभ्य धरा कम्पिता
१५. भीमावर्तरयस्य शत्रुषु शरा":".........
••••••••••••विरचितं प्रख्यापितो दीप्तिदा ।
न द्योंति नभःषु लक्ष्यत इव श्रोत्रेषु गाङ्गध्वनिः ॥ ८ ॥
१०. विचलितकुललक्ष्मीस्तम्भनायोद्यतेन । क्षितिंतलेशंयनीये येने नीता त्रियामा ।
११. समुदितबलकोशान् पुष्यमित्रांश्च जित्वा
क्षितिपचरणपीठे स्थापितो वामपादः ॥ ४ ॥
१२. पितरि दिवमुपेते विप्लुतां वंशलक्ष्मीं :
भुजबलविजितारियैः प्रतिष्ठाप्य भूयः ।
जितमितिपरितोषान्मातरं सास्रनेत्रां
हतरिपुरिवं कृष्णो देवकीमभ्युपेतः ॥ ६ ॥
यद्येष्वेंतेषु मुद्राराक्षसेन सह रचनासाम्यं दृश्यते।
अपरञ्च, महाराजस्य हस्तिनः जबलपुराभिलेखे विशाखदत्तस्योल्लेख दश्यते, यत्र हि विशाखदत्तप्रभृतिभ्योऽग्रहारदानमुल्लिखितम अभिलेखस्या समयः सप्तत्युत्तरैकशतमितगुप्तवत्सरो मतः । यथा हि -
ॐ नमो महादेवाय । स्वस्ति सप्तत्युत्तरेऽब्दशतक( के )गुप्तनृपराज्यभुक्तौ महाज्येष्ठसाम्ब ( संव ) त्सरे फाल्गुण (न ) मासशुक्लपक्षपञ्चम्यां : अस्यान्दिवसपूर्वायां नृपतिपरिव्राजककुलोप( प )न्नेन महाराजदेवाढ्यत्रण। प्ता ( प्त्रा ) महाराजप्रभञ्जननप्त्री श्रीमहाराजदामोदरसुतेन ।
गोसहस्रहस्त्यश्वहिरण्यानेकभूमिप्रदेन गुरुपितृमातृपूजातत्परेणात्यन्तदेवब्राह्मणभक्तेन । नैकसमरशतविजयिना स्ववंशामोदकरेण श्रीमहाराजहस्तिना स्वपुण्याप्यायनार्थं ब्राह्मणकोद्रशर्म-नागशर्म-मातृगुप्त-गङ्गाभद्रस्वामि-धनदत्त-कपिलस्वामि-अग्निशर्म-विष्णुदेव-विशाखदेव-गन्दस्वामि-परितोषशर्म-कृष्णस्वामिदेवशम्र्म रोहशम्र्म-देवशर्म-देवढियदत्तशर्म-मनोरथ-अग्निदत्त'••••'ती'''शर्मरुद्रदत्त-विशाखदत्त::::::मौनविष्णुस्वामि पुनरपि विष्णुदेव-स्वातिगङ्गघोषा(षो)द्यान मधूकगवा:
१७० मितगुप्तवत्सरमभितो मगधेषु भानुगुप्तस्य शासनमासीदिति ज्ञायते बुधगुप्तसुतस्य । यदि ह्ययमेव विशाखदत्तो मुद्राराक्षसस्य कर्ता तदा तु भरतवाक्ये ‘पार्थिवा' भानुगुप्तः इति पाठो मौलिकः सम्भवति । किन्त्वत्रापि विडम्बनाऽस्त्येव । यथा हि प्रस्तावनांवाक्यानुसारं तु से सामन्तपौत्रो महाराजपुत्र इति तस्य राजपुत्रत्वं सिध्यति, यदि तथा स परदत्तमग्रहारं कथं नाम स्वीकुर्यात् । यदि सत्यमेतत्तथाः सति प्रस्तावनावाक्यस्य मिथ्यात्वमेव सिध्यति । तेन हि निश्चयेन तु न किमपि वक्तुं पार्यते, तथापि विशाखदत्तो हि प्रथमकुमारगुप्त-भानुगुप्तयोरन्तरालवतसमये स्थितिमानिति तस्य ४८०५७० मितवैक्रमाब्दाभ्यन्तरे स्थितिकालोऽनुमितः ।
विशाखदत्तस्य हि मुद्राराक्षसम्, देवीचन्द्रगुप्तम, अभिसारिकवञ्चितकम्, राघवनन्दम् इति च चत्वारि रूपकाणि प्रथितानि सन्ति । तेषु हि मुद्राराक्षस प्राथम्येन धनिकस्य दशरूपकावलोके भोजस्य सरस्वतीकण्ठाभरणे च स्मृतं दृश्यते । एवमेव देवीचन्द्रगुप्तं रामचन्द्रस्य नाट्यदर्पणे, अभिसारिकवञ्चितकं त्वभिनवभारव्यामभिनवगुप्तेन शृङ्गारप्रकाशे भोजदेवेन, राघवानन्दं तु सुभाषितसङ्ग्रहेषु च स्मृतं दृश्यते । स्वरूपतश्चरमे द्वे नैव सम्प्रति समुपलभ्येते। देवीचन्द्रगुप्तं हि खण्डितं लभ्यते । अथैतेषां संक्षिप्तः परिचयोऽत्र वय॑ते ।
मुद्राराक्षसम्
[सम्पादयतु]मुद्राराक्षस हौतिहासिक नाटकम् । राजनीतिगभिते नाटकसमंवायेऽस्य द्वितीयं स्थानम् । इदं हि सप्तस्वङ्केषु विभक्तमस्ति । अत्र हि चाणक्यराक्षसयोः कूटनैतिकविलासः साधु वणतोऽस्ति । प्रथमेऽङ्के राक्षससङ्ग्रहायोऽद्यतश्चाणक्यो दृश्यते । चरमेऽङ्के हि राक्षसस्य चन्द्रगुप्तामात्यपदस्वीकारो दशतः । अन्वर्थसंज्ञके रूपकेऽस्मिन् वस्तुतो मुद्रया राक्षसो गृह्यते । तवृत्तञ्चेत्थम्
चाणक्यप्रहितश्चरो यमपटेन क्रीडन् चन्दनदासगृहं प्रविश्य तत्र पतितं राक्षसनामाङ्कितमुद्रां प्राप्नोति समर्पयति च तां चाणक्याय। चाणक्यश्च ततो लेख शकटदासेन कारयित्वा तेन सह क्षपणकं मलयकेतुकटकं प्रेषयति । तेनैव मलयकेतुराक्षसयोर्भेदमुत्पाद्य राक्षसो गृह्यत इति वस्तुतो ग्रन्थोऽयं मुद्राराक्षसम् । ग्रन्थस्यास्य प्रतिपाद्यविषयमधिकृत्य स्वयमेव कविराहितुण्डिकमुखेन कथयति -
‘विरुद्धयोर्भुशमिह मन्त्रिमुख्ययोर्महावने वनगजयोरिवान्तरे।
अनिश्चयादगजवशमेव भीतया गतागतैर्भशमिह खिद्यते श्रिया ।।'[२४]
स हि राजनीति रूपण सह तृलयति । यथा -
'कायपक्षेपमादौ तनुमपि रचयंस्तस्य विस्तारमिच्छन्
बीजानां गर्भितानां फलमतिगहनं गूढमुद्भेदयंश्च ।
कुर्वन् बुद्धया विमर्ष प्रसृतमपि पुनः संहरन कार्यजातं
कर्ता वा नाटकानामिममनुभवति क्लेशमस्मद्विधो वा ॥'[२५]
राजनीतेः स्वरूप निदशन् कविः कथयति--
‘नन्दस्नेहकणाः स्पृशन्ति हृदये भृत्योऽस्ति तद्विद्विषां ।
ये सिक्ताः स्वयमेव 'पाणिपयसा छेद्यास्त एव द्रुमाः ।।
शस्त्रं मित्रशरीरकेषु सरुषा व्यापारणीयं सदा
कार्याणां गतयो विधेरपि न यान्त्यालोचनागौरवम् ।।'[२६]
विशाखदत्तो हि सफलो रूपककारः । यद्यपि तस्य मुद्राराक्षसे नास्ति कालिदासकृताविवं रसपरिपाको नैव च शाङ्गरकी चेष्टा वणिता । तथाप्यस्य तावतैव नाटकीयता नैव क्षता दृश्यते । अत्र हि वीरो रसो मुख्यः शृङ्गारस्तु प्रासङ्गिक एव तथापि रूपकस्यास्य रसपरिपाको न कदापि प्रयोजनम् । इदन्तु घटनाप्रधानरूपकं यत्र हि घटनायाः सजीवं वास्तविकञ्च चित्रणं विद्यते । अत्र हि पौरुषस्य उत्साहस्योर्जस्वितायाश्च चरमः प्रकर्षों विद्यते । अत्र हि स्त्रीपात्राणामभाव एवं। केवलमैकवारं चन्दनदासस्य पत्नी रङ्गमञ्चमुपस्थापिता । रूपकेऽस्मिन् अङ्के दृश्यानां विभाजनं स्पष्टमेव दृश्यते । एतद्विपरीतं भासकालिदासरूपकेषु अङ्कानां दृश्येषु विभाजनं नैव दृश्यते । तत्र तु मुख्यपात्रं हि अड्के प्रारम्भतः समाप्तिपर्यन्तमेव रङ्गमञ्चमुपस्थापितं भवति । रूपकेऽस्मिन् स्वल्प एव शृङ्गारप्रसङ्गः किन्तु राजनैतिकविषयाणां शाङ्गरिकचित्रणमवश्यमेव लभ्यते । यथा हि -
'वामां बाहुलतां निवेश्य शिथिलं कण्ठे विवृत्तानना
स्कन्धे दक्षिणया बलान्निहितयाऽप्यङ्के पतन्त्या मुहुः ।
गाढालिङ्गनसङ्गपीडितसुखं यस्योद्यमाशङ्निी
मौर्यस्योरसि नाधुनाऽपि कुरुते वामेतरं श्रीः स्तनम् ॥'[२७]
‘उपरि घनं घनरटितं दूरे दयिता, किमेतदापतितम् ।
हिमवति दिव्यौषधयः शीर्षे सर्पः समाविष्टः ॥'[२८]
वस्तुतो हि रूपकमिदं घटनाप्रधानं प्रतिज्ञायौगन्धरायणमिव न तु रसपरिपाकपरम् । अस्त्यत्र. वीरोऽपि रसः प्रासङ्गिक एव किन्तु सार्वत्रिकः । अस्य हि शैली प्रवाहयुता ओजस्विनी च । अस्य हि वाक्यानि लघूनि किन्तु सुसंगठितानि । अत्र ह्यलङ्काराणामपि सीमित एव प्रयोगः । अत्र हि सशक्तः प्रभावोत्पादकश्च शब्दविन्यासः नात्र पद्यानां बाहुल्यं यतः कृत्रिमतोत्पद्यत । पद्यापेक्षयाऽत्र गद्यमेवाधिक सशक्तम् । अस्य संलापेषु स्वाभाविकता व्यक्ती । अत्र हि व्यङ्गयार्थे एव श्लेषस्य प्रयोगो दृश्यते । भङ्गयन्तरकथनं ( प्रथमं हि गद्येन यत्कथ्यते तदेव पुनः पद्येनं कथनम् ) अपि दृश्यते बहुधा । तस्य यदा गद्यबन्ध ओजपूर्णस्तदा पद्यबन्धोऽपि लालित्यपूर्णः । चाणक्यकुटीवर्णनं यथा--
उपलशकलमेतभेदक गोमयानां वटुभिरुपहतानां वहिषां स्तोममेतत् ।
शरणमपि समिद्भिः शुष्यमाणाभिराभि विनमितपटलान्तं दृश्यते जीर्णकुड्यम् ।।[२९]
तस्य हि वार्धक्यवर्णनं सर्वातिशायि दृश्यते ।
रूपादीन् विषयान् निरूप्य करणैर्येरात्मलाभस्त्वया ।
लब्धस्तेष्वपि चक्षुरादिषु हताः स्वार्थाबबोधक्रियाः ।।
अङ्गानि प्रसभं त्यजन्ति पटुतामाज्ञाविधेयानि मे ।
न्यस्तं मूनि पदं तवैव ज़रया तृष्णं मुधा माद्यसि ।।[३०]
कालिदासस्तु तत्प्रसङ्गे -
आचार इत्यवहितेन मया गृहीता या वेत्रयष्टिरवरोधगृहेषु राज्ञः ।
काले गते बहुतिथे मम सैव जाता प्रस्थानविक्लवगतेरवलम्बनाथ ॥[३१]
राज्यभीरस्य दुर्वहनीयतामादाय विशाखदत्तः कथयति -
तीक्ष्णादुद्विजते मृदौ परिभवत्रासान्न सन्तिष्ठते
मूर्ख द्वेष्टि न गच्छति प्रणयितामत्यन्तविद्वत्स्वपि ।
शूरेभ्योऽभ्यधिक बिभेत्युपहसत्येकान्तभीरूनहो
श्रीलब्धप्रसरेव वेशवनिता दुःखोपचर्या भृशम् ।।[३२]
कीदृशी सूक्ष्मदशिताऽस्य कवेः । स हि राजसेवकावस्थां मार्मिकभावेन वर्णयति यथा -
'भेतव्यं नृपतेस्ततः सचिवतो राज्ञस्ततो वल्लभा
दन्येभ्यश्च वसन्ति येऽस्य भवने लब्धप्रसादा विटाः ।
दैन्यादुन्मुखदर्शनापलपनैः पिण्डार्थमायास्यतः
सेवा लाघवकारिणीं कृतधियः स्थाने श्ववृत्ति विदुः ॥'[३३]
रूपकस्यास्य नायकश्चाणक्यो यद्यपि फलस्वामी चन्द्रगुप्त एव यतो हि सर्वेऽपि व्यापाराश्चाणक्यमेवाश्रित्य सिध्यन्ति । नाट्यशास्त्रीयपरम्परापालनाये कामं चन्द्रगुप्तस्य नामकत्वमनुभन्येत तथापि कार्योत्कर्षस्तु चाणक्ये एवं पतति । राक्षसो हि विष्णुगुप्तोऽस्य प्रतिनायकः चन्द्रगुप्तनायकपक्षे तु मलयकेतुह पर्वतकपुत्रः प्रतिनायकः । चाणक्यो हि धीरोद्धतप्रकृतिकः श्रोत्रियो ब्राह्मणः । स स्वयमेव कथयति ‘श्रोत्रियाक्षराणि प्रयत्नेन लिखितान्यपि नियतमस्फुटानि भवन्ति' इति । स हि विगततृष्णोऽपि दृढप्रतिज्ञः । चन्द्रगुप्तप्रधानामात्योऽपि स जीर्णकुड्ये एव प्रतिवसति न तस्य राज्यात्किञ्चिद् ग्राह्यमेव । यथा कञ्चुकी कथयति‘निरीहाणामीशस्तृणमिव तिरस्कारविषयः
इति । स खलु राजाधिराजं चन्द्रगुप्तं वृषलशब्देनैव सम्बोधयति न तु चाटुवचोभिः । स हि दृढाशयः । नन्दानुत्खाय चन्द्रगुप्ते राज्यं निवेश्यापि तत्स्थायित्वनिमित्तं प्रयतते राक्षससङ्ग्रहाय । स हि कूटनीतेस्तु मूर्तरूप एवं ।
राक्षसो हि विष्णुगुप्तो जात्या ब्राह्मणः स्वामिभक्तः सेवकः । स हि व्यपेतजीवनमपि स्वामिनं स्मरति प्रयतते च तद्वधप्रतिशोधार्य समनोयोगम् । एतानेव गुणान् विलोक्य चाणक्यः प्रयतते तं हि चन्द्रगुप्ताचव्यग्रहणाय।
चन्द्रगुप्तो हि धीरोदात्तप्रकृतिको राजा । स हि सदाचारी विनयी शिष्टाचारी च । स चाणक्याज्ञां शिरसा बिभति, तदाज्ञयाऽपि तेन सह कृतकवैरायापि कष्टेनैव तत्परो भवति । स हि गुरोराज्ञापालनमेव स्वकर्तव्यं मन्यते न तु वेच्छाचरणम् । | चन्द्रगुप्तविषये हि विशाखदत्तः परस्परप्रतिकलं वाक्यौघं प्रयुनक्ति । एकतस्तु तं स मौर्यपुत्रं मन्यते ‘रक्ताऽसि किं कथय वैरिणि मौर्यपुत्रे' ।[३४] ‘पतिं पापं मौर्यं यदसिं कुलहीनं वृतवती ।'[३५] अपरतः स एव ते नन्दान्वयमपि कथयति । यथा--भागुरायण•••••ततो नन्दकुलभक्त्या ‘नदान्वय एवायम्' इति कृत्वा सुहृज्जनापेक्षया च अमात्यराक्षसश्चन्द्रगुप्तेन सह सन्दधीत । चन्द्रगुप्तोऽपि 'पितृपारम्पर्यागत एवायम्' इति सन्धिमनुमन्येत । ऐतिहासिका अप्यत्र विविधमतयो दृश्यन्ते । केचित्तं नन्दस्यैव मुराख्यायां शूद्रजातीयपत्न्यां जातं मन्यन्ते । परे तु तं पञ्चनदाभिजनं तुच्छक्षत्रियमपि मन्यन्ते । अन्ये तु तं मौर्यगणतन्त्रसम्बद्धमपि । नन्दान्वयत्वं मौर्यपुत्रत्वञ्च चन्द्रगुप्तस्यैतावदेव सूचयतो यद्धि चन्द्रगुप्तो मातृपक्षेण नन्दवशेन सह पितृपक्षेण मौर्यगणेन सह सम्बद्ध आसीत् । मौर्यगणो हि शाक्यक्षत्रियाणामेवैका शाखाऽऽसीद्यो हि हिमवत्पृष्ठमाश्रित्य मयूरव्यापारेणाजीविकां करोति स्म । नन्दकृतापमानेन रुष्टस्तक्षशिलाया आचार्यः चाणक्यस्तं राज्यप्राप्तिलोभेनोत्साह्य नन्दकुलविध्वंसेऽचोदयत् ।
मलयकेतुस्तु तद्विपरीतमुद्दण्डप्रकृतिकः कार्याकार्यविवेकहीनः स्वेच्छाचारी च । स हि सर्वतश्चाणक्यप्रणिधिभिराहतोऽपि स्वं नैव जानाति । राक्षसः स्वयमेव कथयति-
'यो नष्टानपि जीवनाशमधुना शुश्रूषते स्वामिन-
स्तेषां वैरिभिरक्षतः कथमसौ सन्धास्यते राक्षसः ।
इत्थं वस्तुविवेकमूढमतिना म्लेच्छेन नालोचितम् ।
दैवेनोपहतस्य, बुद्धिरथवा पूर्वं विपर्यस्यति ॥'[३६]
अन्येऽपि यानि खलु पात्राणि सन्ति तानि सवण्येव स्वस्वकर्मपरायणानि दृश्यन्ते । नास्त्यत्र कोऽपि प्रमादी वा कर्तव्यच्युतः ।
देवीचन्द्रगुप्तम्
[सम्पादयतु]देवीचन्द्रगुप्तमस्यैव कवेरपरा कृतिः । रचनादृष्ट्या त्विदं प्रथमा कृतिः, अस्य सम्प्रति पञ्चैवाङा लभ्यन्ते। अत्र हि ध्रुवदेव्याश्चन्द्रगुप्तस्य च प्रेमकथा . वणताऽस्ति । शृङ्गारप्रधानेऽप्यस्मिन् नाटके राजनीतिस्तु निहितैव कविना । कथानकं त्वित्थम्- . ...
