लेट् लकारः
दिखावट
संस्कृतभाषायां कालविध्यादिक्रियाः निर्मातुं लकारः इति काचित् व्यवस्था अस्ति । तत्र लकाराः दश भवन्ति ते यथा-
१.लट् । २.लेट् । ३.लङ् । ४.लुङ् । ५.लिट् । ६.लिङ् (विधिलिङ् च आशिर्लिङ्) । ७.लोट् । ८.लुट् । ९.लृट् । १०.लृङ् ।
एते दश लकाराः द्विधा विभक्ताः सन्ति ।
- सार्वधातुकाः / सविकरणकालार्थाः
- अर्धधातुकाः / अविकरणकालार्थाः
तत्र लेट् लकारः वेदेषु एवं अस्ति। पाणिनेः अष्टाध्यायौ सः लिलेख "लिङर्थे लेट्। उपसंवादाशङ्कयोश्च। (॥३।४।७-८॥)" इति। तस्य अभिप्रायो– लिङ् लकारमिव क्रियते उपसंवादेषु च ('यदि-तदा' वचनेषु इव) किन्तु केवलं छन्दग्रन्थेषु (वेदेषु)। इति। अतो लेट् लाकरः आज्ञार्थं बोधयति। अपि च एतस्मिन् लकास्य रूपप्रत्ययेषु अकार-प्रत्ययः भवति (भू → भवाति)[१]
| लेट् लकारः (परस्मैपदम्) | एकवचनम् | द्विवचनम् | बहुवचनम् |
|---|---|---|---|
| प्रथमपुरुषः | भवाति/भवात् | भवातः | भवान् |
| मध्यमपुरुषः | भवासि/भवाः | भवाथः | भवाथ |
| उत्तमपुरुषः | भवानि | भवाव | भवाम |
| लेट् लकारः (परस्मैपदम्) | एकवचनम् | द्विवचनम् | बहुवचनम् |
|---|---|---|---|
| प्रथमपुरुषः | अति/अत् | अतः | अन् |
| मध्यमपुरुषः | असि/अः | अथः | अथ |
| उत्तमपुरुषः | अनि | अव | अम |
| लेट् लकारः (आत्मनेपदम्) | एकवचनम् | द्विवचनम् | बहुवचनम् |
|---|---|---|---|
| प्रथमपुरुषः | सेवाते/सवातै | सेवैते | सेवन्त/सेवान्तै |
| मध्यमपुरुषः | सेवासे/सेवासै | सेवैथे | सेवाध्वै |
| उत्तमपुरुषः | सेवै | सेवावहै | सेवामहै |
| लेट् लकारः (आत्मनेपदम्) | एकवचनम् | द्विवचनम् | बहुवचनम् |
|---|---|---|---|
| प्रथमपुरुषः | अते/अतै | ऐते | न्त/अन्तै |
| मध्यमपुरुषः | असे/असै | ऐथे | अध्वै |
| उत्तमपुरुषः | ऐ | अवहै | अमहै |
ग्रन्थसूची
[सम्पादयतु]- Panini, R. Chandravasu, S. (500 BCE, 1891) The Aṣṭhādhyāyi of Pāṇini. Archive.org. https://archive.org/details/rsmm_ashtadhyayi-of-panini-vol-1-edited-by-srisa-chandra-vasu-new-delhi-motilal-banarasi-dass/page/558/mode/2up
- Whitney, W. D. (1879, July). A Sanskrit Grammar; Including Both The Classical Language and The Older Dialects, Of Veda And Brahmana. Breitkopf & Härtel, Leipzig, Archive.org. https://archive.org/details/sanskritgrammari00whituoft