रोनाल्ड् फ़िशर्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सञ्चिका:रोनाल्ड्.jpg
रोनाल्ड् फ़िशर्
— Wikipedian —
नाम रोनाल्ड् फ़िशर्
जन्म १७/०१/१८९०
लण्ड्र नगरस्य(लण्डन्) “पूर्व फ़िञ्च्लेय्” प्रदेशः।
राष्ट्रियत्वम् आङ्ग्लकारः
देशः आङ्ग्लभूमि
विद्या उद्योगः च
जीविका साङ्ख्यिकी
प्राथमिक विद्यालयः हारोव् विद्यालयः
विश्वविद्यालयः गोन्विल्ले आण्ड् कैउस् महाविद्यालयः


जन्म, परिवारश्च[सम्पादयतु]

सर् रोनाल्ड् आय्ल्मेर फ़िशर् [१७ माघमास(फ़ेब्रवरि) १८९० -२९ उत्तराषाढमास(जुलै) १९६२] ब्रिटिष् साङ्ख्यकीयः आनुवम्शीयः उद्विकासिन् जीवशास्त्रज्ञः च आसीत्।

तस्य पितुः नाम ‘जोर्ज् ’ मातुः नाम ‘केट् ’ च इति।सः आङ्ग्लभूमे लण्ड्र नगरस्य(लण्डन्) “पूर्व फ़िञ्च्लेय्” प्रदेशे जातः।तस्य त्रीणि सहोदर्याः एकः सहोदरः च सन्ति।यदा सः चतुर्दश वर्षीयः तदा तस्य माता दिवङ्गतः[१]

विद्यार्थिजीवनम्[सम्पादयतु]

सः ‘हारोव्’ विद्यालये अधीतः ।छात्रवृत्तिणा केम्ब्रिड्ज् नगरस्य ‘गोन्विल्ले आण्ड् कैउस्’ महाविद्यालये गणितं उपशिक्षितः ।तस्य आमरणान्तम् अभूति नयनद्रुष्टेः कारणात्[२] विश्वयुद्धसमये ब्रिटिष् सैन्ये न उपादेयः ।परन्तु सः गणितक्षेत्रे पण्डितः अभवत् ।अपि च सः ‘तेंस नोटिकल् ट्रैनिङ्ग्’ महाविद्यालये ‘भ्राड्फ़ील्ड्’ महाविद्यालये च भौतशास्त्रं तथा गणितं सार्वजनिक- विद्यालयेषु अध्ययनं कृतः ।

सञ्चिका:रोनाड्.jpg

विज्ञानक्षेत्रे योगदानम्,वृत्तिजीवनम्[सम्पादयतु]

सः १९१८ तमे वर्षे “दि कोरिलेशन् बिट्वीन् रिलेटिव्स् ओन् दि सपोसिशन् ओफ़् मेण्डेलियन् इन्हेरिटेन्स्” इति पुस्तकं प्रकाशितवान् [३]।एतत् पुस्तके द्वैविध्यस्य(वेरियन्स्) पदं असम्स्थापयत् ।सः “आन्दुवंशिकी कल्पित प्रतिरूपं” (जेनेटिक्स् कोन्सेप्चुयल् मोडेल) असम्स्थापयत् ।सः १९१९ तमे वर्षे ‘रोताम्स्टेड् एक्ष्पेरिमेण्टल् स्टेशन्’ इति कार्यालये चतुर्दश वर्षकालम् कार्यम् अकुर्वन्त।अत्र सः “अनलिसिस् आफ़् वेरियन्स्” इति विचारम् अपरिणत् ।१९२१ तमे वर्षे सः “ स्टडीस् इन क्रोप् वेरियेशन्” इति आवर्तनं अकुर्वन् ।अत्र सः एतस्य प्रयोगान् वर्णितवान् ।

१९१२- १९२२  वर्षाणाम् अवान्तरम् सः “माग्सिमम् लैक्लिहुड्” इति विचारम् प्रसिद्धं कृतवान् ।सः “फिशर्स् डिस्ट्रिब्यूशन्” इति साङ्ख्यकीय पद्धतिं रचितवान् ।सः “डिसैन् आफ् एक्स्पेरिमेण्ट्स्” इति सिद्धान्तानां मार्गशोधकः अभवत् ।१९२५ तमे वर्षे “स्टाटिस्टिकल् मेतेड्स् फ़ार् रिसर्च् वर्कर्स्”[४] इति पुस्तकं प्रकाशितवान् ।१९३३ तमे वर्षे सः युनिवर्सिटि कोलेज् लण्डने युजिनिक्स विद्यास्ताने अध्यक्षः अभवत् ।सः १९३८ तमे वर्षे फ़्राङ्क् येट्सेन सह “स्टाटिस्टिकल् टेबल्स् फ़ार् बयोलोजिकल् अग्रिकल्चरल् आण्ड् मेडिकल् वर्कर्स्” इति  पुस्तकं रचितवान् ।

विवाहः,वृत्तिजीवनम्[सम्पादयतु]

तस्य विवाहः एइलीन घिन्नीसया सह बभूव ।तस्य द्वौ पुत्रौ षट् पुत्र्यः आसीत् ।

तस्य पुत्री झॉन् तस्याः पितुः चरितं रचितवती ।अपि च सः आस्ट्रेलियम् गत्वा ‘कामन् वेल्त् सैण्टिफ़िक् आण्ड् इण्डस्ट्रियल् रिसर्च् आर्गनैसेशने’ अनुसन्धानं कृतवान् ।सः १९५७ तमे वर्षे निराविशति स्म ।सः १९६२ तमे वर्षे दिवङ्गतः ।

प्रशस्तयः, पुरस्काराः च[सम्पादयतु]

१९३० तमे वर्षे "वेल्डन् मेमोरियल् प्रैस्" ,१९३८ तमे वर्षे "रोयल् मेडल् " , १९४६ तमे वर्षे " गय् मेडल् " ,१९५५ तमे वर्षे "कोप्ले मेडाकल् " च पुरस्कारैः, प्रशस्तिभिः च सम्मानितः ।

उल्लेखाः[सम्पादयतु]

  1. http://www-history.mcs.st-andrews.ac.uk/Biographies/Fisher.html
  2. https://www.famousscientists.org/ronald-fisher/
  3. https://en.wikipedia.org/wiki/Ronald_Fisher
  4. https://www.adelaide.edu.au/library/special/mss/fisher/
"https://sa.wikipedia.org/w/index.php?title=रोनाल्ड्_फ़िशर्&oldid=482357" इत्यस्माद् प्रतिप्राप्तम्