समुद्रगुप्तस्य सम्राजो ज्येष्ठतनयो रामगुप्तः पितुरनन्तरं मगधसिंहासनमध्यतिष्ठत् । स हि स्वभावेन कातरोऽकर्मण्यश्चासीत् । बलदंपतो हि शकराजस्तं हि समाक्रम्य सन्धये प्रथितस्तन्निमितं तत्पत्नीं ध्रुवदेवीमुपायनरूपेणायाचत । रामगुप्त उपायान्तरमनवेक्ष्य तत्समर्पणाय तत्परोऽभूत् । किन्तु तदनुजो हि. द्वितीयश्चन्द्रगुप्तस्तन्नैवासहत । स हि भ्रातृजायां निरुध्य स्वयमेव तद्वेषेण शकराजशिविरं प्रविश्य तं घातयित्वा सकुशलं प्रत्यागतः । तद्विक्रमप्रीता हि ध्रुवदेवी रामगुप्तमुल्लङ्घ्य चन्द्रगुप्तमेव पतित्वेन वृणुत । एषैव कथाऽत्र सुनिपुणमवतारिताऽस्ति । अस्या एव ध्रुबदेव्या गर्भतः कुमारगुप्तस्य प्रथमस्य जन्म । नटिकमिदं राजनीतिमिश्रितशागरिकम् ।
अभिसारिकावञ्चि( न्धि )तकम् -
[सम्पादयतु]इदमपि ऐतिहासिकं प्रेमाख्यानपरं रूपकम् । अत्र हि वत्सराज उदयनो वासवदत्ता पद्मावती च चित्रिताः सन्ति। रूपकंमिदं सम्प्रति नैवोपलभ्यते । केवलं भोजदेवेन सरस्वतीकण्ठाभरणे स्मृतं दृश्यते ।।
राघवानन्दम्
[सम्पादयतु]रूपकमिदमपि सम्प्रति नैवोपलभ्यते । रामचन्द्रगुणचन्द्राभ्यां नाट्यदर्पणे स्मृतं दृश्यत इदम् ।।
विशाखदत्तो हि संस्कृतरूपकसाहित्ये समुज्ज्वलं नक्षत्रम् । ।
कौमुदीमहोत्सवम्
[सम्पादयतु]पञ्चस्वङ्केषु विभक्तं नाटकमिदं केन प्रणीतमिति सम्प्रत्यंपि नैव ज्ञातम् । अस्य हि चरमो भागः प्रणष्टोऽस्ति तत्र हि चरमे:::::: ‘कया' इति लिखितमस्ति । तेनास्य प्रणेता काचित्कवयित्री प्रतिभाति । सम्भवत्येषा विज्जका वा शीलाभट्टारिकाऽपि । किन्तु विज्जका तु दण्डिनं स्मरति शीला हि गद्यकाव्ये प्रसिद्ध श्लेषप्रंधाने। कथ्यते हि रूपकमिदं ३९७ मितवैक्रमाब्दाभ्यणे कल्याणवर्मणो राज्यारोहणावसरेऽभिनीतमासीत् । अतो हि प्रणेत्राऽस्यापि ३८० मितवैक्रमाब्दमभितः स्थितिमता भाव्यम् । काशीप्रसादस्य मतमिदं प्रमाणान्तरैः पुष्टं न दृश्यते । वरदाचार्यों हि रूपकमिदं वैक्रमचतुर्थशतकोत्तराद्धभ्यर्णे प्रणीतं मन्यते । अस्य कथानकं त्वित्थम्
| मगधराजस्य सुन्दरवर्मणः सेनापतिश्चण्डसेनो मगधशत्रुभिस्सह सन्धाय पाटलिपुत्रमाक्रम्य सुन्दरवर्माणं हत्वा स्वयमेव मगधसिंहासनमधितिष्ठति । सुन्दरवर्मणोऽमात्यो मन्त्रगुप्तः स्वामिपुत्रं कल्याणवर्माणं विन्ध्याटवीषु प्रच्छाद्य रक्षयति । अवसरं प्राप्य मन्त्रगुप्तश्चण्डसेनविरोधे प्रजा उत्साह्य तं घातयति । एतदन्तराले कल्याणवर्मा शूरसेनराजस्य कीर्तिसेनस्य तनयां कीतिमतीं परिणीय कीतिसेनसाहाय्येन मगधसिंहासनं पित्र्यमधिकरोति । तदभिषेकावसरे हि कार्तिकपौर्णमास्यां कौमुदीमहोत्सवः समायोजितो भवति ।
| समालोचका हि चण्डसेनं चन्द्रगुप्तमेव द्वितीयं मन्यन्ते पश्यन्ति च तत्र मुद्राराक्षसस्य प्रभाव केचन अवन्तिसुन्दर्याः प्रभावमपि । किन्तु ३९७ मितवैक्रमाब्दमभितस्तु मगधसिंहासने समुद्रगुप्तस्य प्रथमपुत्रो रामगुप्तः प्रतिष्ठित आसीत् । तत्र कल्याणवर्मप्रभृतीनां तु चर्चेव नास्ति । तथैद कौमुदीमहोत्सवप्रवर्तननिमित्तसूचकमिदं रूपकं मुद्राराक्षसादपि प्राचीनतरं प्रतिभाति । किन्तु तत्रत्यं हि
'शौणकमिव बन्धुमती कुमारमविमारकं कुरङ्गीव ।
अईति कीतिमतीयं कान्तं कल्याणवर्माणम् ॥'[३७]
पद्यमादाय तु तत्रत्यं शौनकबन्धुमतीप्रसङ्गं दण्डिनोऽवन्तिसुन्दरीतः प्रभावितं मत्वा रूपकमिंदं दण्डिनः परवति मन्यन्ते केचित् । सारीकातः कौमुदीमहोत्सवस्य प्रणेतृत्वेन विज्जकैव मता। तेनास्य प्रणयनमपि वैक्रमसप्तमशतकोत्तरार्द्धमभितोऽनुमितः।
मत्तविलांसप्रहसनम्
[सम्पादयतु]पल्लववंश्येन काञ्चीपुराधीशेन सिंहविष्णोः सुतेन महेन्द्रविक्रमेण मत्तविलासाख्यं प्रहसनरूपकं प्रणीतमस्ति । अस्य हि प्रणयनकांलः ६६७ मितवैक्रमाब्दमभितः । अत्र हि काञ्चीपुर्याः नागरिकजीवनं चित्रितमस्ति । ग्रन्येऽस्मिन् बौद्ध-कापालिक-पाशुपतादीनां दुर्व्यवसनग्रस्तत्वं दर्शितं सुनिपुणम् ।
पादताडितकम्
[सम्पादयतु]वैक्रमसप्तमशतकपूर्वाद्धभ्यणे स्थितिमान् श्यामिलकः यो हि.बाणभट्रेन सोमिल इति स्मृतः पादताडितकाख्यं भाणं, प्रणीतवानासीत् । अन्वयनाम्नि ग्रन्थेऽस्मिन् वण्र्यते यद्विष्णुनगाख्यस्य विप्रस्य शिरसि कयाचिद्वेश्यया पादेन प्रहृतम् । तत्प्रायश्चित्तार्थ पृष्टेब्रह्मणैः कथितं यत्तदर्थं स पुनरपस्यापि पादस्य शिरस्येव प्रहारं कारयेदिति । ग्रन्थेऽस्मिन् पाशवाख्यः कश्चित्कविः स्मृतो यं हि. बाणभट्टोऽपि स्मरति । ग्रन्थस्यास्य शैली कादम्बर्याः सह संवादिनी । अत्र हि दत्तकंवात्स्यायनौ नैव स्मृताविति कवेरस्य वात्स्यायनपूर्ववतत्वमपि केचित्कल्पयन्ति । इदमेवानुसृत्य बाणेन मुकुटताडितकं प्रणीतं दृश्यते । तेन ह्यस्य बाणपूर्ववतित्वं तुः सिंत्ययेव । नाटकेऽस्मिन् बौद्धानां सिंहलानां कोणानामान्ध्राणाञ्चोल्लेखो दृश्यते ।
प्रियदर्शिका, रत्नावली, नागानन्दम्
[सम्पादयतु]श्रीहर्षाख्यस्य कवेः सन्ति त्रीणि रूपकाणि प्रसिद्धानि, येषु प्रियदर्शिका रत्नावली च द्वे नाटिके नागानन्दञ्च नाटकम् । भारतीयपरम्परायां सन्ति हि षट हर्षनामधारिणो येषु स्थाण्वीश्वरसम्राट् श्रीहर्षवर्धनः (६६३-७०४ वै०), मालवानरेशस्य सिन्धुराजस्य पिता, (१०२५ वै० ), काश्मीरनरेशः श्रीहर्षः (११४६-११५८ वै० ), कामरूपनरेशः श्रीहर्षः (८१० वै०), नैषधीयचरितमहाकाव्यप्रणेता श्रीहर्षः (१२२५-१२५२ वै० ) च । तथैव काव्यप्रदीपस्य प्रणेतुर्गोविन्दठक्कुरस्य भ्राता श्रीहर्षश्च । रत्नावली हि जयापीडस्य (८१२-८४३ वै०) मन्त्री दामोदरगुप्तः स्वीये कुट्टनीमते स्मरतीति तदनन्तरवतिनः सर्वेऽपि श्रीहर्षाः स्वत एवापास्ताः । तेन हि यदि श्रीहर्ष एव रूपक त्रय्याः प्रणेता मन्यते तदा स्थाण्वीश्वरः श्रीहर्ष एवं तन्निमित्तमवशिष्यते । रूपकत्रय्या अस्याः प्रणेतृविषये सन्ति त्रयो वादाः प्रचलिताः । ते च यथा - रूपकत्रय्या अस्याः प्रणेता श्रीहर्षः, अस्याः प्रणेता धावकाख्यः कश्चिद्विद्वान्, अस्याः प्रणेतारस्त्रयो विभिन्नकवय इति । प्रथममते हि रूपकत्रय्येषा स्थाण्वीश्वरेश्वरश्रीहर्षप्रणीता मन्यते । मतस्यास्य समर्थनेऽधोलिखिततक उपस्थाप्यन्ते -
रूपकत्रय्या अस्याः प्रस्तावनाभागे आसां श्रीहर्षप्रणीतत्वमुक्तमस्ति । यथा प्रियदशिकायां। सूत्रधारः ( परिक्रम्य ) अद्याहं वसन्तोत्सवे सबहुमानमाहूय नानादिग्देशागतेन राज्ञः श्रीहर्षदेवस्य पादपद्मोपजीविना राजसमूहेनोक्तः यथा अस्मत्स्वामिना श्रीहर्षदेवेनापूर्ववस्तुरचनाऽलङ्कृता प्रियदर्शिका नाम नाटिका कृतेत्यस्माभिः श्रोत्रपरम्परया श्रुता। ‘श्रीहर्षों निपुणः कविः परिषदप्येषा गुणग्राहिणी' ( ३ ) तथैव रत्नावल्यां यथा 'प्रियदशका' इत्यस्य स्थाने 'रत्नावली' इति । शेषं पूर्ववदेव । एवमेव नागानन्देऽपि परवतनो भोज़राज-सोढ्डलप्रभृतयः श्रीहर्ष सफलकवित्वेन वर्णयन्ति । . इतसिंहो हि चीनीपर्यटकः श्रीहर्षकृतत्वेन नागानन्दं नाम्नैव स्मरति । स हि श्रीहर्षस्य निधनं पश्चादेव भारतं समागत आसीत् ।
द्वितीयमतानुयायिनः कथयन्ति यदूपकत्रितयमिदं केनचिद् धावकोख्येन कविना प्रणीय श्रीहर्षाद् बहुधनमादाय तन्नाम्ना ख्यापितमिति । मतस्यास्य समर्थको हिं महेश्वरनागेशभट्ट-जयरामवैद्यनाथ-भीमसेन-वामनप्रभृतयः । तेषां तथाचिन्तने आधारस्तु मम्मटस्य 'श्रीहर्षादेर्धावकादीनामिव धनं' इति काव्यप्रकाशवृत्तिरेव तथैव रत्नावलीगता तृतीया नान्दी च विशेषतस्तत्र गतं ‘चन्द्रवपुर्नरेन्द्रचन्द्रः' इति पदञ्च । महेश्वरनागेश-वैद्यनाथजयरामा अपि धावको हि कविः रत्नावलीं प्रणीय श्रीहर्षाय समप्यं बहधनमादावानिति वृद्धोक्ति स्मरन्ति । भीमसेनस्तु सुधासागरे ततोऽप्यधिक ‘श्रीहर्षानिधाद्राज्ञः सकाशाद् धावककविना रत्नावलीनाटिकां कृत्वा महदू धनं प्राप्तमिति प्रसिद्धम् । आदिपदाद्भोजप्रबन्धकारिभिजाद् माघकारिभिर्माघाख्यवैश्याद् बहतरं धनमाप्तमित्याद्युह्यम्' इति कथयति । वामनस्तु धावकस्तनामा कविः । स हि श्रीहर्षनृपनाम्ना रत्नावलीनाम्नीं नाटिकां कृत्वा बह धन लब्धवानिति प्रसिद्धिरुद्द्योतादौ स्पष्टम् । धावकनामा कश्चित्पण्डितः प्राक्परमदरिद्रश्चिन्तामणिनामकमहामन्त्रविशेषोपासनप्रसादेन विचित्रविद्याशाल्यपि निर्धनत्वेन बह क्लिश्यमानः सन् नैषधीयचरिताख्यं शतसर्गात्मक विचित्रं महाकाव्यं विरच्य गुणज्ञशिरोमणि श्रीहर्षनामानं राजानं प्रदश्यं तेनातितष्टाततः प्रतिवर्ष शतसहस्रात्मकरूप्यमुद्रोत्पत्तियोग्य भूमि प्रतिगृह्य तत्काव्ये किन्तु स्वल्पसाम्यमेव कर्तृकत्वं नैव साधयति । येन केनापि प्रणीतं स्यादेतद्धि रूपकत्रितयं वयं परम्परया श्रीहर्षप्रणीतमेव मन्यामहे । अर्थतेषां संक्षेपेण परिचयोऽत्रोपस्थाप्यते ।
प्रियदर्शिका
[सम्पादयतु]इयं हि नाटिका तेन चतुरङ्किका। अत्र हि वत्सराज उदयनो नायकों धीरललितप्रकृतिकः । नायिका च प्रियदर्शिका अङ्गराजपुत्री आरण्यकाऽऽख्या । अत्र हि मुख्यो रसः शृङ्गारो वृत्तिश्चे कौशिकी। अत्र उदयनस्य : पद्मावतीपरिणयनानन्तरावस्था वणिता । विजयसेनो हि प्रधानो राजपुरुषोऽत्र । अङ्गराजो हि दृढवर्मा स्वां दुहितरं प्रियदशकामुदयनाय वत्सराजाय दित्सति । तेन दृढवर्मणा कन्यादाननिमित्तं प्रत्याख्यातः कलिङ्गराजस्तं विक्रम्य निरुणद्धि । सम्भ्रमे तस्मिन्नङ्गराजकाञ्चुकीयः प्रियदर्शिकां तन्मित्रे विन्ध्यशक्तौ निक्षिपति । विन्ध्यशक्तेरुदयनसेनयाविनष्टे विजयसेनस्तामुदयनप्रासादे प्रापयति । तां तत्र विन्ध्यशक्तिदुहितृरूपेण सर्वे जानन्ति । एकदा पुष्पादानप्रसङ्ग तां दृष्ट्वोदयनस्तस्यै स्पृहयति आरच्यते च तन्निमित्तं नाट्यमपि । निद्रावशेन विदूषकेन रहस्ये प्रकाशिते देवी वासवदता तां निगृह्णाति । पश्चाच्च विषयिषेण सोदयनसकाशं प्राप्यते । परिचिता च सा वासवदत्तयोदयनाय पत्नीत्वेन समय॑ते । नाटिकेयं न तथा नाटकीयतामावहति । सम्पूर्णैव घटना कृत्रिमा दृश्यते । घटनासंयोजनाऽपि नातिप्रौढा । तथापि अस्या महत्त्वं न तथा हीनम् । ।
रत्नावली
[सम्पादयतु]इयमपि नाटिका तेनः चतुरङ्किा । अत्र हि सिंहआधिपतेः सुताया रत्नावल्या उदयनस्य च प्रेमप्रसङ्गो वणितोऽस्ति । सिंहलेश्वरसुता हि वत्सराजायोदयनाय पत्नीत्वेन सङ्कल्पिता नौसाधनेन सपरिवारं ट्रेषिता समुद्रे विपद्यते । ततश्च तां कश्चित्कौशाम्बीयो वणिक समुद्धत्य विपदस्तां वत्सराजप्रासादे प्रापयति । सा हि तत्र सागरिकानाम्ना ज्ञायते । ताञ्च वसन्तोत्सवे दृष्ट्वोदयनस्तस्यै स्पृहयति । दैवीव्यवधानेन विनितेऽपि मिलने पश्चात्तस्या एवं प्रसादेन ज्ञातपरिचया सोदयनेन परिणीयते ।
नाटिकेयं प्रियदशकापेक्षया प्राञ्जलतरा । अत्र हि घटनासंयोजनं स्वाभाविकं नाट्यानुरूपञ्च । वर्णनचातुरी चात्र प्रशंस्या ।
नागानन्दम्
[सम्पादयतु]नागानन्दं हि पञ्चाङ्कं नाटकम् । अत्र हि जीमूतवाहनस्यौदार्यं सुनिपुणं चित्रितमस्ति । नाटयेऽस्मिन् मूख्यो रसः शान्तो यद्यपि विषयेऽस्मिन् पण्डितेषु विवादः, नायको जीमूतवाहनो धीरोदात्तः नायिका च मलयवती तथैव । पित्रोः शुश्रूषां वने स्थितो जीमूतवाहनो विषयनिस्पृहोऽपि सिद्धराजमित्रावसोर्भगिनीं मलयवतीं दृष्ट्वा तदासक्तस्तस्यै स्पृहयति । सा तं कामयते । गुरुजनानुज्ञया तयोरुद्वाहः सम्पद्यते । ततो हि नागकुलप्रणाशदुःखितों जीमूतवाहनो गरुडाय शङ्खचूडस्थाने आत्मानं समर्पयति । गरुडोऽपि तं भक्षयन्नपूर्वमास्वादं प्राप्य भक्षणाद्विरमते । एतस्मिन्नन्तरे शङ्खचूडागमनेन सर्वं ज्ञात भवति । गौरी भगवती ते जीवयति भक्षितांश्च नागान् गरुडः पीयूषवर्षया । ततश्च प्राप्तविद्याधरचक्रवतपदो जीमूतवाहनः सह प्रियया सुखमेधते ।। | नाटकमिदं नाट्येतिहासे मूर्धन्यं स्थानमाददाति । अत्रत्यं वृत्तं वृत्तसंयोजन वर्णनचातुर्यं नाटकीयत्वञ्चास्य तथात्वे हेतवः । बोधिसत्त्वचरिताश्रितत्वादप्यस्य ग्राह्यत्वं विशिष्टतमम् । विषयस्यास्थायित्वमत्र तथा प्रतिपादितं यथा प्राकृतोऽपि जनस्तथाचिन्तने प्रेरितो भवति । एषु हि रत्नावली लक्षणशास्त्रिभिर्धनिकविश्वनाथप्रभृतिभिः नाट्यशास्त्रलक्षणसम्मतेति सादरमुद्धृता दृश्यते ।। श्रीहर्षस्य शैली सरला सरसा वैदर्भीप्राधान्या च । आस्वाद्यतामस्य काव्यामृतस्वादो यथा---
उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणा
दायासं श्वसनोद्गमै रविरतैरातन्वतीमात्मनः ।
अद्योद्यानलतामियां समदनां नारीमिवान्यां ध्रुवां
पश्यन् कोपविपाटलद्युतिमुखे देव्याः करिष्याम्यहम् ।।
सम्भरेण शृङ्गारवर्णनं यथा नागानन्दे -
दृष्टा दृष्टिमधो ददाति कुरुते नालापमाभाषिता
शय्यायां परिवत्य तिष्ठति बलादालिङ्गिता वेपते ।
निर्यान्तीषु सखीषु वासभवनान्निर्गन्तुमेवेहते
जाता वामतयैव मेऽद्य सुतरां प्रीत्यै नवोढा प्रिया ॥( ३।४)
औत्सुक्येन कृतत्वरा सह्भुवा व्यावर्तमांना हिया
तैस्तैर्बन्धुवधूजनस्य वचनैनताभिमुख्यं पुनः ।
दृष्ट्वाऽत्रे वरमात्तसाध्वसरसा गौरी नवे सङ्गमे ।
संरोहत्फलका हरेण हसता क्लिष्टा शिवायाऽस्तु वः ।।[३८]
बर्णनानैपुण्यं यथा -
व्यक्तिय॑ञ्जनधीतुना दशविधेनाऽप्यत्र लब्धामुना
विस्पष्टो द्रुतमध्यलम्बितपरिच्छिन्नस्त्रिधाऽयं लयः ।।
गोपच्छप्रमुखाः क्रमेण यतयस्त्रिस्रोऽपि सम्पादिताः
तत्त्वौधानुगताश्च वाद्यविधयः सम्यक्त्रयो दशिताः ।।[३९]
प्रियदशिकायां रत्नावल्याञ्च मालविकाग्निमित्रस्य प्रभावो दृश्यते किन्त्वत्र तयोमौलिकता नैवोपहता। नागानन्दं तु स्वप्रकृतिकं प्रथममेव रूपकं यत्र हि मूतमदौदार्यमेव तत्र नायकत्वेन वणितम् ।।
वेणीसंहारम्
[सम्पादयतु]भट्टनारायणस्य वेणीसंहारं हि सर्वलक्षणोपेतं शास्त्रीयनाटकम् । भट्ट नारायणोऽपि संस्कृतपरम्परेतरकविरिव 'स्वजीवनविषये नितान्तमेव मौनमालम्बते । वेणीसंहारं हि वैक्रमाष्टमशतकोत्तरार्द्धभवो वामनः काव्यालङ्कारसूत्राणां वृत्तौ स्मरति इति कवेरस्यं तत्पूर्ववतित्वं सिध्यति । स हि सहोक्त्यलङ्कारोदाहरणे --‘अस्तं भास्वान् प्रयातः सह रिपुभिरयं संल्लियन्ता बलानि इति मुद्राराक्षसगतम्य[४०] पद्यस्यान्तिमं पदमुद्धरति । एवमेवानन्दवर्धनः तृतीयोद्योतस्य द्वादशतमकारिकाया वृत्तौ “यथा वेणीसंहारे विलासाख्यस्य प्रतिमुखसन्ध्यङ्गस्य प्रकृतरसनिबन्धनाननुगुणमपि द्वितीयेङ्के भरतमतानुसरणमात्रेच्छया घटनम्” इति स्मरति । आनन्दवर्धनो हि ९०७ मितवैक्रमाब्दमभितः स्थितिमान् । अतो हि भट्टनारायणस्य वैक्रमसप्तमशतकमभितः स्थितिकालः स्पष्टः । असौ हि बाणसमकालिको वा ततोऽपि किञ्चिकालपूर्ववर्ती । तं हि दण्ड्याचार्यः अवन्तिसुन्दरीकथायां “व्याप्तुं पदत्रयेणाऽपि यः शक्तो भुवनत्रयम् । तस्य काव्यत्रयव्याप्तौ चित्रं नारायणस्य किम् ।।" इति कथयित्वा भट्टनारायणस्य काव्यत्रयं स्मरति ।।
कथ्यते हि भट्टनारायणो जन्मना कान्यकुब्जीयो ब्राह्मणः पश्चाद्वङ्गनरेशानुरोधेन वङ्गदेशमाश्रितवान् । राजा चायं ७२८ मितवैक्रमाब्दमभितः स्थितिमानासीत् आदिशूराख्यः। भट्टनारायणो हि वङ्गीयठाकूरवंशस्य प्रतिष्ठापकः स्मृतः । असौ हि भट्टः मृगराजलक्ष्माऽप्यासीत् । तत्र प्रथमेन विप्रत्वं द्वितीयेन क्षत्रियत्वं सिध्यति । सम्भंवति ब्राह्मणोऽसौ तीक्ष्णबुद्धित्वाद्राजकार्ये प्राधिकृतः मृगराजलक्ष्मविभूषणं प्राप्तवान् ।
वेणीसंहारं ह्यस्य केवला समुपलभ्यमाना कृतिः । अत्र हि षट्स्वङ्केषु महाभारतयुद्धसम्बद्धा कथा चित्रिताऽस्ति । नाटकमिदं वेणीसंहारमिति अन्वथेनाम । दुर्योधनवधानन्तरमेव केशप्रसाधनाय कृतप्रतिज्ञा दौपदी अवेणिकैव तिष्ठति । दुर्योधनशोणितशोणपाणिर्मीमो द्रौपदीकचानतंसयतीत्यस्य वेणीसंहारं नाम यथार्थम् । अत्र हि वीरो रसो मुख्यः शृङ्गारश्चाङगी । अत्र सवेऽपि नाटकसन्धयः सन्ध्यङ्गसहिताः यथायोगे समुपन्यस्ता सन्ति । तथाकरण हि युद्धप्रकरणे विलासाख्यसन्ध्यङ्गनिर्वहणाय प्रस्तुतो भानुमतीदुर्योधनप्रेमाचारो नैव रसपुष्टयै भवतीति ध्वनिकारेण पर्यालोचितम्-सन्धिसन्ध्यङ्ग-घटनं रसाभिव्यक्त्यपेक्षया । न तु केवलय शास्त्रस्थितिसम्पादनेच्छया इति ।[४१] अत्र हि पात्राणामपि द्वे अवस्थे दृश्येते कविचालिता स्वतःसिद्धा च । अश्वस्थामा हि कर्णापेक्षया प्रशस्यतरः सम्पाद्यतेः कविना। तथैव दुर्योधनापेक्षया भीमस्य । रूपकमिदं गौडीरीत्या ग्रथितं यत्र ह्योजोगुणः प्राशस्त्येनाधीयते । पात्राणां स्वतन्त्रव्यक्तित्वमस्य वैशिष्ट्येष्वेकम् । अत्र हि भीमो नायको दुर्योधनः प्रतिनायकश्च किन्तु कवेः पक्षपातस्तु भीमेऽपि नैव स्पष्टं प्रतिभाति तथापि स एव वेण्याः संहारं करोतीति स एव फलस्वामी मतः । तथा हि सति नाटकमिदं सुखान्तं भवति । दुर्योधनस्य नायकत्वेऽनुमते, यथा हि केचित्तथाप्यामनन्ति नाट्यमिदं दुःखान्तं सम्पद्यते। दुर्योधनकारणेनैव नाटकवृत्तं रोचकं सर्वग्राह्यञ्च सञ्जातमस्तीति तेषामभिमतम् । कवेरस्य भाषा प्रवाहमयी सरसा ओजोगुणव्याप्ता च । तस्य तु सुरतवर्णनेऽप्योज एव प्राधान्येनोपतिष्ठते । अस्य हि वर्णनाचातुरी सर्वातिशायिनी । तत्र ओजसः स्थित्यपि प्रायोऽल्पसमासे एव दृश्यते । यथा--
‘यो यः शस्त्रं बिर्भात स्वभुजगुरुमदः पाण्डवीनां चमूनां,
यो यः पञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा।
यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः
क्रोधान्धस्तस्य तस्य स्वयमपि जगतामन्तकस्यान्तकोऽहम् ॥[४२]
दीर्घसमासमण्डितपदैरोजो यथा -
चञ्चभुजभ्रमितचण्डंगदाभिघात-
सञ्चूणतोरुयुगलस्य सुयोधनस्य ।।
स्त्यानावनद्धघनशोभितशोणपाणि
रुतंसयिष्यति कचांस्तव देवि ! भीमः ।।[४३]
रूपकेऽस्मिन् सन्धिप्रस्तावविरोधे भीमस्यं प्रतिक्रिया यथा प्रथमेऽङ्के--
‘मथ्नामि कौरवशतं समरे न कोपाद्
दुश्शासनस्य रुधिरं न पिबाम्युरस्तः ।
सञ्चूर्णयामि गदया. न सुयोधनोरू
सन्धि करोतु भवतां नृपतिः पणेन ॥[४४] इत्यादि,
दुर्योधनभानुमंतीप्रेमप्रसङ्गो यथा द्वितीयेऽङ्के---
किं कण्ठे शिथिलीकृतो भुजलतापाशः प्रमादान्मया
निद्राच्छेदविवर्तनेष्वभिमुखी नाद्यासि संम्भाविता ।।
अन्यस्त्रीजनसङथालचुरहं स्वप्नै त्वया लक्षित
दोषं पश्यसि के प्रिये परिजनोपालम्भयोग्ये मयि ॥ [४५]
इत्यादि । अश्वत्थामकर्णविवादो यथा तृतीयेऽङ्के -
कथमपि न निषिद्धो दुःखिना भीरुणा वा
द्रुपदतनयपाणिस्तेन पित्रा ममाद्य ।
त्व भुजबलदर्पाध्याययानस्य वामः
शिरसि चरण एष न्यस्यते वारयैनम् ।।[४६] इत्यादि ।
तत्रैव भीमस्य गर्जनं यथा -
कृष्टा येन शिरोरुहे नृपशुना पाञ्चालराजात्मजा
येनास्याः परिधानमप्यहृतं राज्ञां गुरूणां पुरः ।
यस्योरःस्थलशोणितासवमह पातुं प्रतिज्ञातवान्
सोऽयं मद्भुजपञ्जरे निपतितः संरक्ष्यतां कौरवाः ।।[४७] इत्यादि । पञ्चमेऽङ्के भीमार्जुनयोधृतराष्ट्र प्रति वाक्यं यथा--
सकलरिपुजयाशा यत्र बद्धा सुतैस्ते
तणमिव परिभतो यस्य गर्वेण लोकः ।
रणशिरसि निहन्ता तस्य राधासुतस्य
प्रणमति पितरौ वां मध्यमः पाण्डवोऽयम् ॥[४८] इत्णादि । भीमस्य विजयोद्घोषो यथा...
