वाल्मीकीयरामायणे शिवः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(वाल्मिकिरामायणे शिवः इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search

वाल्मीकीयरामायणे शिवः सर्वेषु काण्डेषु, सर्वेषु सर्गेषु उपस्थितः । किञ्च हनुमान् शिवांश एव । एवं यत्र यत्र हनुमतः उल्लेखः भवति, तत्र तत्र शिवस्य अप्रत्यक्षोल्लेखः एव परिगण्यते । तथापि वाल्मीकीयरामायणे बहुत्र शिवस्य नाम प्रत्यक्षं भवति । तेषु स्थानेषु आराध्यशिवस्य कृपा एव रामलीलायाः सहायिका दरीदृश्यते । रामायणस्य प्रप्रथमवक्ता शिवः सर्वत्र रामायणमयः ।

  • गुरुमहिमरक्षणाय शिवाविर्भावः -

"शिवः सर्वजगद्गुरुः" इति तु सर्ववदिम् [१]  । परन्तु वाल्मीकीयरामायणे शिवस्य साक्षाद्दर्शनं गुरोः अवमाननवारणाय भवति । रामायणे सोमदत्तस्य कथा अस्ति [२]  । यदा नारदः रामायणस्य इतिहासं सनत्कुमारं कथयति, तदा एषा कथा आरभते । सत्ययुगे धृतजन्मा शिवभक्तः गौतमशिष्यः सोमदत्ताख्यः कश्चन ब्राह्मणः आसीत् । एकदा सः शिवाराधनायां लीनः आसीत्, तस्मिन् एव समये तस्य गुरुः गौतमः तत्र आगतः । शिवाराधनायां रतः सः गुरोः उपेक्षां कृत्वा स्वपूजामेव कुर्वन्नासीत् । तस्याचरणेन महाबुद्धिमान् गौतमः तु शान्तः, प्रसन्नश्च आसीत् । यतः स्वशिष्यः शिवाराधनायां लीनः इति तस्य सन्तोषः आसीत् । परन्तु सोमदत्तः यस्याराधनां कुर्वन्नासीत्, सः शिवः तस्मात् क्रुद्धः सन् तं शशाप । शिवस्य शापानुसारं सः ब्राह्मणः राक्षसयोनिङ्गतः । ततः शिवशापात् स्वशिष्यं मोचयितुं गौतमः रामायणकथां शृणु इति उपायत्वेन कथयति ।

  • शिवपार्वत्योः रतिक्रीडानिवृत्तिः -

विश्वामित्रर्षिः यदा गङ्गोत्पत्तेः कथां लक्ष्मणसहितं श्रीरामं श्रावयति, तदा शिवपार्वत्योः रतिक्रीडानिवृत्तेः प्रसङ्गः समायाति [३]  । गङ्गादेवी "त्रिपथगा" किमर्थं प्रसिद्धा ? इति रामलक्ष्मणौ विश्वामित्रर्षिम् अपृच्छताम् । तस्मिन् काले विश्वामित्रः शिवपार्वत्योः कथां वदति । सः वदति यत्, हे राम ! पुरा महातपस्वी शिवः उमया सह विवाहं कृत्वा शतं वर्षाणि रतिक्रीडाम् अकरोत् [४]  । परन्तु तयोः न कोऽपि सन्तानः उद्भूतः । तेन ब्रह्मादिदेवाः अन्वगच्छन् यत्, शिवस्य एतस्य तेजसः तापं जगत् सोढुं न शक्ष्यति इति । अतः ते शिवस्य समीपं गत्वा अवदन्, "हे सुरोत्तम ! एषः लोकः भवतः तेजः धारयितुम् असमर्थः अस्ति । अतः उमया सह भवान् वेदाधारिततपस्यां करोतु" इति । देवगणस्य अनुरोधानुसारं शिवः रतिनिवृत्त्यै तत्परः अभवत् । परन्तु शिवः अपृच्छत् यत्, स्वतेजसा एव आवां तेजः धारयिष्यावहे । परन्तु यदि तेजः स्वतः एव स्खलितं भवति, तर्हि तत् कः धारयिष्यति ? इति । शिवस्य प्रश्नस्य उत्तरत्वेन देवाः अवदन् यत्, हे भगवन् ! भवतः क्षुब्धं तेजः पृथ्वी धारयिष्यति इति । देवानां वचनं श्रुत्वा शिवः स्वतेजः (वीर्यं) त्यजति । शिवस्य तेजसा अशेषा पृथ्वी आच्छादिता अभूत् । तदा देवाः अग्निदेवम् अकथयन्, हे अग्ने ! त्वं वायोः सहयोगेन भगवतः शिवस्य एतत् तेजः स्वस्मिन् अन्तर्भावयतु । अग्निसंसर्गेण तत् तेजः श्वेतपर्वतत्वेन परिणतम् । पर्वतसमीपस्थानि अनेकानि वनानि अपि अग्नितपसा व्याप्तानि आसन् । तस्मिन् एव काले वने महातेजसः कार्तिकेयस्य जन्म अभवत् । ततः सर्वे ऋषयः, देवाः च उमामहेश्वरयोः पूजनम् अकुर्वन् । देवानां कृत्यं ज्ञात्वा उमा अत्यन्तं क्रुद्धा भूत्वा देवेभ्यः शापं दत्तवती । उमादेवी यदा देवभ्यः शापं ददाति, तदा देवान् शापपीडितान् दृष्ट्वा शिवः उमासहितं पश्चिमदिशं प्रति हिमालयं गच्छति । तत्र तौ तपसि सँल्लग्नौ ।

