वसन्तचर्या

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


हेमन्तशिशिरयो: शैत्येन कफसञ्चयो भवति।वसन्ते प्रखरसूर्यतापेन तस्य कफस्य द्रवीभावो जायते।तस्माद्वसन्तारम्भ एव वामकैरौषधैर्वमनं शस्यते। तेन द्रवीभूत: कफ: बहिर्निरेति।मस्तकादारभ्य कण्ठं यावत् कफो विशेषेण तिष्ठतयत:कफघ्न-नस्यैश्च तत्रत्यकफस्य निराकरणं कार्यम्। कफप्राबल्यादग्निर्मन्दो भवति।अत आहारो लघुर्भवितुमर्हति। कफविलयनायाग्निबलविवर्धनाय च व्यायामोऽनिवार्य:। रूक्षमुद्वर्तनमङ्गमर्दनं चाप्यनुष्ठेयम्। पानार्थं शुण्ठीसिद्धं खदिरसिद्धं मुस्तासिद्धं वा जलमुपयोक्तव्यम्। मधुसंयुतं जलमपि वसन्ते शस्यते।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वसन्तचर्या&oldid=409664" इत्यस्माद् प्रतिप्राप्तम्