भूमौ क्षिप्तं शरीरं निहतमिदमसृक्चन्दनाभं निजाङ्गे
लक्ष्मीरायें निषण्णा चतुरुदधिपयःसीमया सार्धमुव्र्यो ।
भृत्या पित्राणि योधाः कुरुकुलमखिलं दाधयेतद्रणाग्नौ
नामैकं यब्रवीषि क्षितिप तदधुना धार्तराष्ट्रस्य शेषम् ।।[४९]
तथैव -
नाहं रक्षो न भूतो रिपुरुधिरजलप्लाविताङ्गः प्रकामं
निस्तीर्णोरुप्रतिज्ञाजलनिधिगहनः क्रोधनः क्षत्रियोऽस्मि ।
भोः भो राजन्यवीराः समरशिखिशिखादग्धशेषाः कृतं व
स्त्रासेनानेन लीनैर्हतकरितुरगान्तहतैरास्यते यत् ॥[५०]
इत्यादि च निकाममेव नाटकस्यास्योत्कर्षतामादधति । यच्च विलासाख्य सन्ध्यङ्गस्य युद्धमुखे सन्निवेश आनन्दवर्धनमम्मटविश्वनाथादिभिर्दोषत्व गहीतस्तत्र हि प्रत्यालोचकाः इदमप्यामनन्ति यद् दुर्योधनस्य नायक स्वीकृते तत्पतनतीव्रताद्योतकहेतुना सन्ध्यङ्गमिदं प्रासङ्गिकमेव ।।
आश्चर्यचूडामणिः
[सम्पादयतु]शङ्कराचार्य शिष्यपरम्परायामन्यतमन शक्तिभद्रेण आश्चर्यचडामणिनाम सप्ताङ्कं नाटकं प्राणायि । अद्भुतरसप्रधानेऽस्मिन्नाटके आश्रमवासिप्रदत्त-रत्नसाहाय्येन रामो हि. राक्षसप्रयुक्तमायातः स्वं राक्षितुं प्रभवतीत्यस्य संज्ञा ऽऽश्चर्यचूडामणि इति । अस्य कवेः स्थितिकालः ७६५ मितवैक्रमाब्दमभितो मतः । अस्यैव कवेः 'उन्मादवासवदत' नाम नाटकान्तरमपि आसीदिति नाटकस्यास्य प्रस्तावनातो ज्ञायते किन्तु तत्सम्प्रति नैवोपलभ्यते ।
रामाभ्युदयम्
[सम्पादयतु]कान्यकुब्जेश्वरो हि यशोवर्मा रामाभ्युदयसंज्ञक नाटकं प्रणीतवानासीत् । अस्य च स्थितिकालः ७६०-७९० मितवैक्रमाब्दानभितो मतः । नाटकमिदं षडङ्कं भावभाषादृष्ट्या प्रशस्यतमञ्च । शारदातनयः स्मरति -
‘षडङ्कं दृश्यते लोके रामाभ्युदयनाटकम् । इति । अस्य हि कवित्वं रसोदञ्चितम् । यथा हि क्षेमेन्द्रः सुवृत्ततिलके समुधृतं पद्यम्--
यत्वन्नेत्रसमानकान्तिसलिले मग्नं तदिन्दीवरं
मेघेरन्तरितः प्रिये ! तव मुखच्छायानुकारी शशी।
येऽपि त्वद्गमनानुकारिगतयस्ते राजहंसा गती
स्त्वत्सादृश्यविनोदमात्रमपि मे देवेन न क्षम्यते ।।[५१]
तत्रैव साक्षेपों यथा यशोवर्मणः -
स यस्य दशकन्धरं कृतवतोऽपि कक्षान्तरे
गतः स्फुटमवध्यतामधिपयोधि सन्ध्यो विधिः ।
तदात्मज इहाङ्गदः प्रहित एव सौमित्रिणा
- क्व स क्व स दशाननो ननु निवेद्यतां राक्षसाः ॥[५२]
ध्वनिकार आनन्दवर्धनोऽस्य निम्नाङ्कितं पद्यमुद्धरति -
रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणैः ।
त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि ।
कान्तापादतलाहतिस्तव, मुदे तद्वन्ममाप्यावयोः |
सर्व तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ।।[५३]
ध्वन्यालोकस्य लोचनेऽभिनवगुप्तः स्मरति-... ‘यदुक्तं कथामार्गे न चातिक्रमः, इति रामाभ्युदये यशोवर्मणा' इति । काव्यस्यास्य विलोपः संस्कृतजगतोऽपूरणीय क्षतिरेव । ।
उत्तररामचरितं, महावीरचरितं, मालतीमाधवम्
[सम्पादयतु]संस्कृतनाट्यपरम्परायां भवभूतेः प्रवेशः सौभाग्याय समपद्यत । यद्यपि समालोचकाः ‘उत्तरे रामचरिते भवभूतिविशिष्यते' इति समामनन्ति तथा प्यस्य सर्वा अपि कृतयो विशिष्टा एव । भवभूतिहि कान्यकुब्जेश्वरस्य यशोवर्मणः सभापण्डित आसीदिति राजतरङ्गिण्या :-.
'कविवाक्पतिराजश्रीभवभूत्यादिसेवितः ।।
जितो पयौ यशोवर्मा तद्गुणस्तुतिवन्दिताम् ।।[५४] इति वचनोज्ज्ञायते ।
तदनुसारेण यशोवर्मा ७९० मितवैक्रमाब्दे काश्मीरनरेशेन लाटादित्येन विजित आसीत् । वामनाचार्यः ( ८५७ वै० ) भवभूतेमहावीरचरिताद्-
'दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यतष्टङ्कारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः।
द्राक्पर्यस्तकपालसम्पुटमिलद्ब्रह्माण्डभाण्डोदरभ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति ।।[५५] इति पद्यमुद्धरति ।
तेन हि भवभूतेर्वामनपूर्ववर्तित्वं सिध्यति । तथैव बाणभट्टो हर्षसभाकविस्तं न स्मरति । बाणो हि ७१५ मितवैक्रमाब्दाभ्यणे स्वर्गतः इति बाणवामनमध्यवर्ती अर्थात् ७५०-८०० मितवैक्रमाब्दान्तरालवर्ती काल एव भवभूतेः स्थितिकाल इति पर्यवस्यति । तथैव यशोवर्मण एवं सभाकविर्वाक्पतिराजः--
‘भवभूतिजलधिनिर्गतकाव्यामृतरसकणा इव स्फुरन्ति ।
यस्य विशेष अद्यापि विकटेषु, कथानिवेशेषु ।' इति तं स्मरति ।
अत्रत्यः ‘अद्यापि' शब्दो भवभूतेर्वाक्पतिराजपूर्ववतत्वं सूचयति। वाक्पतिराजस्य गउडवहो काव्यमवश्यमेव ७९७ मितवैक्रमाब्दपूर्वमेव प्रणीतमासीत्, यतो हि इदमपूर्णमेव वर्तते । सम्भवतो यशोवर्मणो ललितादित्यात्पराजयानन्तरमस्य प्रणयनं निरुद्धम् । तेन हि यदा ‘गउडवहो' काव्यं प्रणीयमानमासीत्तदा भवभूतिः परां प्रसिद्धिमवाप्तवानासीदिति स्पष्टमेव बाणवाक्पतिराजयोरन्तराले तस्य स्थितिकोलः ।
सौभाग्यवशाद्भवभूतिहर्मालतीमाधवमहावीरचरितप्रस्तावनायां स्वपरिचयं प्रस्तौति । तदनुसारेण स हि विदर्भस्थपद्मपुराभिजनः तैत्तिरीयशाखाध्यायी उदुम्बरवंश्यस्य विप्रस्य भट्टगोपालख्यस्य पौत्रः नीलकण्ठाख्यस्य पुत्रः जातकण्यख्यायां जातः । तस्य हि प्रारम्भिकं नाम श्रीकण्ठः पाचच भवभतीत्याख्यया प्रसिद्धः । कथ्यते हि तस्ये ‘साम्बा पुनातु भवभूतिपवित्रमतिः' गिरिजायाः कुचौ वन्दे भवभूतिसिताननौ' इति पद्यांशद्वयाधारेण हि स भवभूतिसंज्ञामवाप । केचिद्भवभूति कुमारिलभट्टशिष्यादुम्बेकाचार्यादभिन्नं मन्यन्ते । विषयोऽयं समधिकानुसन्धानमपेक्षते । स हि उज्जयिनीवास्तव्य आसीदिति तस्य प्रबन्धेषु कालप्रियनाथस्योल्लेखाज्ज्ञायते। भवभूतिहि नाट्यान्येतानि अभिनयार्थमेव प्रणीतवानिति तस्य निसर्गसौहृदेन भरतेषु वर्तमानः इति कथनाज्ज्ञायते । तस्य गुरुर्ज्ञानसागरो ज्ञाननिधिरासीदिति 'यथार्थनामा भगवान् यस्य ज्ञाननिधिर्गुरुः' इतिकथनासिध्यति । बालरामायणे राजशेखरः स्मरति
‘बभूव वल्मीकभवः कविः पुरा ततः प्रपेदे भुवि भर्तृमेण्ठताम् ।।
स्थितः पुनर्यो भवभूतिरेखयाः स वर्तते सम्प्रति राजशेखरः॥ इति ।
राजशेखरस्य स्थितिकालस्तु ९५० मितवैक्रमाब्दमभितः स्मृतः । भवभूतेरुपर्युक्तरूपकत्रितयातिरिक्तं, अभिराममप्याख्यममोघराघवाख्यं महावीरानन्दाख्यं च रूपकं स्मर्यते । भवभूतेहि त्रिषु रूपकेषु कतमप्रथममित्यपेक्षायां सर्वेऽपि उत्तररामचरितस्य चरमत्वं त्वामनन्त्येव किन्तु शेषयोः कतरः प्रथम. इत्यपेक्षायां परस्पर विरोधिमतं दृश्यते । केचिद्धि मालतीमाधवगतमु –
‘ये नाम केचिदिह नः प्रथमन्त्यवज्ञां जानन्तु ते किमपि तान्प्रति नैष यत्नः ।
उत्पत्स्यते मम तु कोऽपि समानधर्मा कालो ह्ययं निरवधिविपुला च पृथ्वी॥
इति पद्यं हि पूर्वरचनातिरस्कारुप्रतिक्रियास्वरूपं मत्वा महावीरचरितमेव प्रथमां कृति मन्यन्ते । किन्तु तन्न युक्तियुक्तं प्रतिभाति । त्रिषु रूपकेषु शृङ्गार वीर-करुणरसाः प्राधान्येनावलम्बिताः । तेन हि रचनाक्रमेणापि तदनुवतिनैव भाव्यम् । अती मालतीमाधवमेव प्रथमा कृतिरित्यपरे। वस्तुतस्तु मतमिदं तथ्यसन्निकर्ष स्पृशतिः । मालतीमाधवं हि शृङ्गाररसप्रधानं प्रकरणमवश्यमेव कवेर्नवयौवनोत्साहस्य प्रतीकम् । ७७० मितवैक्रमाब्दमभितो यशोवर्मा राज्यमवाप । भवभूतिहि तस्य न केवलं सभापण्डितोऽपि तु गुरुरप्यासीत् । तस्य रामाभ्युदयं नाटकं भवभूतेः कृतितः भावभाषादिविषये प्रभावितं दृश्यते समुपलब्धश्लोकमूल्याङ्कनतः । सम्भवति एतद्यन्मालतीमाधवं हि यशोवर्मराज्याभिषेकसमयेऽभिनीतमपि । वस्तुतस्तु ग्रन्थोऽयं भवभूतेर्यशोवर्मण आश्रयग्रहणात्पूर्वमेव प्रणीतमासीदिति तस्य दाक्षिणात्यमृष्टभूमितो ज्ञायते तत आयाति वीररसप्रधानस्य महावीरचरितस्य क्रमः । ग्रन्थोऽयं यशोवर्मणो विजयमाधत्य कविना प्रणीतं प्रतिभाति वीररसमादाय । ततश्च क्रम उत्तररामचरितस्य करुणरसमुख्यस्य । ग्रन्थोऽयं कविना चरमे वयसि प्रणीतो मनोविनोदाय स्वकीयजीवनस्योतरार्द्ध यशोवर्मणश्च पराजयं मनस्याधायं । अथैतेषां संक्षिप्तः परिचयोऽत्र दीयते ।।
मालतीमाधवम्
[सम्पादयतु]ग्रन्थोऽयं दशाङ्केषु विभक्तः प्रकरणसंज्ञको वृत्तस्यास्य कविकल्पितत्वात् । अत्र हि पद्मावतीनरेशस्य मन्त्रिणो भूरिवसोः पुत्र्या मालत्याः विदर्भराजमन्त्रिणो देवरातस्य सुतस्य माधवस्य च प्रेमकथा वणताऽस्ति । भूरिवसुदेवरातौ प्रथमे वयसि सतीयवास्ताम् । तदैव तौ प्रतिज्ञातवन्तौ यत्तयोरपत्ययोर्वैवाहिकसम्बन्धो भविष्यतीति । यदा मालती परिणययोग्या जाता तदा राजविदूषको नन्दनस्तस्यै स्पृहयामास । याचितः किन्तु प्रत्याख्यातो नन्दनो तद्राज्ञे विनिवेद्य तेन भूरिवसु कन्यादानायाज्ञापितवान् । राजाज्ञाभङ्गभयेन भूरिवसुरनिच्छुकोऽपि यथाकथञ्चित्तत्स्वीकृतवान् । एतदन्तरे तत्प्रतिज्ञां ज्ञातवती भिक्षुकी कामन्दकी स्वशिष्यया सह सम्भूय मालतीमाधवयोः साक्षात्कारं कारितदती। प्रथमदर्शनेनैव मालती माधवश्च परस्परमनुरागसूत्रेणाबद्धौ सञ्जातौ । माधवो हि पद्मावत्यां न्यायशास्त्राध्ययनाय प्रेषित आसीद् देवरातेन । एतदन्तरे अघोरघण्टो नाम कश्चित्कापालिकः स्वशिष्यया कपालकुण्डलयो सम्भूय बलिदानार्थं मालतीमाजहार चौर्येण । तामन्विष्यन् माधवस्तत्र प्राप्याघोरघण्टं हत्वा मालत्या विपद उद्धारं कृतवान् ।
निश्चिते च तस्या उद्वाहदिने सा शिवदर्शनयात्रामिषेण बहिरागत्य माधवेन सह पलायितवती । विवाहे च मकरन्दो माधवसुहृद् मालतीवेषं विरचय्य नन्दनगृहं प्राप्तो वधूरूपेण । ततः स स्वप्रेयसीं नन्दनभगिनीं मदयन्तिकामादाय रात्रावेव पलायमानो राजपुरुषैगृहीतः । अथ ज्ञातवृत्तान्तो माधवोऽपि मित्रसाहाय्याय तत्राजगाम । तयोमित्रयोः पराक्रमं प्रासादाट्टालिकातो दृष्ट्वा पद्मावतीशस्तयोरपराधमक्षमत । किन्त्वेतदन्तराले एव गुरुवधप्रतिशोधायोद्यता “कपालकुण्डला एकाकिनीं मालतीमपहत्य तां श्रीपर्वत प्राषितवती । तद्विरहेण विक्षिप्तों माधव उपायान्तरमनवेक्ष्यात्महत्यायै सन्नद्धोऽभवत् । तस्य तदवस्थामसहमानो मकरन्दम्तद्विपत्तिश्रवणात्पूर्व मेवात्मानं व्यापादयितुं प्रयतमानः कयाचिद् योगिन्या सौदामिन्या न्यसेधि। तस्याः प्रयासेन मालतीमाधवौ मदयन्तिकामकरन्दौ च परस्परं मिलनसुखमनुभूय सुखेनैधताम् । प्रकरणेऽस्मिन् मुख्यो रसः शृङ्गारः, वीरो बीभत्सश्चाङ्गे । काव्येऽस्मिन् कवेः रसपाकः नितान्तमेव प्रशंसनीयः ।
महावीरचरितम्
[सम्पादयतु]महावीरचरितं हि रामायणसम्बद्ध वीररसमख्यं नाटकं, यन्न सन्ति सप्ताङ्काः अत्र हि रामायण्येव कथा स्वल्पपरिवर्तित रूपा चित्रिता । विश्वामित्रयज्ञरक्षार्थ सिद्धाश्रयं लक्ष्मणेन सह गतो रामस्तत्प्रसङगे माहेश्वरं धनुर्भक्त्वा सीतां परिणयति । तत्पूर्वमेव रावणः सीतार्थ मिथिलायां दूतं प्रेषयति प्रत्याख्यायते च जनकेन । ततश्च रावणो मन्त्रिण माल्यवतः परामर्शानुसारेण परशुरामं वर्धमानक्षत्रियनाशनायोत्तेजयति । किन्तु रामेण पराजितः स यथास्थानं निवर्तते । ततश्च शर्पणखा मन्थरारूपेण के कयीमुत्साह्य रामाभिषेके विघ्नमुत्पादयति । वनं गतो रामो दण्डकेषु विहरति ससीतः सानुजः । रावणः प्रत्याख्यानप्रतीकाराय सीतां हरति प्रेषयति च बालिनं रामवधाय । रामेण भृशं ताडितो बाली रामेण सह सुग्रीवस्य सख्यं कारयति । रामोऽपि लङ्कां गत्वा रावणं हत्वा वह्निविशुद्धां सीतामादाय साकेत प्रत्यागच्छति भवति च तस्याभिषेकमहोत्सवः । कृतिरियं मालतीमाधवापेक्षया क्लिष्टत। किन्तु रसपरिपाकवशाद् हृद्यतरा।
उत्तररामचरितम्
[सम्पादयतु]करुणरसमुख्यं नाटयमिदं सप्ताङ्कम् । अत्र हि रामायणस्योत्तरकाण्डसम्बद्धा कथा कविकल्पनया समुन्नीय प्रस्तुताऽस्ति । कथ्यते हि ‘उत्तरे रामचरिते भवभूतिविशिष्यते' इति । सीतापरित्यागः, रामविलापः, लवकुशप्राप्तिः, सीतास्वीकारश्चास्येतिवृत्तस्य मुख्यांशाः। करुणरसस्य प्रस्फुटितः प्रवाहोऽत्र प्रशस्यः । दिमात्रं निदर्शनं यथा -
परिपाण्डुदुर्बलकपोलसुन्दरं दधती विलोलकवरीकमाननम् ।
करुणस्य मूतिरथवा शरीरिणी विरहव्यथैव वनमेति जानकी ॥[५६]
दलति हृदयं शोकोद्वेगाद् द्विधा तु न भिद्यते ।
वहति विकलः कायो मोहं न मुञ्चति चेतनाम् ।।
ज्वलयति तनूमन्तर्दाहः करोति न भस्मसात् ।
प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् ॥[५७]
तत्र कविः स्वयमेव तमसामुखेन कथयति -
एको रसः करुण एव निमित्तभेदाद्
भिन्नः पृथक्पृथगिव श्रयते विवतन् ।
आवर्तबुद्बुदतरङ्गमयान् विकारान् ।
अम्भो यथा सलिलमेव हि तत्समस्तम् ।।[५८]
किन्तु तत्र शृङ्गारोऽपि रसो नैव विस्मृतः । यथा हि -
किमपि किमपि मन्दं मन्दमासक्तियोगादविरलितकपोलं जल्पतोरक्रमेण ।
अशिथिलपरिरम्भव्यापृतैकैकदोष्णो: रविदितगतयामा रात्रिरेवं व्यरंसीत् ।।[५९]
एवमेव -
विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा
प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः ।
तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो
विकारश्चैतन्यं भ्रमयति च सम्भीलयति च ॥[६०]