  • हिमालयस्य जामातृत्वेन शिवस्योल्लेखः [५]  –

रामः यदा विश्वामित्रं पृच्छति यत्, "हे ब्रह्मन् ! मम पूर्वजः सगरः कथं यात्राम् अकरोत् ?" इति, तदा विश्वामित्रः विस्तारपूर्वकं सगरकथां श्रावयति । तस्मिन् प्रसङ्गे विश्वामित्रः यदा आर्यावर्तप्रदेशस्य व्याख्यां करोति, तदा जामातृत्वेन शिवस्योल्लेखः अस्ति । विश्वामित्रः अकथयत् यत्, शङ्करस्य श्वसुरः हिमवान् इति प्रसिद्धः पर्वतः विन्ध्याचलं यावत् प्राप्य तथा विन्ध्याचलः हिमवन्तं यावत् प्राप्य परस्परं मिलतः । तयोः मध्ये स्थितः सम्पूर्णभूभागः आर्यावर्ताख्यः पूर्णदभूभागः [६]  ।

१.     सुग्रीवेन वालिनः पराक्रमवर्णनम् –

यदा सुग्रीवः वालिना सह तस्य वैरोत्पन्नस्य कथां श्रावयति, तदा सः वालिनः पराक्रमस्य वर्णनम् अकरोत् । तदा तेन वालिना दुन्दुभिदैत्यस्य संहारस्य कथा श्राविता । दुन्दुभिः सहस्रशः हस्तिनां बलं धरति स्म । एकदा मदपूर्वकं सः समुद्रेण सह युद्धं कर्तुम् उद्युक्तः । समुद्रः तं हिमालयेन युद्धं कर्तुं प्रेषयति । तस्मिन् काले एव हिमालयस्य शिवस्य श्वसुरत्वेन उल्लेखः भवति [७]  । ततः दुन्दुभिदैत्यस्य युद्धं वालिना सह भवति । दुन्दुभिदैत्यस्य शवं वने क्षिप्त्वा यदा वाली गृहं प्रत्यागच्छन् आसीत्, तदा शवं दृष्ट्वा कुपितः मतङ्गमुनिः वालिनं शशाप ।