भावभाषासौष्ठवमेवास्य नाउ:स्य सर्वोकृष्टत्वे प्रमाणम् । भवभूतेः शैली क्लिष्टा ओजस्वनी च । स्वरचनाविषये स स्वयमेव कथयति-
“भूम्ना रसानां गहनः प्रयोगः सौहार्दहृद्यानि विचेष्टितानि ।
औद्धत्यमायोजितकामसूत्रं चित्रा कथा वाचि विदग्धता च ॥[६१]
भवभूतेविचारे प्रेम हि नैव केवलं भावात्मक कार्यमपितु द्वयोरात्मनोरात्मिकसंयोगः । यथा हि -
अद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु
यो विश्रामो हृदयस्य यत्र जरसी यस्मिन्नहार्यो रसः ।।
कालेनावरणात्ययात्परिणते यत्प्रेमसारे स्थितं
भद्रं तस्य सुमानुषस्य कथमप्येकं हि तत्प्राय॑ते ।।[६२]
प्रेयो मित्रं बन्धुता वा समग्राः सर्वे कामा शेवधिर्जीवितं वा ।
स्त्रीणां भर्ता धर्मदाराश्च पुंसामित्यन्योन्यं वत्सयोज्ञतमस्तु ।। [६३]
प्रेम्णः पूर्णता सन्ततिमाध्ययेन जायते । यथा हि -
अन्तस्करणतत्त्वस्य दम्पत्योः स्नेहसंश्रयात् ।।
आनन्दग्रन्थिरेकोऽयमपत्यमिति पठ्यते ।।[६४]
स हि कविपरम्परां नैवानुसरति । तेनैव हि तत्र कोकिलचूतमञ्जरीबकुलाशोकप्रभृतीनां वर्णन नैव दृश्यते । स हि माधवेन नरमांसं विक्रापयति । कथावर्णने भवभूतेनं कापि विशेषयोग्यता दृश्यते । तत्र समयैक्यमपि न दृश्यते । तथापि तस्य चंरित्रचित्रणं प्रशंसनीयं दृश्यते । तस्य सर्वाण्येव पात्राणि सजीवानि भावपूर्णानि च । तस्य रूपके विदूषकस्याभावोऽप्युल्लेखनीयः पक्षः । तस्य हि प्रेमाख्यानुमन्तःपुराबहिरेव सञ्चरति, अस्ति च तत्रोदात्तता । स हि शृङ्गारार्थं तु वैदर्भी प्रयुनक्ति, वीरार्थ गौडीमपि । वस्तुतः स गौडीमेव ध्यायति । तस्य हि वाक्येषु कवित्वांपेक्षया भावानामेवाधिक्यं दश्यते । स हि प्रयुनक्ति विविधानिच्छन्दांसि किन्तु तस्य शिखरिण्यां वैशिष्टयं दयते यथा कालिदासस्य मन्दाक्रान्तायां भारवेवंशस्थे । यथा वदति क्षेमेन्दः सवत्ततिलके -
भवभूतेः शिखरिणी निरर्गलतरङ्गिणी ।
रुचिरा धनसन्दर्भे या मयूरीव नृत्यति ।।[६५]
महत्वदष्ट्या ख्यातिगणनया च नाटककारेषु कालिदासानन्तरं भवभूतेरेव स्थानं दृश्यते । चरित्रचित्रणे रचनायां च स हि नवीनतामादधाति । कालिदासो हि प्रकृतेः सुकोमलरूपमधिकरोति, यंदा भवभूतिस्तस्याः कठोररूपमेव । प्रथमो हि नाट्यशास्त्रीयसीमायामाबद्धः, किन्तु द्वितीयस्तु यथेच्छे विहरन कौशलप्रदर्शनाय पूर्वापेक्षया सुविस्तृत क्षेत्रं गृह्णाति । स हि व्याघ्रश्मशानप्रभृतीनां रङ्ग एवोपस्थिति वर्णयति । भावभाषाकल्पनाक्षेत्रे आद्योऽपरमतिशेते, यदाऽपरः गम्भीरभावाभिव्यक्तौ प्रथमं न्यक्करोति । आद्यो हि कथनीयं संक्षेपेण व्यञ्जनयाऽभिव्यनक्ति, यदाऽपरः विस्तारेण, किन्तु ओजस्विवाक्यैः । कालिदासस्य पात्राणि रसिकाणि काल्पनिकानि च यदा भवभूतेः सांसारिकाणि वास्तविकनि च । प्रथमः सदाऽऽशावादी द्वितीयस्तु निराशप्रेरितः। प्रथमस्य सूक्तयः सामान्योपदेशकाः, किन्तु द्वितीयस्य तु विशिष्टशन्देशवाहिकाः कवेरनुभूततथ्यप्रकाशिका । आद्यस्य कृतौं मनोरञ्जनस्यापि स्थानं किन्तु द्वितीयस्य तु विशिष्टानुभूतेरेव ।। भवभूतेर्वैशिष्ट्यं वर्णयन् धनपालः कथयति -
स्पष्टभावरसा चित्रैः पदन्यासैः प्रवर्तता।
नाटकेषु, नटस्त्रीव्र भारती भवभूतिना।।
स्वां शैलीमुपवर्णयन् कविरेव कथयति-
यत्प्रौढत्वमुदारता च वचसां यच्चार्थतो गौरवम्।
तच्चेदस्ति ततस्तदेव यमकं पाण्डित्यवैदग्ध्ययोः ।।
कथ्यते हि भवभूतेः करुणरसेन जडोऽपि सचेतनो भवति सचेतना अपि जडाः । यथोक्तम्-
जडानामपि चैतन्यं भवभूतेरभूद् गिरा
ग्रावाऽप्यरोदीत्पार्वत्याः हसतः स्म स्तनावपि ।।
प्रेमविषये स कथयति यत्तद्धि बाह्यकारणेषु नैवावलम्बितं भवति । यथोक्तम् -
व्यतिषजति पदार्थानन्तरः कोऽपि हेतुः न खलु बहिरूपाधीन प्रीतयः संश्रयन्ते ।
विकसति च हि पतङ्गस्योदये पुण्डरीके द्रवति च निजरश्मावुद्गते चन्द्रकान्तः ॥[६६]
केचित्तु एतत्पर्यन्तमपि कथयन्ति -
‘कवयः कालिदासाद्याः कालिदासो महाकविः ।
तरवः पारिजाताद्याः स्नुहीवृक्षो महातरुः ॥'
अपरे कथयन्ति यदभिज्ञानशाकुन्तलं हि शरदः पूर्णा कौमुदी यदा उत्तररामचरितं तु ताराखचितं नीलगगनम् । आद्यं हि व्यञ्जनमप्र हविष्यान्नम् । प्रथमं वसन्तो द्वितीयं वर्षा। प्रथमं नृत्यमपरमश्रु । आद्यमुपभोगोऽपरं पूजनमेव ।
तापसवत्सराजम्
[सम्पादयतु]अनङ्गहर्षस्य कवेः तापसवत्सराजं हि षट्सु अङ्केषु विभक्तम् । तापसवत्सराजस्य -
उत्कम्पिनी भयपरिस्खलितांशुकान्ता ते लोचने प्रतिदिशं विधुरे क्षिपन्ती ।
कूरेण दारुणतया सहसैव दग्धा | धूमान्धितेन दहनेन न वीक्षिताऽसि ।। इति पद्यमुद्धरति ।
तच्च वत्सराजस्येदं परिदेवितवचनमिति लोचने स्पष्टम् । तेन हि तस्य स्थितिकालो भवभूत्यानन्दवर्धनयोरन्तरालवर्तीति (८००-९०० वै०) अनुमीयते अनङ्गहर्ष हि राजशेखर-कुन्तक-भोज-मम्मटहेमचन्द्रादयोऽपि समुद्धरन्ति । अत्र हि वत्सराजस्योदयनस्य कथा चित्रिताऽस्ति । लावाणके वासवदत्ता दग्धेति मिथ्याप्रचारेण भृशमभितप्तो वत्सराजो राज्यमप्युज्झित्य संन्यासी भूत्वा जीवनं प्रत्येव निराशः नद्यामात्मप्रवाहण जीवनावसानं वाञ्छति । तथैव वासवदत्ताऽपि आत्मप्रवाहाय तत्रैवागच्छति । तत्र द्वयोः सङ्गमेन सुखीभृतौ तौ सुखमेधेते ।। ' ग्रन्थेऽस्मिन् भवभूतेः प्रभावः स्पष्टमेव लक्ष्यते विशेषतः क्लिष्टशैल्यामुदात्तभावचित्रणे । कविनाऽनेनापि भवभूतेः कामन्दकीव साङ्कृत्यायन्याख्या बौद्धभिक्षुकी कल्पिताऽस्ति । अस्य हि वर्णनचातुरी नितान्तमेव प्रशस्यतमा । विरहावस्थावर्णनं यथा -
तद्वक्त्रेन्दुविलोकनेन दिवसो नीतः प्रदोषस्तथा तगोष्ठ्यैव निशाऽपि मन्मथकृतोत्साहैस्तदङ्गार्पणैः।
तां सम्प्रत्यपि मार्गदत्तनयनां द्रष्टुं प्रवृत्तस्य में बद्धोत्कण्ठमिदं मनः किमथवा प्रेमाऽसमाप्तोत्सवः ॥ इत्यादि ।
कविरसावपि करुणकथारमणो भवभूतिरिव । केचिदमुमेव मातृराजं मत्वाऽमुमुदात्तराघवस्यापि प्रणेतारं मन्यन्ते । मातृराजस्य ‘मायुराज' इति वा 'माउराज' इति विकृतं रूपं ते कल्पयन्ति । मायुराजं राजशेखरः-‘माउराजो नान्यः कलचुरिः कविः' इति स्मरति ।।
तपतीसंवरणम्, सुभद्राधनञ्जयम्
[सम्पादयतु]८६० मितवैक्रमाब्दमभितः स्थितिमानित्यनुमितेन केरलशासकेन प्रणीते तपतीसंवरणं सुभद्राधनञ्जयञ्चेति द्वे रूपके स्तः । प्रथमे हि षडङ्काः सन्ति। यत्र हि तपत्याः संवरणस्य च प्रेमप्रसङ्गो वणितोऽस्ति । द्वितीयं तु पञ्चाङ्क यत्र सुभद्राया अर्जुनस्य च प्रणयप्रसङ्गश्चित्रितोऽस्ति । केचिदस्य स्थितिकालं १०९२-१११२ मितवैक्रमाब्दान्तरालमपि मन्यन्ते ।।
अनुर्धराघवम्
[सम्पादयतु]कविवरो मुरारिः मौद्गल्यगोत्रस्य माहिष्यतीपुरवास्तव्यस्य वर्धमानाख्यस्यात्मजः। माताऽस्य तन्तुमती। असौ हि कलचुरिवंश्यस्य कस्यचिद्राज्ञः सभाकविरप्यासीत् । अत्रेदमप्यवधेयं यदसौ कवि ‘र्मुरारेस्तृतीयः पन्था' इति स्मृताद् दार्शनिकाद्भिन्न एव । स तु कश्चिन्मैथिलो वा गौडीय आसीदिति विदुषां मतम् । स हि भवभूतेरुत्तररामचरितगतं 'लौकिकानाम्'[६७] इति पद्य ‘मीमांसते'[६८] इति पद्येऽनुकरोति । तथैव 'व्यतिषजति पदार्थान्'[६९] इत्युत्तररामचरितगतं पद्यं रत्नाकरो ‘जनयिता'[७०] इति पद्येऽनुकरोति । तथैव महावीरचरितगतं 'उत्पत्तिर्जमदग्नितः स भगवान्[७१] इति पद्यं ‘आदेष्टा भगवान् भृगुर्जननयो'[७२] इति पद्येऽनुकरोति । तेनाऽयं भवभूतेः परवर्तीति सिध्यति । तथैव स रत्नाकरेण (९०७ वै०) महाकविना हरविजयमहाकाव्ये -
अङ्घोत्थनाटक इवोत्तमनायकस्य नाशं कविय॑धित यस्य मुरारिरित्थम् ।
इति स्मर्यते । तेनास्य रत्नाकरपूर्ववतत्वं सिध्यति । अतोऽयं भवभूतिरत्नाकरयोरन्तरालकालवर्ती, अर्थात् ८००-९६० मितवैक्रमाब्दान्तरालवतनि समये यदा कदाप्यासीत् । सामान्यतः ८००-८८० मितवैक्रमाब्दकाल एवास्य स्थितिकालत्वेनानुमितः ।
अनर्घराघवं हि सप्ताङ्कं नाटकम् । अत्र हि रामायणगता विश्वामित्रस्य रामलक्ष्मणनिमित्तं दशरथप्रासादोपस्थितित आरभ्य रामराज्याभिषेकपर्यन्ता कथा चित्रिताऽस्ति । प्राचीनाऽपि कथैषा कविना स्वप्रतिभयोद्भाव्य तथोपस्थिता येन स बालवाल्मीकिरित्यभिधीयते । नाटकमिदं साहित्यस्य मेरुदण्डो व्याकरणनैपुण्यस्य परीक्षानिकषमपि मन्यते । भट्ठोजिदीक्षितोऽपि सिद्धान्तकौमुद्यां नाटकादस्मदनेकान्युद्धरणानि गृह्णाति । कविः स स्वयमेव कथयति -
दैवीं वाचमुपासते हि बहवः सारं तु सारस्वतं
जानीते नितरामसी गुरुकुलक्लिष्टो मुरारिः कविः ।
अब्धिलंछित एव वानरभटः किन्त्वस्य गम्भीरता-
मापातालनिमग्नपीवरतनुर्जानाति मन्थाचलः ।।
पुनश्च स उद्घोषयति -
‘तस्मै वीराभुतारम्भगम्भीरोदात्तवस्तवे ।।
जगदानन्दकाव्याय सन्दर्भाय त्वरामहे ॥'[७३] इति ।
वस्तुत एवास्य नाटकीयवस्तुतत्त्वं तु न तथा प्रकर्षं द्योतयति यथाऽस्य प्रौडपाण्डित्यपाटवमित्यालोचकानां मतम् । कथ्यते हि ‘मुरारिपदचिन्तायां भवभूतेस्तु का कथा' इति । तथैव -
"भवभूतिमतादृत्य निर्वाणगतिना मया ।
मुरारिपदचिन्तायामिदमाधीयते मनः ॥'
कविरपि स्वस्य भवभूतेरप्युत्कर्ष स्वयमेव वर्णयति । यथा- ‘सभासदः कुतश्चिद् द्वीपादागतेन कलहकन्दलनाम्ना कुशीलवेन रौद्रबीभत्सभयानकादभुतरसभूयिष्ठं कमपि प्रबन्धमभिनयता नित्यं किलायमुद्रेजितो लोकः' इति । स्पष्टमेवाऽत्र कविर्भवभूतेमलतीमाधवं सङ्केतयति यत्र हि रौद्रादयो रसा रसान्तरापेक्षया प्रकृष्टत्वेन साधिताः । तस्य हि कृतिर्नाट्यापेक्षयाऽधिकं काव्यात्मकतां बिभति। निभाल्यतामस्य प्रकृतिचित्रणक्षमता -
दृश्यन्ते मधुमत्तकोकिलवधूनिधूतचूताङ्कुरप्राग्भारप्रसरत्परागसिकतादुर्गास्तटोभूमयः ।
याः कृच्छादतिलय लुब्धकभयात्तैरेव रेणूत्करैः धारावाहिभिरस्ति लुप्तपदवीनिःशङ्कमेणीकुलम् ॥[७४]
तथैवास्य गौडशैलीप्रावीण्यं निभाल्यताम् -
न्यञ्चन्यञ्चद्धरित्रीधृतचरणभरश्चन्द्रहासैकदृष्टिव्यवल्गयौगपद्योत्सुकशकलभुजाक्रान्तदिक्चक्रवालः ।
क्रोधकूराक्षिरक्तोत्पलरचितवियत्तोरणस्रज़ि बिभ्रद् वक्त्राणि प्रत्यनीकप्रसरसरमसो निजहीते दशास्यः ।।[७५]
किन्तु तस्य शृङ्गारवर्णनं वैदर्भीकौशलमपि न तथा निकृष्टम् । यथा -
अनेन रम्भोरु भवन्मुखेन तुषारभानोस्तुलया धृतस्य ।।
ऊनस्य नूनं परिपुरणीय तारान्स्फुरन्ति प्रतिभानखण्डाः ॥[७६]
अपरञ्च निभाल्यतामस्य प्रौढोक्तिः--
यदिन्दोरन्वेति व्यसनमुदयं वा निधिरपामुपाधिस्तत्रायं जयति जनिकर्तुः, प्रकृतिना।
अयं कः सम्बन्धो यदनुहरते तस्य कुमुदं विशुद्धाः शुद्धानां ध्रुवमनभिसन्धिप्रणयिनः ।।[७७]
महानाटकम्
[सम्पादयतु]महानाटकनाम्ना एक चतुर्दशाङ्कं तथैव हनुमन्नाटकनाम्नाऽपरं दशमाकं काव्यं लभ्यते । कथ्यते ह्यस्य प्रणेता पवनतनयो हनुमानासीत् । अनभिनेयो ग्रन्थोऽयं वस्तुतः काव्यात्मतां विधत्ते श्रव्यमयत्वात् । तदभिलक्ष्य केचिदिदं नाटकविकासप्रारम्भिककालप्रणीतं मन्यन्तेऽपरे तुः रूपक ह्रासयुगीनमपि । अत्रेदमवधेयं यद्भारवेरुदयेन पद्यसाहित्येन् स्वाभाविक रूपं त्यक्त्वा पाण्डित्यभारः स्वीकृतस्तथैव बाणोदयेन गद्येन भाषितरूपमपास्य पाण्डित्यपदविः स्वीकृता, एवमेव भवभूतेरुदयेन नाटयेनाऽपि नाटकीयतां दुत्कृत्य केवलकाव्यात्मकतोरीकृता। प्रस्तुतग्रन्थोऽपि नाम्ना तु नाटकमेव कथ्यते किन्तु अत्र नास्त्यस्याभिनेयता दृश्यताऽपि । तेन हीदं भवभूत्यनन्तरकालप्रणीतमेव मन्यन्ते कतिपये समालोचकाः । अस्य प्रणेतुः प्रणयनकालस्य विषयस्तु केवल मनुमानाभासविषय एव किन्त्विदमानन्दवर्धनो ध्वन्यालोके स्मरतीत्यस्य तदाऽस्तित्वं तु सिध्यत्येव कामं तस्य स्वरूपं यद्वा तद्वा स्यात् । स हि हनुमन्नाटा गतं[७८] धिग्धिक् शक्रजितं इति पद्यं पादव्यत्ययेन धिक्कारशब्दस्थाने न्यक्कारशब्दं विन्यस्य स्मरति तृतीयोद्योते षोडशतमकारिकावृत्तौ सुप्तिादिभिरलक्ष्यक्रमव्यङ्गयद्योतनोदाहरणाय ।
अस्य हि द्वे संस्करणे लभ्यते, एक दामोदरमिश्रसङ्कलितं संबंधितञ्च संस्करणं चतुर्दशाङ्कयुक्तं महानाटकसंज्ञितं ५७९ सङ्ख्याकपद्यमण्डितमपरञ्च मधुसूदनमिश्रसङ्कलितं संवधतञ्च नवाकविभक्तं ७९१ सङ्ख्याकपच्चशोभितं हनुमन्नाटकसंज्ञितम् । तत्र दामोदरमिश्रसंस्करणे उक्तं यद्-
‘रचितमनिलपुत्रेणाथ वाल्मीकिनाब्धौ निहितममृतबुद्धया प्रमहानाटकं यत् ।
सुमतिनृपतिभोजेनोद्धतं यत्क्रमेण ग्रथितमवतु : विश्वं मिश्रदामोदरेण ।।[७९] इति ।
तत्रैव मधुसूदनस्तु कथयति -
एष श्रीलहनूमता विरचिते श्रीमन्महानाटके, वीरश्रीयुतरामचन्द्रचरिते प्रत्युद्धते विक्रमैः ।
मिश्रश्रीमंधुसूदनेन कविना सन्दर्थ्य सज्जीकृते स्वर्गारोहणनामकोऽत्र नवमोऽङ्कः पूर्ण एवेत्यसौ ॥[८०]
एवमेवाऽस्य कालिदाससंस्करणं धनपालसंस्करणमपि यत्र तत्र स्मृते दृश्येते। विश्वनाथो हि कविराजः साहित्यदर्पणे[८१] दशाङ्कं महानाटक स्मरति । राजशेखरस्यापि बालरामायणमपि दशाङ्कमेव । विषयस्य हि स्पष्टीकरणापेक्षया रहस्यीकरणं हि समालोचकानां स्वभाव एव कामं तथा करणे तथ्यमुपेक्षितमपि किं न स्यात् । “वस्तुतस्तु भरतो वा धनञ्जयोऽपि “महानाटकस्य लक्षणमेव नैवाकार्य्यम् । आलङ्कारिकेषु विश्वनाथ एव महानाटकलक्षणं करोति' । इत्येवतव नाटकस्यास्य धनञ्जयपश्चातत्वं नैव सिध्यति । नाटकस्यास्योभयसंस्करणे केवलं ३३० सङ्ख्याकपद्यान्येव साम्यं भजन्ते शेषाणि तु कथमपि नैव संवादीनि । अतो हि मूलरूपेण नाटकमिदं वर्तमानोपलभ्यसंस्करणापेक्षया लघुतरमपि सम्भवति । पश्चाच्च तत् सङ्ग्रहितृभिर्यथेच्छं संवधतमपि स्यात् । उभावप्यस्य संस्कारको नाटकमिदं हनुमतः कृति मन्येते मूलतः । कथ्यते हि नाटकमिदं हनुमती रामस्मृत्यर्थं मनोविनोदाय प्रणीतमासीत् । आसीच्च तत्पाषाणतले समुट्टङ्कितमपि ।
यदा हि वाल्मीकिस्तदपश्यत् तदा स भृशं चिन्तितोऽभवद्यदस्य सत्त्वे मम रामायणं को वा श्रद्धधीतेति । ततस्तेन तस्य समुद्रे निक्षेपणाय हनुमान् बहुप्रार्थितः । सोऽपि भक्तवत्सलस्तत्सन्तोषाय नाटकोट्टङ्कितपाषाणखण्डानि जलनिधौ निक्षिप्य क्वापि गतः। पश्चाच्च मधुसूदनानुसारेण विक्रमादित्येन दामोदरमिश्रानुसारेण तु भोजदेवेन तदुधृत्य संस्कार्यं च प्रकाश्यं नीतमिति । बल्लालसेनोऽपि भोजप्रबन्धे कथामेतां स्मरति । वस्तुतस्त्विदं भोजदेवसमये लुप्तप्रायमेवाऽऽसीत् सम्भवति तेन हि समुन्नाय्य प्रकाशितं स्यात्प्राचीनताकर्षणेन । अस्य भाषाप्रयोगो भावाभिव्यक्तिस्त्विदमाचार्ययुगीनं साधयति न तु पण्डितयुगीनम् । तेन हीदं वाल्मीकिरामायणसमकालिकमपि सम्भवति मूलतः । निरूप्यतामस्य सारल्यं सारस्यच्च -
अद्यापि स्तनतुङ्गशैलशिखरे सीमन्तिनीनां हृदि
स्थातुं वाञ्छति मान एष धिगितिक्रोधादिवालोहितः ।
उद्यद्रतरप्रसारितकरः कषत्यसौ तत्क्षणात्
फुल्लत्कैरवकोशनिःसरदलिश्रेणी कृपाणं शशी ।।[८२]
यातस्यास्तमनन्तरं दिनकृतो वेषेण रागान्वितः
स्वैरं शीतकरः करं कमलिनीमालिङ्गितुं योजयन् ।
शीतस्पर्शमवाप्य सम्प्रति तथा युक्ते मुखाम्भोरुहे।
हास्येनैव कुमुद्धतीवनितया वैलक्ष्यपाण्डुकृतः ।।[८३]
ग्रन्थेऽस्मिन् दशरथवर्णनादारभ्य रामाभिषेषकपर्यन्ता कथा यत्र कुत्र स्वकल्पनया संस्कार्यापि पद्यबाहुल्येन वाक्येन वणता । अत्र हि प्राकृतभाषा, विदूषकादिपात्राणि च नैव दृश्यन्ते । तथैवाऽत्र गेयमेव दृश्यते न तु दृश्यम् । अत्र गद्यांशमपि स्वल्पमेव दृश्यते तदपि वर्णनात्मकम् ।
नाटकपञ्चकम्
[सम्पादयतु]भीमटाख्यं कवि पञ्चानां नाटकानां प्रणेतृत्वेन राजशेखरः (९५० वै० ) स्मरति । अतो हि कविरसौ तत्पूर्ववर्तीति ज्ञायते । अस्य हि पञ्चसु रूपकेषु केवलं त्रीण्येव ज्ञायन्ते तान्यपि नाममात्रेणैव न तु स्वरूपतः । तानि च स्वप्नदशाननं, प्रतिज्ञाचाणक्य, मनोरमावत्सराजञ्चेति । तेषु प्रथममितरापेक्षयोत्कृष्टतरं मतम् । यथोक्तम् -
कालिञ्जरपतिश्चक्रे भीमटः पञ्चनाटकीम् ।
प्राप प्रबन्धराजत्वं तेषु स्वप्नदशाननम् ।। इति । असौ हि भीमटश्चन्देलवंश्यः प्रतीयते ।
रूपकचतुष्कम्
[सम्पादयतु]संस्कृतसाहित्ये राजशेखरो हिं बहुचचितविचक्षणेष्वेकः । तस्य सन्ति चत्वारि रूपकाणि ख्यातानि बालरामायणं, बालभारतं (प्रचण्डपाण्डवम्), विद्धशालभञ्जिका, कर्पूरमञ्जरी च येषु हि कर्पूरमञ्जरी सट्टकं, विद्धशाल भञ्जिको नाटिका, बालरामायणं महानाटकम् ।
असौ हि यायावरकुलोत्पन्नो महाराष्ट्रीयब्राह्मणः । पिताऽस्य दुईकाख्यो माता च शीलवती। | राजशेखरो हि आनन्दवर्धनं ध्वनिकारं स्मरति, स च यशस्तिलकचम्पूकारेण सोमदेवेन स्मर्यत इति तयोरन्तरालवतसमये एव तस्य स्थितिः। आनन्दवर्धनस्य स्थितिकालोऽवन्तिवर्मणः सभाकवित्वाद् ९०७.९६० मितवैक्रमाब्दाभ्यर्णेऽनुमितस्तथैव सोमदेवस्य १०१६ वैक्रमाब्दाभ्यणें स्थितिकालः । तथैव राजशेखरो जयापीडस्य सभाध्यक्षमुद्भर्ट स्मरति । तस्य हि स्थितिकालः ८३०.८८० मितवैक्रमाब्दान्तरालेऽनुमितः । अपरञ्च राजशेखरः स्वाश्रयत्वेन रघुवंश्यं महेन्द्रपाले कान्यकुब्जेश्वरं स्वशिष्यत्वेन तत्सुत महीपालञ्च स्मरति । यथा हि -
नमितमुरलमौलिः पाकलो मेकलानां रणकलितकलिङ्गः केलिंकृत्केरलेन्द्रः ।
अजनि जितकुलूतः कुन्तलानां कुठारो हठविहतमठश्रीः ‘श्रीमहीपालदेवः ।।[८४]
तस्य पिता महेन्द्रपालः निर्भयदेवनाम्नाऽपि ख्यातः इति "तेन च रघुबंशमुक्तामणिनार्यावर्त महाराजाधिराजेन श्रीनिर्भयनरेन्द्रनन्दनेनाराधिताः सभासदः” इति तत्रत्यकथनेन ज्ञायते । अपरञ्च, स एवं तत्रैव -
'देवो यस्य महेन्द्रपालनृपतिः शिष्यों रघुग्र भणीः ।'[८५]
इति च स्मरति । महेन्द्रपालः कान्यकुब्जेश्वरः ९५०-९६० मितवैक्रमाब्दमभितः स्थितिमान् तथैव महीपालः ९६१-९६४ मितवैक्रमाब्दानभितोऽनुमितः । तथैव १०६० मितवैक्रमाब्दाभ्यणे प्रणीतायां तिलकमञ्जय धनपालोऽपि राजशेखरं स्मरति । एभिरन्यैश्च प्रमाणैः राजशेखरस्य स्थितिकालः ९२०-९८० मितवैक्रमाब्दानभितोऽनुमितः । अथाऽस्य नाट्यग्रन्थानां संक्षिप्तः परिचर्याऽत्रोपस्थाप्यते।
कर्पूरमञ्जरी
[सम्पादयतु]प्रकृत्या सट्टकमिदं रूपकं चतुषु जवनिकान्तरेषु विभक्तम् । प्राकृतभाषानिबद्धेऽस्मिन् ग्रन्थे चण्डपालस्य कर्पूरमञ्जर्याश्च वर्णनं कृतमस्ति । अत्र ह्यद्भुतो रसो मुख्यः । लघुकथानकमविशदचरित्रचित्रणमपि सट्टकमिदं कतिपयपक्षैर्महत्त्वपूर्ण दृश्यते । इदं हि प्राकृतभाषानिबद्धमेकमात्रं रूपकम् । तस्य प्राकृतभाषामयत्वस्यौचित्यं प्रतिपादयन् कविः कथयति
अत्थविसेसा ते चित्र सद्वा ते चेअ परिणमंता वि ।
उत्तिविसेसो कव्वं भासा जा होइ सा होउ ।।[८६]
परुसा सक्कअबंधा पाउअंबंधो वि होइ सुउमारो।
पुरिसमहिलाणं जेत्तिअमिहंतरं तेत्तिअमिमाणम् ।।[८७]
कथ्यते ह्यस्य पदलालित्यं मननीयं विद्यते । अत्र हास्य रसस्यापि मनोहारि चित्रणं दृश्यते । अत्र हि पद्यानि महाराष्ट्रीप्राकृते गद्यभागश्च शौरसेन्यां गुम्फितोऽस्ति । निभाल्यतामस्य रचनासौष्ठवम् -
दंसेमि तं पि ससिणं वसुहावइण्णं थेमेमि तस्स वि रविस्स रहं णहद्धे ।
आणेमि जक्खसुरसिद्धगणं गणाओ तं गत्थ भूमिवलए मह जं ण सज्झे ।।[८८]
अत्र हि नान्द्यनन्तरं स्थापकः प्रविश्य कृत्यमुद्घोषयति । न स्तोऽत्र प्रवेशकविष्कम्भको । कविः स्वयमेवोद्घोषयति
सो सट्टओ त्ति भण्णइ दूरं जो णाडिआएं अणुहरइ ।
कि उष पवेसविक्कंभकाई केवलं ण दीसंति ।।[८९]
अर्थात् सट्टकं नाम नान्यद्विष्कम्भकप्रवेशकहीना नाटिकैव पदलालित्यादि प्रकृष्टगुणयुक्तोऽपि ग्रन्थोंऽयं केवलं काव्यत्मकतां बिभत न तु नाटकीयताम् । पाण्डित्यप्रदर्शनमेवात्र कवेर्लक्ष्यम् । काव्यकोटयामयमुच्चस्तरं भजते । ।
विशालमञ्जिका
[सम्पादयतु]हिचतुरछिका नाटिका । अत्र हि शृङ्गारो रसो मुख्यः । अत्र हि मृगाङ्कावल्या विद्याधरमल्लस्य च तथैव तस्य कुवलयावल्याश्च प्रणयप्रसङ्गो विवाहश्च वणतोऽस्ति । लाटेशश्चन्द्रवर्मा निजदुहितर मृगाङ्कावलीं पुरुषवेषेण विद्याधरमल्लप्रसादं प्रेषयति । विद्याधरमल्लश्च स्वप्ने तामेव दृष्ट्वा तस्यामनुरक्तो भवति । मृगाङ्कावली च मृगाडूंवर्मनाम्ना ख्यातो भवति । विद्याधरमल्लमहिषी तेन सह कुन्तलराजपुत्र्याः कुवलयावल्याः परिणयं वाञ्छति । अन्यानुरक्तं राजानं ज्ञात्वा तत्प्रतिशोधाय राज्ञी मृगाङ्कवर्माणं पुरुषमेव ज्ञात्वा तं स्त्रीवेषेण, सज्जयित्वा तेन सह राज्ञः परिणयं रचयति किन्तु पतिवक्षनतत्परा सा स्वमेव वञ्चयति । पश्चाच्च रहस्यं ज्ञात्वा विवशा सा कुवलयावल्या अपि राज्ञा सहैव परिणयं रचयति । विद्धशालभञ्जिका हि मृगाङ्कावल्या एव मूर्तिः, नाटकीयदृष्ट्या विद्धशालभञ्जिका कर्पूरमञ्जर्यपेक्षया सफलाऽधिकम् । अत्र कवेर्वर्णनाचातुरी प्रशस्या दृश्यते ।
बालरामायणम्
[सम्पादयतु]बालरामायणमस्य दशाङक नाटकम् । अत्र हि रामचरितमेव सविशेषं चित्रितमस्ति । अत्र हि रावणः सीतायाः प्रेमित्वेन चित्रितीऽस्ति । सीलावियोगमसहमान स वने इतस्ततः परिभ्रमति । अतिमात्रविस्तृतकथानकमिदं नाटकमपि नाटकीयतापेक्षया काव्यात्मकतामभिधत्ते।
बालभारतम्
[सम्पादयतु]अस्य तु द्वावेवाङौ लभ्यते । अत्र हि द्रौपदीस्वयंवर-छूतपर्वसम्बद्धा कथा दृश्यते । अत्रापि नाटकीयतापेक्षया काव्यात्मकत्वमेव दृश्यले प्राधान्येन। | वस्तुतस्तु राजशेखररूपकेष्वस्ति वास्तविकपात्राणामभाबः । एवमेव नाटकीयताऽभावः, शिथिलं कथानकं तत्समायोजनञ्च, दीर्घतमवाक्यभावात्मके मद्योपस्थित्या नीरसत्वञ्चात्र ।। । तथापि काव्यनिर्माणे राजशेखरः सफलः । स हि कविराज इति सश्रद्धं स्म्रियते विचक्षणः ।
चण्डकौशिक, नैषधानन्दम्
[सम्पादयतु]कान्यकुब्जेश्वरमहीपाला-( ९७१ वै० :श्रितेन. क्षेमीश्वराख्यकविता प्रणीते चण्डकौशिक नैषधानन्द्रञ्च द्वे रूपके प्रसिद्ध स्तः । तेन, हि कविरसौ ९४०.९९० मितवैक्रमाब्दानभितः स्थितिमानु । चण्डकोशिके सन्ति पञ्चाङ्का यत्र हरिश्चन्द्रविश्वामित्रयोः कथोपवणताऽस्ति। नैषधानन्दे सप्ताङ्घा यत्र मलस्य चरितं चित्रितमस्ति ।।
तरङ्गदत्त, पुष्पवृषितकं, पाण्यवानन्द, चलितरामम्
[सम्पादयतु]दशरूपकावलोककारो धनिकः ( १०६० वै० ) उपर्युक्तं नाटकचक्र स्मरति । एतेषां हि नाटकानी, प्रमेतृणां विषये प्रणयनकालविषये च नैव किञ्चिदपि ज्ञातमस्ति । तद्विषये एतावदेव ज्ञातमस्ति यत्तानि हि वैक्रमदशमशतकपूर्वमेव प्रणीतान्यासन् । केचिदेतेषां क्षेमीश्वरकर्तृत्वं विचिन्तयन्ति । तरङ्गदत्तं हि प्रकरणं यत्र काचिद्वेश्या नायिका चित्रिताऽस्ति । पुष्पदूषितकमपि प्रकरणमेव किन्तु तत्रास्ति चित्रिता कुलीना नायिका । तत्र तस्या मूलदेवमित्रेण समुद्रदत्तेन सह प्रेमलीला वणताऽस्ति । पाण्डवानन्दं हि महाभारतकथाश्रितं, चलितरामे रामायणकथा वणता ।। एवमेव हि--
क्षेमेन्द्रेण महाकविना ( ११०७ वै० ) प्रणीते चित्रभारतं कनकजानकी चेति द्वे रूपके आस्ताम् । तयोः कवेरस्यैव ग्रन्थान्तरेषु समुद्धरणानि लभ्यन्ते किन्तु स्वरूपतस्तु ते नैव लभ्येते सम्प्रति । तयोहि आद्यं महाभारतसम्बद्धमपरं यदा रामायणसम्बद्धमासीत् ।। महाकवेविह्नणस्य (११३७ वै०) कर्णसुन्दरीसंज्ञिता. नाटिका विद्यते । नाटिकायामस्यामनहिलवादनरेशस्य कामदेवत्रैलोक्यमल्लस्य ह्रासोन्मुखे वयसि कर्णाटराजकुमार्या मियनल्लदेव्याः सह विवाहस्य वर्णनमस्ति ।
कविराजेन शङ्खधरेण वैक्रमद्वादशशतकमध्यभागे लटकमेलकं नाम प्रहसनं प्रणीतमस्ति ।
पद्मचन्द्रस्य पुत्रेण यशश्चन्द्रेण वैक्रमद्वादशशतकोत्तरार्धभागे मुद्रितकुमुदचन्द्र नाम नाटकं प्रणीतमस्ति यत्र श्वेताम्बरेण देवसूरिणा दिगम्बरस्य कुमुदचन्द्रस्य शास्त्रार्थे पराजयो वर्णतः । कथ्यते ह्येषा घटना ११८१ मितवैकमाब्दै सम्पन्न । वैक्रमद्वादशशतकोत्तराद्धभ्य स्थितिमान् काञ्चनाचार्यः धनञ्जयविजयं नाम व्यायोगं प्रणीतवानासीत् । अत्र विराटनगरतो गोहरणप्रवृत्तकौरवोपरि धनञ्जयस्य विजयो वणतः । ११४५-१२२९ मितवैक्रमाब्दान्तराले स्थितिमतो हेमचन्द्राचार्यस्य शिष्येण रामचन्द्राख्येन बुधेन सन्ति शताधिकाग्रन्थाः प्रणीता येषु चत्वारि सन्ति रूपकाणि । तेष्वपि नलविलास नाम सप्ताङ्कं नाटकं यत्र नलस्य चरितं चित्रितमस्ति, निर्भयभीमाख्यो व्यायोगो यत्र भीमस्य पराक्रमो वणतः, सत्यहरिश्चन्द्र नाम षडङ्कं नाटकं, कौमुदीमित्रानन्दं नाम दशाङ्कं नाटकम् । स हि स्वसमयस्य सर्वोत्कृष्ट आचार्यः । तस्य परिष्कृता ओजस्वनी च शैली दृश्यते । अस्य स्थितिकालः ११५०-१२३३ मितवैक्रमाब्दान्तरालवर्ती।।
चाध्मानवंश्यस्य विग्रहराजदेवापराभिधानस्य विशालदेवस्य १२१० मितवैक्रमाब्दाभ्यणें प्रणीतं हरकेलिनाटकमपि संस्कृतनाटकपरम्पराया मुल्लेखनीयो ग्रन्थः । अत्र हि किरातवेषधारिणः शिवस्य अर्जुनेन सह प्रवृत्तयुद्धं वर्णितमस्ति । नाटकमिदमपूर्णमेव लभ्यते अजमेरनगरपाश्र्वे शिलाया मुट्टङ्कितम् । | विग्रहराजदेवाश्रितेन कविना सोमदेवेन ललितविग्रहराजं नाम नाटके प्रणीतमस्ति यत्र हि विग्रहराजंस्य देशालदेव्या सह प्रणयप्रसङ्गो वणतोऽस्ति। इदपि अजमेरनगरपाश्र्वे शिलायामुट्टङ्तिमस्ति अपूर्णमेव । सोमदेवस्य स्थितिकालः ११५०-१२३० मितवैक्रमाब्दान्तरालवर्ती ।
प्रबोधचन्द्रोदयम्
[सम्पादयतु]कृष्णमित्रस्य प्रबोधचन्द्रोदयं नाटकं संस्कृतनाट्यपरम्परायां रूपकात्मक नाट्यपरम्परामुदाययति । यद्यपि परम्परेषा अश्वघोषैनाऽपिं प्रारब्धेति विश्वस्यते किन्तु तस्य खण्डितप्रतेरेवोपलब्धेस्तन्न तथा प्रभावकारित्वेन सिद्धमासीत् । कृष्णमित्रो हि कालञ्जरभूपतेः कीर्तिवर्मणः ‘सभाकविरासीदिति प्रबोधचन्द्रोदयप्रस्तावनायां तदुल्लेखतो ज्ञायते। कीर्तिवर्मणः एकं ११५५ मितवैक्रमाब्दे समुट्टङ्कितं शिलाभिलेखं लभ्यते । तेन हि तदाश्रितत्वेन कृष्णमित्रस्य स्थितिकालोऽपि ११३०-११९०, मितवैक्रमाब्दान्तरालवर्ती मृतः । षडके नाटकेऽस्मिन् विवेक-मोह-दम्भ-काम-श्रद्धा-अहङ्काराः पात्रत्वेनोपस्थापिताः । विवेकमहामोहयोः प्रवृत्ते युद्धे प्रबोधोदयेन महामोहः पराजीयते । अत्र जैनबौद्धकापालिकादीनां संवादोऽपि, चित्रितः । ग्रन्थेनानेनास्य प्रणेता स्वसम्मतमद्वैतमतं प्रचिचारयिषति । तत्राहङ्कारः कथयति-.
तुल्यत्वे वपुषां मुखाद्यवयवैर्वर्णक्रमः कीदृशी
योषेयं वसु वा परस्य यदमुं भेदं न विद्मो वयम् ।
हिसायामथवा यथेष्टगमने, स्त्रीणां परस्वग्रहे।
कार्याकार्यकथास्तथापि यदमी निष्पौरुषाः कुर्वते ।।
तथैवोपसंहारवाक्यं यथा -
प्रशन्नारातिरगमद्विवेकः कृतकृत्यताम् ।
नीरजस्के सदानन्दे स्वे पदेऽहं निवेशितः ॥ इति ।
इदमपि -
शान्तेऽनन्तमहिम्नि, निर्मलचिदानन्दे तरङ्गावलीनिर्मुक्तेऽमृतसागरांम्भसि मनाङ मग्नोऽपि नाचामति ।
निःसारे मृगतृष्णिकार्णवजले श्रान्तोऽपि मूढः पिबत्याचामत्यभिगाहतेऽभिरमते मज्जयथोन्मज्जति ॥[९०] इत्यादि ।
परम्परेयं पश्चातभिः कविभिरपि अक्षुण्णत्वेन प्रतिपालिता। यज्ञपालस्य जैनस्य (१२८७ वै०) पञ्चाङ्कं मोहपराजयनाटकं, वेदान्तदेशिकस्य (१३८० वै० ) सङ्कल्पसूर्योदयं, गोकुलनाथस्य ( १५८० वै० ) अमृतोदयं, श्रीनिवासस्य (१६२७ वै० ) भावनापुषोत्तमनाटकं, कर्णपूरस्य (१६५० वै०) चैतन्यचन्द्रोदयं, वेदकवेः ( १७४१-१७८५ वै० ) विद्यापरिणयः, जीवानन्दनञ्च । अयमेव आनन्दरायमखीति केचित् । भूदेवस्य ( १७९४ वै० ) धर्मविजयनाटकञ्च परम्पराया अस्याः प्रतिपोषकाः ।
रूपकषट्कम्
[सम्पादयतु]वत्सराजो हि कालजरनरेशस्य परमद्धदेवस्य १२२०-१२६० मितवैक्रमाब्दाभ्यन्तरे स्थितिमतः अमात्यः कविश्च रूपकषट्कं प्रणीतवान् । तेषु हि किरातार्जुनीयव्यायोगः, कर्पूरचरितभाणः, हास्यचूडामणिप्रहसनं, रुक्मिणीहरणेहामृगश्चतुरङ्ककः, त्रिपुरदाहो डिमश्चतुरङ्ङ्ककः, समुद्रमन्थनाख्यस्त्र्यककः समवकारः ।।
वत्सराजो हि कर्पूरचरितभाणे परमद्धदेवं स्मरति यस्य शासनकालः १२२०-१२६० वैक्रमाब्दान्तराले पतति । तथैव स किरातार्जुनीयव्यायोगे त्रैलोक्यमल्लदेवं परमद्धदेवसुतं स्मरति यस्य शासनकालः १२६२-१२९८ मितवैक्रमाब्दान्तरालवर्ती । अतः कवेरस्य स्थितिकालः १२०७-१२८२ मितवैक्रमाब्दान्तरालवर्तीति स्पष्टमेव ।
वत्सराजः परमधामको महामाहेश्वर आसीदिति शिवस्तुतिपरकनान्दीवाक्येभ्यो ज्ञायते । तथैव स किरातार्जुनीयव्यायोगे ( ४० ) कथयति -
एकः करः कलयंति स्फटिकाक्षमालां घोरं धनुस्तदितरश्च विर्भात हस्तः ।
धर्मः कठोरकलिकालकदथ्यमानः सत्क्षत्रियस्य शरणं किमिवानुयातः ।।
वत्सराजो हि संस्कृतनाट्यकविषु मूर्द्धन्य इति कथने न मनागप्यतिशयोक्तिः । तेन हि न केवलं रूपकषट्कमेव प्रणीतमपितु कतिपयेषां दुर्लभानां रूपकभेदानामपि प्रणयनं कृतम् । इहामृगस्य सम्वकारस्य चं अद्यावधि रुक्मिणीहरणं समुद्रमन्थनमैवोदाहरणम् । भासप्रणीतानीवास्य रूपकाणि लघुकायानि स्वभिनेयानि च । तानि हि स्वल्पकाले एवाभिनेयानि तथैवैषां दश्ययोजनाऽपि स्वल्पश्रमसाध्या । एतेषां हि मनोरञ्जनात्मकता त्वस्ति एव, सहैव तानि जीवनोपयोगिन आदर्शानपि सन्दिशन्ति । तेषु हि न कथावस्तुनोऽनावश्यकविस्तारो नैव च वर्णनाधिक्यमेव । तेन हि नैव तत्र रूपकाणां कार्यान्वितौ अभिनेयतायाञ्च काचिदबाधा । एषु हि सर्वाऽपि नाट्यविधयः। सम्यक्परिपालिताः सन्ति, चरित्रचित्रणे औचित्यं सम्यगेव निर्वाहित मस्ति, लघुवाक्यगतसंवदेन कथागतिरपि नितान्तमेवाक्षुण्णा वर्तते, कथाव्यापारस्य निर्वाहोऽपि साधु कृतः । अस्य भाषा सरला सुवोधा च । यत्र कुत्रापि श्लेषप्रयोगोऽपि स प्रसन्नश्लेष एव न तु क्लिष्टश्लेषः। कविरसावनुप्रासोपमयोः प्रियः । एषु हि रसपरिपाकोऽपि प्रशस्यः । नैकमपि वाक्यमस्य रसप्रतिकूल पाण्डित्यं प्रदर्शयति । स स्वयमेव कथयति-‘रसपरवशवाणीवत्सलो वत्सराजः इति । दिमात्रं निदर्शनं यथा -
इहास्ति नूनं तुहिनांशुबिम्बे कलङ्कधूमानुमितो हुताशः ।
अस्यांशुपूरः कथमन्यथाऽसौ ज्वालावलीडम्बरमातनोति ।।[९१]
तथैव -
मय्यारब्धकथे सखीजनमभिप्रस्तौति वार्तान्तरं साकूतं कुरुते मुहुर्मम समस्याऽन्यस्य गंहग्रहम् ।
मद्विज्ञानकलासु कुणितमुखी मौनं समालम्बते निद्रां नाटयते करोति च पुनर्व्यक्ति पुराणागसाम् ।।[९२]
तेन हि नाटयवनितायाः-
भासो हासः कविकुलगुरुर्वत्सराजो विलासः
भासः श्रीकालिदासश्च वत्सराज इति त्रयः।
नाट्यसीमन्तिनीहाविलासाः कवयः परे ॥ इति ।
प्रसन्नराघवम्
[सम्पादयतु]जयदेवाख्यस्य महाकवेः प्रसन्नराघवं नाम सप्ताङ्क नाटकमस्ति । कविरसौ, यथा यस्तावनायामुक्तः, महादेवाख्यस्य, तनयः सुमित्राकुक्षिजश्च कौण्डिन्यगोत्रीयः । मातृपितृनामसादृश्येन कविरसौ चन्द्रालोकस्य प्रणेतुर्जयदेवादभिन्नः प्रतीयते । किन्तु तदसादश्येनासौ गीतगोविन्दकृतौ जयदेवात्तु भिन्न एव । स हि भोजदेवस्य तनयो रामादेवीकुक्षिजः । गीतगोविन्दस्य प्रणेता वङ्गाधिपस्य लक्ष्मणसेनस्य सभापण्डितः । कविरसौ तु दाक्षिणात्यः कुण्डिननगरवास्तव्य इति केचित्, मिथिलानिवासी इत्यपरे । किन्त्वसौ दाक्षिणात्यप्रदेशपक्षपातीति अस्य कुण्डिनपुरवासित्वमेव युक्तियुक्तम् । कविरसौ चन्द्रालोके -
अङ्गीकरोति यः काव्यं शब्दार्थावनलङ्कृती।
असौ न मन्यते, कस्मदिनुष्णमल कृती ।।[९३]
इति कथनेन मम्मटभट्टस्य 'अनलङ्कृती पुनः अवापि' इति कथनं प्रत्याख्याति । तेन ह्ययं मम्मटभट्टपश्चाद्वर्तीति सिध्यति । मम्मभट्टोऽपि-उदात्तालङ्कारोदाहरणे 'यद्विद्वद्भवनेषुः भोजनृपतेस्तत्यागलीलायित' इति भौज स्मरति । भोजदेवस्य समयस्तु १०६७-१११२ मितवैक्रमाब्दान्तरालवर्तीति प्रसिद्धमेव । तथैव जयदेवश्चन्द्रालोके रुय्यकप्रस्तुतं विकल्पालङ्कारं विशदयतीति तस्य रुय्यकापरवतत्वं सिध्यति । रुय्यको हि मम्मटं स्मरति विदधाति च काव्यप्रकाशस्य टीकामिति स मम्मटयत्वंत्र्येव । अतो हि तस्य स्थितिकालः १२०७ मितवैक्रमाब्दादर्वाचीन एव । यतो हि भोजराजरुय्यकमध्यवर्ती मम्मटः ११०७-१२०६ मितवैक्रमाब्दान्तरालवर्ती । काव्यप्रकाशस्य माणिक्यचन्द्रः १२१६ मितवैक्रमाब्दे सङ्केताख्यां व्याख्यां प्रणीतवानिति -
रसवक्त्रग्रहाधीशवत्सरे मासि माधवे।।
काव्ये काव्यप्रकाशस्य सङ्केतोऽयं समर्थितः ।। इति कथनोज्ज्ञायते ।
स हि रुय्यकं स्मरति । तेन रुय्यकस्यापि १२१६ मितवैक्रमाब्दात्पूर्वमेव स्थितिः । अत इदं पर्यवस्यति यद् १२०६ मितवैक़माब्दो जयदेवस्थितिकालस्य पूर्व सीमा । तथैव साहित्यदर्पणे विश्वनाथो जयदेवस्य ‘कदली कदली’[९४] इति पद्यमर्थान्तरसङ्क़मितवाच्यध्वनेरुदाहरणे[९५] प्रस्तौति । तेन हि जयदेवस्य विश्वनाथ पूर्ववतत्वं सिध्यति । विश्वनाथस्तु १३७३ मितवैक्रमाब्दे मृतमलाउद्दीनाख्यं यवनपति 'अलाउद्दीननपतौ न सन्धिर्न च विग्रहः' इति स्मरतीत्यस्य तस्य समकालिकता सिध्यति वा सद्यः पश्चात्कालवतित्वम् । अत एव विश्वनाथ हि १३८० मितवैक्रमाब्दाभ्यर्णे स्थितिमान् । इदमेव जयदेवस्थितिकालस्यापरसीमा । अतो ह्यसौ कविः १२००-१२८० मितवैक्रमाब्दान्तराले स्थितिमानिति स्पष्टमेव । एवमेव १४२० मितवैक्रमाब्दाभ्यर्णे प्रणीतायां शार्गधरपद्धतौ प्रसन्नराघवस्य सन्त्यनेकानि पद्यानि समुद्धृतानि । तथैव, १३८७ मितवैक्रमाब्दाभ्यणे स्थितिमता शिङ्गभूपालेन च रसार्णवसुधाकरे प्रसन्नराघवपद्यानि गृहीतानि दृश्यन्ते।
नाटकीयतादृष्ट्याऽतथासफलमपि काव्यसामान्यदृष्टयोत्तमेऽस्मिन्प्रबन्ध सन्ति सप्ताङ्काः । अत्र हि रामस्य प्रसिद्धा कथा स्वानुकूल्येनोपस्थापिता नवीनकल्पनयोद्भाव्य, नाटकमिदं पद्यबाहुल्यमतोऽत्र नास्ति कथायां गत्यात्मकता तथैवाभिनेयता च ।। | जयदेवो हि सिद्धहस्तः कविः । तस्य प्रसादमधुरकवितामाधृत्य हि स पीयूषवर्ष इति सम्मानितः । तस्य कृतौ कवित्वं प्रस्फुटितमिव दृश्यते सह करुणरसेन । स्वप्रबन्धमधिकृत्य स कथयति स्वयमेव -
प्रत्यङ्कमङ्कुरितसर्वरसावतारं नव्योल्लसत्कुसुमराजिविराजिबन्धम् ।
धर्मेतरांशुमिव वक्रतयाऽतिरम्यं नाटयप्रबन्धमतिमञ्जलसंविधानम् ।।[९६]
अपि च -
विलासो यद्वाचामसमरसनिष्यन्दमधुरः कुरङ्गाक्षीबिम्बाधरमधुरभावं गमयति ।
कवीन्द्रः कौण्डिन्यः स तव जयदेवः श्रवणयो रयासीदातिथ्यं न किमिह महादेवतनयः ।।[९७]
अस्य हि कवित्वं सर्वातिशायि । दिङमात्र निदर्शनं यथा -
तपःशान्तं चेतः स्फटिकमणिमालापरिकरः कुशाः कण्डी दण्डः सततमुटजावासनिरतिः ।
मुनीनामेतद्वः समुचितमुदग्रं न वचनं ने वक़भ्रूभङ्गो न शरधनुषि नाऽपि परशुः ।।[९८]
त्वया मम समेतस्य कल्पा अपि समासमाः भवता विप्रयुक्तस्य कल्पकल्पः क्षणोऽपि मे।।[९९]
रावणवधेन सीतालाभेन च प्रसन्नस्य राघवस्य चरितमंत्र वय॑त इत्यस्यान्वर्थसंज्ञा प्रसन्नराघवमिति ।।
दूताङ्गदम्
[सम्पादयतु]यथा हि कृष्णमित्रस्य प्रबोधचन्द्रोदयं रूपकात्मकनाट्यस्य प्रवर्तकं तथैव सुभटस्य दूताङ्गदमपि संस्कृतनाटयपरम्परायां छायानाटकं प्रवर्तयति । छायानाटकपरम्परायां दूताङ्गदमनुसृत्य सन्त्यन्यान्यपि छायानाटकानि प्रणीतानि यथा रामदेवस्य ( १४४० वै० ) सुभद्रापरिणयं, रामाभ्युदयं, पाण्डवाभ्युदयञ्च, विठ्ठलस्य आदिलवंशकथा (१७५० वै०), शङ्करलालस्य सावित्रीचरितं ( १९३९ वै० ) च ।
कथ्यते हि सुभटस्य दूताङ्गद कुमारपालदेवस्य यात्रायां त्रिभुवनपालदेवस्याज्ञयाऽभिनीतमासीत् । कुमारपालदेवो हि हेमचन्द्रशिष्यो रामचन्द्राश्रयो येन पश्चाद्रामचन्द्रः शूले आरोप्य व्यापादितः । कुमारपालस्य निधनं १२३८ मितवैक्रमाब्दे सञ्जातम्, तदनु त्रिभुवनपालदेवस्य शासनं प्रवर्तितं कुमारपालस्योत्तराधिकारिरूपेण । कुमारपालातृतीयस्य राज्ञो भीमदेवस्य पुरोहितः सोमेश्वरः कीतिकौमुद्याख्यग्रन्थे सुभटकविमित्थं स्मरति--
‘सुभटेन पदन्यासः स, कोऽपि समिती कृतः ।।
येनाधुनाऽपि धीराणां रोमाञ्चो नापचीयते ।।
इति । अत्र ‘अधुना' इति पदं तस्य निधनं सूचयति । सोमेश्वरस्य स्थितिकालस्तु १२३६-१३१९ मितवैक्रमाब्दान्तरालवत तस्य भीमदेववीसलदेबपुरोहितत्वेन । अतो हि १२५० मितवैक्रमाब्दो हि सुभटस्य स्थितिकालस्यापरसीमा। कुमारपालो हि १२०७ मितवैक्रमाब्देऽभिषिक्तः, १२२९ मितवैक्रमाब्दं यावद्भुवं शशास । तेन हि सत्यपि त्रिभुवनपाल-कुमारपालयोवंशविपर्यये ११७० मितवैक्रमाब्दात्पूर्ववर्ती तु न कदापि सुभटः तथा सति उभयमपि सिध्यति त्रिभुवनपालस्य शासने कुमारपालस्य यौवराज्यं वा त्रिभुवनपालस्य समये कुमारपालस्यैतिहासिकत्वमपि । तेन हि ११७०-१२५० मितवैक्रमाब्दान्तराले हि सुभटस्य स्थितिकालः ।
सुभटस्य हि एक एव ग्रन्थो लभ्यते दूताङ्गदाख्यः । ग्रन्थमिमं कविः स्वयमेव छायानाटकशब्देन जानाति । छायानाटकमिति संस्कृतनाटयपरम्परायां नवीनपदम् । छायानाटके हि पात्राणि जवनिकान्तरितान्येव संवादं प्रस्तुवन्ति । जवनिकायां तत्संवादीनि चित्राणि संलग्नानि भवन्ति । यतो हि दर्शकाः पात्राणां छायामेव पश्यन्ति । अतो हि ईदृक्प्रकृतिकं नाटकं छायानाटकमिति कथ्यते । छायात्मना पटे प्रतिबिम्बितश्चित्ररूपोऽभिनय एव छायानाटकस्य स्वरूपं व्यपदिश्यते ।
ग्रन्थोऽयं स्वल्पकायोऽपि कवेः प्रौढपाण्डित्यस्य परिचायकः । अस्य हि प्रतिपाद्यो विषयः अङ्गदरावणसंवादरूपा रामायणीया कथा । क्लिष्टशैल्याश्रितोऽपि ग्रन्थोऽयं रसपरिपाकदृष्टया सफलः । कुत्रचिद्विचित्राः पदप्रयोगा अपि दृश्यन्ते । अत्र हि स्त्रपूर्ववर्तकवीनामपि श्लोकाः सङ्गृहीताः सन्ति । रामस्य दूतो भूत्वा अङ्गदः रावणप्रासादं गच्छति तदधिकृत्य प्रणीतमिति दूताङ्गदं नामास्यान्वर्थम् । तत्सिद्धिस्तु मतुबर्थीयाच्प्रत्ययेन । अस्य हि कवित्वं नाटकीयत्वक्षोभे एव प्रशस्ये। दिमात्रमुदाहरणं यथा-
सन्धौ वा विग्रहे वापि मयि दृते दशाननी।
अक्षता वा क्षता वापि क्षितिपीठे लुठिष्यति ।।[१००]
रे रे रावण रावणाः कति बहूनेतान् वयं शुश्रुम
प्रागेकं किल कार्तवीर्यनृपतेर्दोर्दण्डपिण्डीकृतम् ।
एक नर्तनदापितान्नकवलं दैत्येन्द्रदासीजनै:
रेकं वक्तमपि अपामह इति त्वं तेषु कोऽन्योऽथवा ।।[१०१]
रणरसिकसुरस्त्रीमुक्तमन्दारदामा
स्वयमयभवती लक्ष्मणत्यस्तहस्तः ।
विरचितजयंशब्दी वन्दिभिः स्यन्दनाङ्काद्
दिनकरकुललक्ष्मीवल्लभी रामभद्रः ।।[१०२]
एवमेव -
परमारवंश्यस्य धाराधीशस्यार्जुनवर्मणः सभाकविना मदनेत पारिजातमञ्जरी नाम्नी नाटिका प्रणीताऽस्ति । अन्योऽयं विजयश्रीसंज्ञयाऽपि ज्ञायते । अत्र सन्ति चत्वारोऽङ्काः । असौ हि बालसरस्वतीत्युपाधिनाऽपि विभूषित आसीत् । नाटिकाया अस्याः द्वौ अङ्कौ धारायां शिलापट्टे उट्टङ्कितौ स्तः । अत्र हि वय॑ते यदर्जुनवर्मण उरसि एका माला पतति नभस्तः । सा हि स्त्रीरूपे परिणमते भवति च तस्या अर्जुनवर्मणा सह परिणयः ।।
१२८७ मितवैक्रमाब्दमभितः स्थितिमता जयसिंहेन सूरिणा हम्मीरमदमर्दनं नाम पञ्चाङ्कं नाटकं प्रणीतमस्ति यत्र वीरधवलेन धोलकनरेशेन गुर्जरेषु आक्रामकाणां यवनानां पराजयो वणतः ।। ३५७ मितवैक्रमाब्दमभितः स्थितिमता प्रह्लादेन परमार वंश्येन पार्थपराक्रमव्यायोगः प्रणीतः । अत्र हि विराटगोहरणसक्तानां कौरवानामुपरि पार्थस्य विजयो वर्णितः । १३६० मितवैक्रमाब्दाभ्यणे स्थितिमान् मोक्षादित्यो भीमविक्रमाख्यव्यायोगं प्रणीतवान् ।
१३६१ मितवैक्रमाब्दाभ्यर्णे स्थितिमता रामभद्रमुनिना षडङ्कं प्रबुद्धरौहिणेयनामक नाटकं प्रणीतमस्ति । अत्र हि साहसिकस्य रौहिणेयस्य पराक्रमो वर्णितः । केरलराजवंश्येन रविवर्मणा १३६१ मितवैक्रमाब्दाभ्यर्णे पञ्चाङ्क प्रद्युम्नाभ्युदयनाटकं प्रणीतमस्ति । अत्र हि वज्रपुरराजस्य वज्रनाभस्य नाशों वणितस्तथा प्रद्युम्नस्य राजपुत्र्या प्रभावत्या सह परिणयोऽपि ।
१३५५ मितवैक्रमाब्दमभितः स्थितिमतो गोविन्दभट्टपुत्रस्य पाण्ड्यराजाश्रितस्य हस्तिमल्लस्य सन्त्यनेकानि रूपकाणि प्रसिद्धानि, येषु विक्रान्तकौरवं, मैथिलीकल्याणं, अञ्जनापवनञ्जयं, सुभद्रा, उदयनराजं, भरतराज अर्जुनराजं, मेघेश्वरञ्चेति प्रभृतीनि ज्ञातानि । कविरसौ नितान्तप्रतिभासम्पन्न आसीत् । विक्रान्तकौरवे सन्ति षडङ्काः। तत्र सोमप्रभस्य राज्ञः पुत्रस्य जयकुमारस्य अकम्पनस्य पुत्र्याः सुलोचनायाश्च परिणयप्रसङ्गो र्वाणतोऽस्ति । इदं हि रूपकं शृङ्गारवीरसारम् । वारङ्गलराजस्य रुद्रदेवस्य (१३६० वै०) एका नाटिका, ययातिचरितं नाटकञ्च प्रसिद्धग्रन्थौ । ११३६० मितवैक्रमाब्दीभ्यर्णे स्थितिमान् विद्यानाथः प्रतापरुद्रियकल्याण पञ्चाङ्कं नाटकं प्रणीतवान् । अत्र हि वर्गलस्य राज्ञः प्रतापरुद्रस्य (१३५१-३८२ वै० ) राज्यारोहणं वणितम् । ग्रन्थोऽयमस्यैव कवेः प्रतापरुद्रयशोभूषणं साहित्यशास्त्रे समावेशितमस्ति ।
विद्यानाथस्य भ्रातुष्पुत्रेण नरसिंहाख्येन १४०७ मितवैक्रमाब्दाभ्यर्णे कादम्बरीकल्याणमष्टाकं नाटकं प्रणीतमस्ति यत्र कादम्बरी कथा नाटकीयरूपेण प्रस्तुता । नरसिंहस्यानुजेन विश्वनाथेन १४०७ मितवैक्रमाब्दाभ्यणे हे रूपके प्रणीते स्तः सौगन्धिकाहरणग्यायोगः चन्द्रकलानाटिका च । १३५० मितवैक्रमाब्दाभ्यणे कविशेषरोपाधिविभूषितेन ज्योतिरीश्वरेण धूर्तसमागंमाख्यं प्रहसनं प्रणीतमस्ति ।
भास्कराख्येन केनचिद्विदुषा सम्भवतः १४०७ मितवैक्रमाब्दाभ्यॆण स्थितिमता उन्मत्तराघवं नामैकाङ्निाटकं प्रणीतमस्ति विक्रमोर्वशीयस्य चतुर्थमङ्मनुसृत्य । अत्र हि सीतावियोगेनोन्मत्तो रामश्चित्रितोऽस्ति । देवी सीता स्त्रीनिषिद्धं किञ्चिदुपवनं प्रविशति गच्छति चादृश्यताम् । तद्विरहेण राम उन्मत्त इवाचरति । तस्योपरि दयां कृत्वा मुनिरगस्त्यः सीताप्राप्त्युपायमुपदिशति । स एव तौ सम्मेलयति च ।
विजयनगरस्य राज्ञो द्वितीयहरिहरस्य पुत्रेण विरूपाक्षेणापि उन्मत्तराघवं नामैकाङ्निाटकं प्रणीतमस्ति । अस्यापि स्थितिकाल: १३६० मितवैक्रमाब्दमभितोऽनुमितः । इदं हि प्रेक्षणकनाटकमुच्यते समालोचकैः । सीताहरणजन्यशोकेन राम उन्मत्त आसीत् । लक्ष्मणो हि सीताया हर्तारं रावणमाक्राम्यति संम्पादयति च तस्य वधमपि । यदा हि लक्ष्मणो रावणं हत्वा सीतामादाय प्रत्यागतस्तदैव रामः स्वप्रकृतिमागतः । कवेरस्यैवापरं नाटकं नारायण विलासाख्यम् ।
१३७५ मितवैक्रमाब्दाभ्यणे माणिकनाम्ना केनचिन्नैपालदेशीयकविना भैरवानन्दं नाम नाटकं प्रणीतमस्ति । अत्र हि भैरवस्य मदनवत्याख्यया क्रयाचित् स्वर्गीयदेव्या सह प्रेमप्रसङ्गो वणतः ।
कुवलयावली
[सम्पादयतु]श्रीशैलाधीशेन रेकालवंश्येन रसार्णवसुधाकरप्रणेत्रा शिङ्गभूपालेन १३८७ मितवैक्रमाब्दाभ्यणे कुवलयावली नाम्नी रन्नपाञ्चालिकाऽपराभिधा नाटिका प्रणीताऽस्ति । अत्र चत्वारोऽङ्का यत्र श्रीकृष्णस्य कुवलयांवल्या सह प्रेमप्रसङ्गो वणतोऽस्ति । नाटिकेयं ' रत्नावलीमेनुकरोति कथासंयोजने । नारदो हि देवषिः कुवलयावलीं रुक्मिणीहस्ते न्यासरूपेण निक्षिपति । कालयवनं हत्वा प्रतिनिवृत्तः श्रीकृष्ण उद्यानगतस्तां पश्यति सोऽपि तम् । तत्र तयोरेनुराग उत्पद्यते परस्परम् । पश्चाच्च रुक्मिणीप्रसादेन तयोमिलनं सम्पद्यते । | नाटिकेयं वस्तुतो नाटयसाहित्यं श्रीहर्षयुगमभितः प्रत्यावर्तयति । अत्र न हि मनागपि प्रयोगकाठिन्यं नैव च पाण्डित्यप्रदर्शनप्रयासः । अस्याभिनेयता तु रत्नावलीमपि अतिशेते । अस्य हि सारल्यं सारस्यञ्च निभालनीयं विद्यते । दिङ्मात्रनिर्दशनं यथा -
प्रत्यालोकनलालसैरपि सखे मन्दाक्षमन्दीकृतैः
सव्याजं प्रविसारितैरपि परं कातर्यपर्याकुलः ।
संवादे परिर्वाततैरनुपदं गाम्भीर्यसम्प्रेक्षितैः
विक्रीतोऽस्मि विलोकितैर्वरतनोराकूतकर्णेजपैः ॥[१०३]
तथैव -
आस्ते पीठे क्षणमिव बहिर्मन्त्रिवृद्धानुरोधाद्
धत्ते हेलां परिजनवचोविक्रियासु क्रियासु ।
नेच्छत्यन्तःपुरपरिचयं राजकार्यापदेशात्
तस्याः प्रेम्णा तरलतधृतिश्चक्रवर्ती यदूनाम् ।।[१०४]
गौरीदिगम्बरप्रहसनम्
[सम्पादयतु]प्रसिद्धविपश्चिती भवनाथमिश्रस्य तनुजेन भवानीदेव्यां जातेन शङ्करमिश्रेण मैथिलमहाराजपुरुषोत्तमाश्रितेन १३६० मितवैक्रमाब्दमभितः स्थितिमता शङ्करमिश्रेण सन्ति त्रीणि रूपकाणि प्रणीतानि गौरीदिगम्बर प्रहसनं, कृष्णविनोदनाटक, मनोभवपराभवनाटकञ्च। तत्र गौरीदिगम्बरप्रहसनं भगवतो महादेवस्य गौर्याश्च विवाहप्रसङ्गमादाय प्रणीतम् । इदं हि बेपतुर्भवनाथस्याज्ञया प्रणीतमासीद्यस्य नान्दीश्लोकः, स च यथा-..
दिदीन्दीन्दीन्दीधधिकतनदन्नन्दिमुरजं
द्रणद्राणद्राणद्रणरणरणङ्घर्घररवम् ।
स्फुरत् फू फू फू फू फणिपतिफणफूत्कृतिशतं
शिवम्भूयो भूयः प्रथमनरमाख्यन्दिशतु वः ॥[१०५]
एतत्पूर्वमेव कविना पूर्वोक्ते द्वे नाटके प्रणीते आस्तामित्यस्य प्रस्तावनातो ज्ञायते । कृतिरियं स्वप्रकृतौ नितान्तमेव सफलम् । भगवन्मैनाकसंवादः, नन्दिनः स्वामिनिमित्तं चिन्ता, नारदवाक्यञ्च वास्तवमेव हास्योत्पादकम् । नन्दिनः परितापो यथा -
‘मण्डपप्रवेशावसरे नारीसहस्रेण परिवार्यमाणस्य यदि मान्मथो विकारः स्यात्तदा च किं स्यात् ।'
तथैव ब्रह्मणो वाक्यं यथा‘अद्य वैशाखशुक्लामावास्यायां तिथौ' इत्यादि।
मल्लिकामारुतम्
[सम्पादयतु]१४६० मितवैक्रमाब्दमभितः स्थितिमता उद्दण्डाख्येन कविना मल्लिकामारुतं नाम दशाङ्कं प्रकरणं प्रणीतमस्ति । इदं हि मालतीमाधवस्य स्पष्टमनुकरणमेव ।, प्रकरणस्य प्रस्तावनायामसौ एकत्र उद्दण्ड कविरिति अन्यत्र दण्डिकविरिति च कथितोऽस्ति । समाप्तिवाक्यं तु यथा -
उद्दण्डं रङ्गनाथः सुतमलभत यं रङ्गदेवी तथाम्बा
जैविद्येशो महर्षािनिरवधिमहिमा यद्धिते जागरूकः ।
तस्य श्रीविक्रमाज्ञाबहुमतिरचिते मल्लिकामारुतेऽस्मिन्
मूर्धन्योऽगन्निवानां प्रकरणतिलके निष्कलङ्को'••••••" ।
प्रस्तावनायोमुक्तमस्ति यद् -
“तत्रं च अमुष्यायणस्य आपस्तम्बशाखाध्यायिनो वाधूलकुलतरुपल्लवस्य कवितावल्लभस्य पञ्चमोञ्चितकीर्तेरुपाध्यायगोकुलनाथपौत्रस्य श्रीकृष्णसूनोः भट्टरङ्गनाथस्य प्रियनन्दनः इरुगुपनाथापरपर्यायो दण्डिकविर्नाम इति ।”
श्लाघ्यः सत्कवितासु षट्स्वपि पटुर्भाषासु सत्त्वं क्षितौ ।।
सर्वोद्दण्डकविः प्रकाण्डददसे कंस्मै न विस्मेरताम् ॥
अनेनं हि विक्रमाख्यस्य नृपस्याज्ञया प्रकरणमिदं प्रणीतमित्यपि तत्रोल्लिखितमस्ति । परन्तु विक्रम इति तत्र नैव स्पष्टम् । स हि ताम्रचूडक़ीडनगरस्य शासक इति सङ्केतस्तत्र मिलति । केचिदमुं कल्याणनरेशं षष्ठविक्रमादित्यं त्रिभुवनमल्लं ( ११३३-११८३ वै०) मन्यन्ते यस्य सभायां विल्हण-विज्ञानेश्वरप्रभृतयः कवयो विचक्षणाश्चासन् । ग्रन्थप्रस्तावनायां 'कथितमप्येतन्मीमांसकचक्रवर्तना महर्षिपुत्रेण परमेश्वरेण' इति यदुक्तं सम्भवति तद्विज्ञानेश्वरमेव सङ्केतितं स्यात् । सति तथा तु कवेरस्य वैक्रमद्वादशशतकमभितः स्थितिकालः सम्भवति। केवित्त्विम काव्यादर्शस्य प्रणेतुर्दण्डिकवेरभिन्नमेव मन्यन्ते । तन्मते तस्य उद्दण्ड इति उपाधिरेव प्रौढपाण्डित्यस्य कृते राजसमर्पतः । ते हि ग्रन्थस्यास्य काव्यादर्शेन सह रचनासाम्यमपि पश्यन्ति । यथा हि मल्लिकामारुते-
स्पर्श एव हृदयङ्गमः सुधावर्षवद्वपुषि को विभाव्यते ।।
चन्द्रचन्द्रमणिहारमालतीगन्धसारघनसारशीतलः ।।
एवमेव काव्यादरे -
चन्दनोदकचन्द्रांशुचन्द्रकान्तादिशीतलः ।
स्पर्शस्तथेत्यतिशयं बोधयन्ति बहूपमा ।।
इति । एवमेव मल्लिकामारुते -
‘सञ्चरन्ति मृगनाभिचचता मेचकाम्बरकृतावगुष्ठनाः।
प्राणनाथमभिसर्तुमुद्यताः सुध्रुवस्तिमिरदेवता इव ॥
एवमेव काव्यादर्शोऽतिशयोक्तिस्थले -
मल्लिकामालभारिण्यः सर्वाङ्गीणाईचन्दनाः ।
क्षौमवत्यो ने लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः ॥[१०६]
तथैव एतत्प्रकरणे -
'मध्योऽस्ति वा नास्ति वा' एवमेव संशयातिशयोक्त्युदाहरणे काव्यादर्शे -
स्तनयोर्जघनस्यापि मध्ये मध्यं प्रिये तव ।
अस्ति नास्तीति सन्देहो न मेऽद्यापि निवर्तते ॥[१०७] इति ।
ते एतदपि कल्पयन्ति यत् त्रिषु दण्डिप्रबन्धेष्विदमन्यतममिति, तदनुसारेण हि प्रबन्धद्वये एव तत्र तत्र वर्णनप्रकाराणां परस्पराभेदसंवादितया ईदृशवर्णनप्रकाराणामेतत्प्रबन्धद्वयादन्यत्र प्रायशो दृष्टचरत्वाभावाच्चैतत्प्रबन्धद्वयनिर्मात्रोरन्यतरस्य चोरकवित्वापातः । प्रबन्धे एव उद्दण्डदण्डिशब्दौ निवशेषरूपेण प्रयुक्तौ दृश्येते । तेन हि तयोरैक्यं निश्वप्रश्नम् । मतस्यास्य समर्थकानामग्रणीज़वानन्दः । स हि स्वप्रणीतपरिमलाख्यव्याख्यायां प्रबन्धस्यास्य स्पष्टमेव वदति -
“अथ तत्र भवान् महाकविरुद्दण्डापरनामा दण्ड्याचार्यः•••••' इत्यादि जीवानन्दस्य तर्को नितान्तं युक्तियुक्तः । किन्तु काव्यांदशें हि
इति साक्षात्कृते देवे राज्ञो यद्राजवर्मणः ।
प्रीतिप्रकाशनं तच्च प्रेय इत्यवगम्यताम् ॥[१०८]
इत्यत्र राजवर्मणः पाठान्तरे रातवर्मणः तथैव -
नासिक्यमध्या परितश्चतुर्वर्णविभूषिता।।
अस्ति काचित्पुरी यस्यामष्टबर्णाह्वया नृपाः ॥[१०९]
इत्यत्र काञ्चीनगरीं पुण्डूकवंश्यनृपश्च स्मरति । किन्तु मल्लिकामारुतस्य प्रणेता तु लाटपुराभिजनः ताम्रचूडक्रीडनगरं विक्रमाह्वयञ्च राजानं स्मरति । ग्रन्थयोरेवोभयोरेककर्तृकत्वे उभयत्र हि समीनस्थानेन समानेनैव नृपेण च स्मृतेन भाव्यम् । वस्तुतस्तु विषयोऽयमधिकतमनुसन्धानमपेक्ष्यते । सामान्यतः कावरसौ दण्ड्याचार्याद्भिन्न एवेति बहवो विश्वसन्ति ।
प्रकरणेऽस्मिन् विश्वावसुनन्दिन्या मल्लिकाया कुन्तलेश्वरामात्यस्य ब्रह्मदत्तस्य पुत्रेण मारुतेन सह प्रणयप्रसङ्गो वर्णितः । अन्थेऽस्मिन् न पदलालित्यं नैव चाभिनेयता । केवलं हि कवेः ग्रन्थप्रणयनकुतुहलशामक एवायं ग्रन्थः । प्रायशोऽप्रचलितशब्दानामत्र प्रयोगः पाण्डित्यसिद्धये। भावभाषादिदृष्ट्याऽपि ग्रन्थोऽयं न तथा प्रशस्यः।
रूपकत्रयी
[सम्पादयतु]वामनभट्टबाणाख्यस्य कवेः पार्वतीपरिणयनाटकं कनकलेखाकल्याणनाटिका शृङ्कारभूषणभाणश्चेति त्रयः प्रबन्धाः प्रथिताः। कविरसावपि स्वजीवनविषये मौनमेबावलम्बते । असौ हि वत्सान्वयसम्भवो विप्रः । अस्य स्थितिकालः १४७० मितवैक्रमाब्दमभितोऽनुमितः कश्चित्कैश्चिच्च वैक्रमसप्तदशशतकोत्तरार्द्धमभितः । केचिदस्य बाणभट्टस्य कादम्बरीकृत ऐक्यमनुमान्ति किन्तु तन्न युक्तियुक्तम् । कादम्बरीकृद् वात्स्यायनवंशसम्भवोऽसौ तु वत्सान्वयभवः । भावभाषादिदृष्ट्याऽपि न तत्सङ्गच्छते । कादम्बरीकृतः कृते कालिदासः केवलंमतीतविषयः किन्तु पार्वतीपरिणये तु कालिदास एव रूपान्तरेण वक्ति । पार्वतीपरिणयं हि पञ्चाङ्कं नाटकम् । कुमारसम्भवकथाश्रिते नाटकेऽस्मिन् पार्वतीशिवयोः परिणयप्रसङ्गो वणितोऽस्ति । नाटकस्यास्योपादेयताविषये 5विः स्वयमेव सूत्रधारमुखेन कथयति
सन्निधानस्य सामग्यं रसानां परिपुष्टता।।
सन्दर्भसौकुमार्यञ्च सभ्यानां रञ्जने क्षमम् ॥[११०] इति ।
वस्तुतः एव नाटकस्यास्य कवित्वमभिनेयत्वञ्च प्रशस्यं दृश्यते । सत्यमेवोक्तं तेन स्वयमेव -
'नृत्यति यदसनायां वेधोमुखलासिको वाणी' । इति । अस्य हि कवित्वं यथा-
जगत्रयीलोचनबालचन्द्रिका कुलस्य रत्नं भवती क्व भूभृतः ।
क्व कृत्तिवासाः पितृकानने वसन्नमङ्गलाचाररतिस्त्रिलोचनः ।।[१११] इत्यादि ।
एवमेव काशीपतिकविराजस्य मुकुन्दानन्दसंज्ञितो भाणः ।[११२]
प्रकीर्णम्
[सम्पादयतु]१५१७ मितवैक्रमाब्दाभ्यर्णे स्थितिमता गङ्गाधरेण गङ्गादासप्रतापविलासाख्यं नाटकं प्रणीतमस्ति । अत्र १५०७ मितवैक्रमाब्दाभ्य स्थितिमतो राजकुमारस्य चम्पानीरस्य गुर्जरशासके शाहाख्येन सह युद्धप्रसङ्गो वणतोऽस्ति । वैक्रमपञ्चदशशतकोत्तरार्द्धभवेन हरिहराख्येन केनचित्कविना भर्तृहरिनिर्वेदाख्यं नाटकं प्रणीतमस्ति । अत्र हि राज्ञो भर्तृहरेर्वैराग्यं सप्रपञ्चं वणितमस्ति । केचिदस्यैव कवेः कृतित्वेन प्रभावतीपरिणयाख्यं नाटकमप्यामनन्ति केचित्तत्प्रत्याख्यान्ति । प्रत्याख्यानपक्षानुसारेण हि प्रभावतीपरिणयस्य प्रणेता हि मैथिलः १६५२ मितवैक्रमाब्दाभ्यणे जात आसीत् । प्रभावतीपरिणयं हि सप्ताङ्कं नाटकं यत्र श्रीकृष्णात्मजस्य प्रद्युम्नस्य प्रभावत्या सह परिणयप्रसङ्गो वर्णितः । इदं हि शृङ्गारोद्भावितं नाटकम् । भर्तृहरिनिर्वेदं तु शान्तरसभूयिष्ठम् । वस्तुतस्तु भर्तृहरिनिर्वेदकृद्धरिहरो धर्मशास्त्रमग्नचित्तः शान्तरसानुगतो यदा प्रभावतीपरिणयस्य प्रणेता कविहृदयः शृङ्गारचेताश्च । प्रथमे हि विषयप्राधान्यं द्वितीये कवित्वस्याभिनेयत्वस्य च सुन्दरः समन्वयः । अतस्तयोरैक्यं न तथा सिध्यति ।
१५६० मितवैक्रमाब्दमभितः स्थितिमतो रूपगोस्वामिनः सन्ति त्रीणि रूपकाणि प्रथितानि, यत्र सप्ताङ्क विदग्धमाधवं, दशाङ्कं ललितमाधवं दानकेलिकौमुदीभाणश्च । एषु हि श्रीकृष्णस्तुतिपरक एव विषयो वणतः । । मैथिलस्य हि गोकुलनाथस्य १६१५ मितवैक्रमाब्दाभ्यणें स्थितिमतः मुदितमदालसानाटकं सप्ताङ्कममृतोदयाख्यं रूपकात्मकं नाटकञ्च प्रसिद्धम् । अमृतोदये हि विवेकान्मोहस्य पराजयो वणतः । . १६३० मितवैक्रमाब्दमभितः स्थितिमता रत्नखेटश्रीनिवासदीक्षितेन भैमीपरिणयाख्यं नाटकं प्रणीतमस्ति यत्र नलदमयन्त्योः परिणयप्रसङ्गो वणतः । .:. १६४० मितवैक्रमाब्दमभितः स्थितिमता नेपालनरेशाश्रितेन राज्ञा जगज्ज्योतिर्मल्लेन हरगौरीविवाहाख्यं सङ्गीतप्रधानं नाटकं प्रणीतमस्ति ।
१६६० मितवैक्रमाब्दमभितः स्थितिमान् शेषकृष्णः कंसवधाख्यं सप्ताङ्कं नाटक प्रणीतवान् । अत्र कृष्णेन कंसस्य वधः, उग्रसेनस्य राज्यारोहणमित्यादिकथा वणता ।
| १६९० मितवैक्रमाब्दमभितः स्थितिमता यज्ञनारायणेन तञ्जीरस्य राज्ञो रघुनाथस्य ( १६७१-१६८९ ) चरित्मादाय रघुनाथविलासाख्यं नाटकं प्रणीतमस्ति ।। | १६९० मितवैक्रमाब्दाभ्य स्थितिमतो गुरुरामस्य संन्ति त्रीणि रूपकाणि
सिद्धीनि । तानि हि मदनगोपालविलासभाणः, सुभद्राविजयं नाम पञ्चाङकं नाटक, रत्नेश्वरप्रसादनाख्यञ्च पञ्चाङ्कं नाटकमिति १६९० मितवैक्रमाब्दनश्चितः सता राजचूडामणिना आनन्दराबवं नाम नाटक, केमलिनीकलहंसाख्यं नाटक अङ्गारसर्वस्वभाणश्च प्रणीताः सन्ति ।।
१७१० मितवैक्रमाब्दाभ्य सता नीलकण्ठेन कविना नलचरिताख्यं घडकं नाटकं प्रणीतमस्ति । नाटकभिमणमेव प्रतिभाति ।
१७१० मितवैक्रमाब्दमभितः सता हि वेङ्कटाध्वरिणा प्रद्युम्नानन्दं नाम षडकं नाटकं प्रणीतमस्ति यत्र हि प्रद्युम्नस्य रत्या सह परिणयो वणतः। १७२० मितवैक्रमाब्दाभ्यणें स्थितिमता रुद्रदासन चन्द्रलेखाख्या नाटिका प्रणीताऽस्ति यत्र चन्द्रलेखाया मानवेदराजस्य परिणयो वर्णितः ।। . १७०८ मितवैक्रमाब्दमभितः सता महादेवाख्येन कविना अद्भुतदर्पणं नाम नाटकं प्रणीतमस्ति संविदूषकम् । अत्र हि लङ्कायां घटिता घटना वणताः सन्ति ।
१७५० मितवैक्रमाब्दमभितः स्थितिमता रामभद्रेण जानकीपरिणयं नाम नाटकं प्रणीतमस्ति यत्र हि प्रचलितकथायां कल्पितोऽप्यंशो भूम्ना निक्षिप्तोऽस्ति । अस्यैव कवेः शृङ्गारतिलकभाणोऽपि प्रसिद्धो यो हि अय्याभाण इत्यपि कथितः । १७६० मितवैक्रमाब्दाभ्यणें सतो नल्लाकवेः सुभद्रापरिणयनाटकं शृङ्गारसर्वस्वभाणश्च प्रसिद्धग्रन्थौ ।
१७७० मिंतवैक्रमाब्दाभ्यणे स्थितिमान् कवितार्किकः कौतुकरत्नाकरनामकं प्रहसनं प्रणीतवान् । ।
१७७५. मितवैक्रमाब्दमभितः स्थितिमतः सामराजस्य धूर्तनर्तकं नाम प्रहसनं श्रीदामचरितं नाम पञ्चाङ्कं नाटकं प्रसिद्धमस्ति ।। ....१७८०' मितवैक्रमाब्दमभितः स्थितिमतः श्रीलक्ष्मीधरात्मजस्य विश्वेश्वरपण्डितस्य रुक्मिणीपरिणयं नाम नाटकं, नवनाटिकानाम्नी नाटिका शृङ्गारमञ्जरीसट्टकञ्च प्रसिद्धानि ।
१८१० मिंतवैक्रमाब्दाभ्यणें सता देवराजाख्येन कविना बालमार्तण्डविजयाख्यं नाटकं प्रणीतमस्ति । पञ्चाङ्केऽस्मिन् नाटके ट्रावनकोरनरेशस्य • मार्तण्डवर्मणश्चरितं चित्रितमस्ति।
१८२० मितवैक्रमाब्दमभितः स्थितिमतो वरदाचार्यस्य वसन्ततिलकभाणः प्रसिद्धः । १८२० मितवैक्रमाब्दमभितः स्थितिमतो घनश्यामस्य कवेः सन्ति शताधिका ग्रन्थाः प्रणीताः, येषु मदनसञ्जीवनाख्यो भाणः, द्वे सट्टके नवग्रहचरितं आनन्दसुन्दरी च, डमरुकाख्यमेकं प्रहसनञ्च । .. १८१४–१८४६ : मितवैक्रमाब्दान्तराले स्थितिमतष्ट्रावनकोरयुवराजस्य रामवर्मणः स्तो हे नाटके प्रसिद्धे, रुक्मिणीपरिणय शृङ्गारसुधाकर । १८३० मितवैक्रमाब्दाभ्यणें सतो विश्वनाथाख्यस्य कवेः मृगाङ्कलेखाख्या नाटिका प्रसिद्धा रत्नावलीमनुसृत्य प्रणीता।
१८७७ मितवैक्रमाब्दमभितः प्रणीतो रामाख्यकवेः मन्मथोन्मथनाख्यो डिमः प्रसिद्धोऽस्ति ।
१८३०-१८७० मितवैक़माब्दान्तराले स्थितिमतो धर्माधिकारिकृष्णपण्डितस्य कामकन्दलं नाम नाटकमस्ति । अत्र सन्ति त्रय एवाङ्काः । नाटकेऽस्मिन्नस्ति महान् शब्दाडम्बरः किन्तु नाटकीयत्वं तु नाममात्रमेव । | कोटिलिङ्गरस्य राजकुमारेण युवराजाख्येन १९०७ मितवैक्रमाब्दमभितः प्रणीतो रससदनभाणी भाणेषु नृपायते । | अज्ञातकालमपि जगदीशभट्टाचार्यस्य द्वयङ्कक प्रहसनं हास्यार्णवं प्रहसनकाव्येषु वरिष्ठम् ।। । एवमेव मथुरादासस्य वृषभानुजा, गोपीनाथस्य कौतुकसर्वस्वं, नीलकण्ठ-. स्य कल्याणसौगन्धिकं, लोकनाथस्य कृष्णाभ्युदयं, कृष्णमिश्रस्य वीरविजयं, शङ्करकवेः शारदातिलकं, रामकृष्णस्य गोपालकेलिक्रीडा, माधवस्य सुभद्राहरणञ्च कानिचिज्ज्ञातानि रूपकाणि येषां प्रणयनकालो नैवाधुनाऽपिज्ञातः ।
१९१० मितवैक्रमाब्दाभ्यर्णे स्थितिमतो मुकुन्दाख्यकवेः जानकीपरिणयऋतुष्वङ्केषु विभक्तः । अत्र हि सीतास्वयंवरादारभ्य रामायणीया कथा स्वप्रतिभयाऽप्युद्भाव्य संक्षेपेण वणताऽस्ति । वस्तुतस्त्वयं काव्यमेव यतो ह्यस्य नास्त्यभिनेयत्वं रङ्गे । अत्र हि श्राव्यमेव वस्तु भूम्ना। | १९४३ मितवैक्रमाब्दमभितः स्थितिमतो मूलशंकरंमाणिक्यलालयॉज्ञिकस्य छत्रपतिसाम्राज्यं संयोगितास्वयंवर प्रतापविजयञ्चः सन्ति प्रसिद्धी ग्रन्थाः । तेषु हि
छत्रपतिसाम्राज्यं हि दशाङ्कं नाटकम् । अत्र गहाराजशिवस्य छत्रपतित्वप्राप्तिर्वणिता । संयोगितास्वयंवरे जयचन्द्रसुतायाः संयोगितायाः पृथ्वीराजस्य चाहमानवेश्यस्य च प्रणयप्रसङ्गो वर्णितः । प्रतापविजये तु प्रतापसिंहस्य विजयकार्याणि वणतानि ।
राधाप्रसादात्मजस्य, विद्वन्मर्धन्यस्य कपिलदेवद्विवेदिनोः वर्तमानशतकीनस्य परिवर्तनं नाम समयप्रतिबिम्बिः नाटकं साम्प्रतिकविचक्षणेषु
अत्र सन्ति पञ्चाङ्काः द्रव्यार्जन-न्यायालयनिर्णयाख्याः । विवाहनिश्चय-गृहविक्रय-विवाहोत्सवपरशूरामात्मजेन लोकमणिना नेपालभिजनेन द्विजेन वत्सान्वयजातेन गत चतुरङ्किका कमलाक्षी नाम नाटिका । अत्र हि पर्वतराजपुत्र्याः मलायाः पालपेश्वरपुत्रस्यार्पनेतूना सहयप्रसङ्गो वमतः ।
इत्थं भासादारभ्य लोकमणिपर्यन्तं सन्त्यनेकैः कविभिः प्रणीतानि विविधानि रूपकाणि ज्ञातानि तथैव सम्भवन्ति कतिपयान्यज्ञातान्यपि वा कालकवलितानि । तानि च रूपकाणि सन्ति दशसु मुख्यभेदेषु विभक्तानि अष्टादशसु उपभेदेषु च । तत्र नाटक-प्रकरण-भाण-व्यायोग-समवकार-डिम-ईहामृग-अङ्क बीथी-प्रहसनाख्या रूपकस्य मुख्यभेदाः । तथैव नाटिका-त्रोटक-गोष्ठी-सट्टकनाट्यरासक-प्रस्थान-उल्लाप्य-काव्य - प्रेक्षण - रासक - संलापक - श्रीगदितशिल्पक-विलासिका-दुर्मल्लिका-प्रकरणी-हल्लीशाभाणिकाख्यानि अष्टादशोपरूपकाणि । विना विशेष सर्वेषां लक्ष्म नाटकवन्मतम् । तत्र -
नाटक ख्यातेतिवृत्तं यथास्थानं मुख-प्रतिमुख-गर्भ-विमर्श-उपसंहारेतिसन्धिपञ्चकयुतं विलास-ऋद्धि-प्रभृतिनानाविभूतियुक्तं सुखदुःखसमुभूतियुक्तं नानारसविलसितं भवति । तत्र चतुरधिको अङ्का दशपराः, प्रख्यातवंशो धीरोदात्तप्रकृतिको राजर्षिर्नायकः, शृङ्गारवीरयोरन्यतमोऽङ्गिरसोऽन्ये त्वङ्गानि, निर्वहणेऽद्भुतरसः, चत्वारः पञ्च वा मुख्यपुरुषाः, बन्धनन्तु गोपुच्छाग्रसमानम् । भासस्य स्वप्नवासवदत्तं, सुबन्धोर्वत्सराजचरितं, कालिदासस्य अभिज्ञानशाकुन्तलं, दिङ्नागस्य कुन्दमाला, श्रीहर्षस्य नागानन्दं, भवभूतेरुत्तररामचरित, विशाखदत्तस्य मुद्राराक्षसम्, भट्टनारायणस्य वेणीसंहारम्, जयदेवस्य प्रसन्नराघवं च कानिचित्प्रख्यातनाटकानि । रामायण, महाभारत, पुराणानि, इतिहासश्चैषां कथाधाराः ।
प्रकरणे वृत्तं कविकल्पितं भवति नायकश्च विप्रो वा वणिक् । धीरप्रशान्तप्रकृतिकः शृङ्गारोऽङ्गी रसः। शेषं नाटकवद्भवति । कानिचित्प्रकरणानि यथा भासस्य दरिद्रचारुदत्तं, शूद्रकस्य मृच्छकटिक, भावभूतेर्मालतीमाधवं, उद्दण्डकवेर्मल्लिकामारुतं, रामचन्द्रस्य कौमुदीमित्रानन्दं, रामभद्रस्य प्रबुद्धरौहिणेयं, यशश्चन्द्रस्य मुद्रितकुमुदचन्द्रं च ।
भाणो हि धूर्तचरितो नानावस्थान्तरात्मक एकाङ्कः एकपात्रकः । इतिवृत्तं तत्रोत्पाद्यं शृङ्गारवीरौ सूच्यौ मुखनिर्वहणे सन्धी । यथा हि शूद्रकस्य पद्माप्राभृतकं, वररुचेरुभयाभिसारिका, ईश्वरदत्तस्य धूर्तविटसंवादः, श्यामिसकस्य पादताडितकं, बाणस्य मुकुटताडितकम्, वामनभट्टबाणस्य शृङ्गारभूषणम्, रामभद्रस्य शृङ्गारतिलकम्, वरदाचार्यस्य वसन्ततिलकं, शङ्करकवेः भारदातिलकम्, नल्लाकवेः शृङ्गारसर्वस्वम्, युवराजस्य रससदनभाणः, अज्ञातकर्तृको लीलामधुकरः, वत्सराजस्य कर्पूरचरितम्, कविराजस्य मुकुन्दानन्दः, रूपगोस्वामिनो दानकेलिकौमुदी, गुरुरामस्य मदनगोपालविलासः, राजचूडामणेः शृङ्गारतिलकम, घनश्यामस्य मदनसञ्जीवनञ्च ।
प्रहसनं हि कविकल्पितं निन्द्यानां वृत्तम् । अत्र नारभटी न च विष्कम्भकप्रवेशकौ । अङ्गिरसो हास्योऽत्र । सन्ध्यादयस्त्वत्र भाण इव । कानिचित्प्रहसनानि यथा बोधायनस्य भगवदज्जुकम्, महेन्द्रविक्रमवर्मणो मत्तविलासः, शङ्खधरस्य लटकमेलकं, ज्योतिरीश्वरकविशेखरस्य धूर्तसमागमः, जगदीश्वरस्य हस्यार्णवः, गोपीनाथस्य कौतुकसर्वस्वं, सामराजस्य धूर्तनर्तकम्, अज्ञातकर्तृकं दामक, कविताकिकस्य कौतुकरत्नाकरम्, घनश्यामस्य डमरुकं च । । व्यायोगः ख्यातेतिवृत्तः स्वल्पस्त्रीपात्रकः, हास्यशृङ्गारशान्तवर्जमङ्गी, एकाङ्कश्च । केचिद्व्यायोगा यथा भासस्य मध्यमव्यायोगः, दूतवाक्यं, दूतघटोत्कचः, कर्णभारं, ऊरुभङ्गः, कनकाचार्यस्य धनञ्जयविजयः, रामचन्द्रस्य निर्भयभीमः, प्रह्लादस्य पार्थपराक्रमः, वत्सराजस्य किरातार्जुनीयव्यायोगः, विश्वनाथस्य सौगन्धिकाहरणं, कञ्चनपण्डितस्य धनञ्जयविजयः, मोक्षादित्यस्य भीमविक्रमम्, च ।
समवकारो वीरो रसो देवासुराश्रयं वृत्तं नायकास्तु द्वादश । यथा वत्सराजस्य संमुद्रमन्थनम् । डिमो हि ख्यातवृत्तौ रौद्रप्रधानश्चतुरङ्ककः । यथाऽज्ञातकर्तृकस्त्रिपुरदाहः, वेङ्कटवर्यस्य कृष्णविजयः, रामकवेः मन्मथोन्मथनम् । ईहामृगो हि मिश्रवृत्तश्चतुरङ्ककः । अत्र नरदिव्यानियतौ नायकप्रतिनायकौ । यथा वत्सराजस्य रुक्मिणीपरिणयः अज्ञातकर्तृकः कुसुमशेखर विजयः । अङ्के हि प्रसिद्धं वृत्तं, प्रधानो रसः करुणः । यथा भास्करकवेरुन्मत्तराघवम्, अज्ञातकर्तृकः शर्मिष्ठाययातिः । बीथीकथिते रूपकभेदे एक एवाङ्कः शृङ्गारो हि सूच्यो रसः । यथा माधवीवीथी, मालविका व । एवमेवाष्टादशोपरूपकाणि । तानि चेत्थम् -
नाटिका क्लुप्तवृत्ता स्त्रीप्राया चतुरङ्किका यत्र धीरललितः प्रख्यातो नायकः । यथा हिश्रीहर्षस्य रत्नावली, प्रियदर्शिका, मदनपालस्य पारिजातमञ्जरी, मथुरादासस्य वृषभानुजा, राजशेखरस्य विद्धशालभञ्जिको ।
श्रोटकं हि सप्ताष्टनवञ्चाङ्कं दिव्यमानुषसंश्रयं प्रत्यकं सविदूषकम् । यथा कालिदासस्य विक्रमोर्वशीयम्, अज्ञातकर्तृकं लम्भितरम्भम् ।। , गोष्ठी कामशृङ्गारयुक्ता नोदात्तवचना प्राकृतैः पुरुषैर्युक्ता । यथा रेवतमदनिका । सट्रकं हि प्राकृताशेषपाठ्यमप्रवेशकम् । यथा राजशेखरस्य कर्पूरमञ्जरी। नाट्यरासकं हि बहुगेयं हास्यप्रधानञ्च । यथा नर्मवती। प्रस्थानकं हीननायकं दासीनायिकञ्च । यथा शृङ्गारतिलकम् । उल्लाप्यं हि एकाङ्कमुदात्तनायकम् । यथा देवीमहादेवम् ।। काव्यमेकाङ्कं स्त्रीनायकम् । यथा यादवोदयम् ।। प्रेङ्खणमसूत्रधारं हीननायकञ्च । यथा बालिवधम् । रासकं हि पञ्चपात्रयुतं मूर्खनायकञ्च । यथा मेनकाहितम् । संलापकं हि चतुरङ्कं पाखण्डनायकम् । यथा मायाकापालिकम् ।। श्रीगदितं हि.प्रख्यातनायकद्वययुक्तम् । यथा क्रीडारसाहालम् । शिल्पकं चतुरङ्कं ब्राह्मणनायकम् । यथा कनकावतीमाधवम् । विलासिको शृङ्गारभूयिष्ठा एकाङ्का । नैवोदाहरणं श्रुतम् । दुर्मल्लिका चतुरङ्ङ्का कौशिकीवृत्तियुता । यथा बिन्दुमती। प्रकरणिका सार्थवाहादिनायका । अस्या अप्युदाहरणं मृग्यम् । हल्लीशः एकाङ्कः स्त्रीबहुलः । यथा केलिरैवतकम् ।। भाणिका हि भाणवदृप्ता । यथा कामदत्ता ।
सम्बद्धाः लेखाः
[सम्पादयतु]सन्दर्भाः
[सम्पादयतु]- ↑ नाट्यशास्त्रम् १/५६
- ↑ ४।२२।१०
- ↑ १।४
- ↑ ६-१६
- ↑ ९
- ↑ १/४
- ↑ ५॥१५
- ↑ १॥२
- ↑ १।४
- ↑ १-१६
- ↑ १।१०
- ↑ २/३
- ↑ ३।२०
- ↑ ७॥१७
- ↑ २॥१०
- ↑ ४।६
- ↑ ४/१८
- ↑ ३।३
- ↑ ५।२८
- ↑ २।२२
- ↑ १।१८
- ↑ १।२९
- ↑ १॥१८
- ↑ २/३
- ↑ ४/३
- ↑ ७/१९
- ↑ २/१२
- ↑ १।२२
- ↑ ३॥१५
- ↑ ३।१
- ↑ ५/३
- ↑ ३।५
- ↑ ३।१४
- ↑ २/६
- ↑ २।७
- ↑ ६/८
- ↑ ३।१५
- ↑ रत्ना० १॥२
- ↑ नागा० १॥१५, प्रिय० ३।१०
- ↑ ५।१६
- ↑ ३॥९२
- ↑ ३॥३३
- ↑ १॥३१
- ↑ १।१५
- ↑ २/९
- ↑ ३/४०
- ↑ ३/४७
- ↑ ५।२७
- ↑ ६/९६
- ↑ ६।३७
- ↑ २/७१
- ↑ ३/८८
- ↑ २॥४२॥३
- ↑ ३।१४४
- ↑ १/५४
- ↑ ३।४
- ↑ ३।३१
- ↑ ३।४७
- ↑ १/२७
- ↑ १।३५
- ↑ मालती० १॥४
- ↑ उत्तर० १॥३९
- ↑ मालती ६।१८
- ↑ उत्तर० ३।१७
- ↑ ३।३३
- ↑ ६।१२
- ↑ १।१०
- ↑ २/५८
- ↑ ६।१२
- ↑ १।५९
- ↑ २॥३६
- ↑ ४।२९
- ↑ १।६
- ↑ ५/६
- ↑ ६।२०
- ↑ ७॥८
- ↑ १॥६८
- ↑ १४।५
- ↑ १४/९६
- ↑ ९/४९
- ↑ ६।२२३
- ↑ २/५
- ↑ २/६
- ↑ प्रचण्डपाण्डवे १/७
- ↑ १।११
- ↑ १/७
- ↑ १/८
- ↑ १।२५
- ↑ १/६
- ↑ ४।६
- ↑ कर्पूर० १३
- ↑ २०
- ↑ १।८
- ↑ प्रसन्नराघवे १॥३७
- ↑ ४।४
- ↑ १/७
- ↑ १।१४
- ↑ ४।३१
- ↑ ५/९
- ↑ १०
- ↑ २/२
- ↑ ५३
- ↑ (२/९)
- ↑ ४।१
- ↑ १
- ↑ २॥२१५
- ↑ २।२१७
- ↑ २।२७९
- ↑ ३/११४
- ↑ १।५
- ↑ ४/१३
- ↑ १४९० वै०