  • गङ्गाधारी शिवः [८]  -

भगीरथस्य तपसा प्रसन्नः ब्रह्मा भगीरथं कथयति यत्, हिमालयस्य ज्येष्ठां पुत्रीं गङ्गां धारयितुं शिवं निवेदयतु । यतः गङ्गायाः वेगं पृथ्वी सोढुं न शक्ष्यति । शिवं विहाय एतत् कार्यं न कोऽपि अन्यः कर्तुं समर्थः इति । एवम् उक्त्वा ब्रह्मा ब्रह्मलोकं गतः । ततः भगीरथः अङ्गुष्ठेन भूमौ स्थित्वा एकवर्षं यावत् शिवोपासनाम् अकरोत् । भगीरथस्य तपसा प्रसन्नः शिवः अवदत्, "हे नरश्रेष्ठ ! अहं त्वयि प्रसन्नः अस्मि । अतः अहं गिरिराजकुमारीं गङ्गां धारयिष्यामि । ततः गङ्गा विशालरूपं धृत्वा आकाशात् शिवस्य जटायाम् अपतत् । पतनकाले गङ्गायाः चिन्तनम् आसीत् यत्, "अहं शिवसहितं पातालं गमिष्यामि" इति [९] । गङ्गायाः अहङ्कारं ज्ञातवान् शिवः अतः गङ्गां स्वजटायामेव लोपयितुम् अचिन्तयत् । अतः सः गङ्गां स्वजटायां तथा अधारयत्, येन गङ्गा जटायाः बहिः निर्गन्तुं न शक्नुयात् । एवं गङ्गा न केवलं पातलं गन्तुम् असमर्था अभवत्, प्रत्युत पृथ्वीं प्रति गन्तुम् असमर्था अभवत् [१०] । एवं बहुभ्यः वर्षेभ्यः गङ्गा शिवस्य जटायामेव इतस्ततः अटितवती । गङ्गायाः शिवजटायाम् अदृश्यतां दृष्ट्वा भगीरथः पुनः तपः आरब्धवान् । तेन तपसा शिवः अत्यन्तं सन्तुष्टः अभवत् । ततः शिवः बिन्दुसरोवरे गङ्गाम् अत्यजत् । तत्र गङ्गायाः सप्तधाराः अभूवन् । शिवजटायाः निर्गताः विभिन्नाः धाराः विभिन्नासु दिक्षु अगच्छन् । तासु धारासु सप्तमी धारा भगीरथस्य रथस्य अनुकरणं कुर्वती सगरपुत्राणां भस्मराशिम् आप्लावितवती । शिवजटायाः निर्गतं गङ्गाजलं पीत्वा अनेके पतिताः देवाः, गन्धर्वाः, यक्षाः च पुनः स्वर्गलोकं गताः ।

  • शिवस्य विषपानम् -

समुद्रमन्थनकाले विषात् रक्षणं पाप्तुं सुराः शिवस्तुतिम् अकुर्वन् [११] । स्तुत्या प्रसन्नः शिवः तत्र उपस्थितः । ततः श्रीहरिः अपि तत्र उपस्थितः । "समुद्रमन्थनात् प्रप्रथमवस्तुनः भवते समर्पणं कुर्मः । यतः भवान् अग्रपूजार्हः अस्ति इत्युक्त्वा श्रीहरिः ततः अन्तर्दधे । ततः शिवः हलाहलविषम् अमृतवत् स्वकण्ठे धृत्वा कैलासम् अगच्छत् । 

विश्वामित्रवसिष्ठयोः युद्धकाले पराजितः विश्वामित्रः शिवोपासनाम् आरभते । ततः स्वतपसा प्रसन्नात् शिवात् विश्वामित्रः धनुर्वेदम् अयाचत । विश्वामित्रस्य निवेदनं श्रुत्वा शिवः "एवमस्तु" इत्युक्त्वा अन्तर्दधे । ततः महादेवात् शस्त्राणि प्राप्तवान् विश्वामित्रः दर्पपूर्णः सन् वसिष्ठेन सह पुनः युद्धम् आरभत । शिवस्य आशीर्वादस्य दुरुपयोगं कुर्वन् विश्वामित्रः विसष्ठर्षेः आश्रमस्योपरि आक्रमणम् अकरोत् । क्षणाभ्यान्तरे वसिष्ठर्षेः सर्वे शिष्याः आश्रमं त्यक्त्वा पलायिताः । ततः विश्वामित्रः आग्नेयास्त्रेण वसिष्ठस्योपरि आक्रमणं कर्तुं तत्परः भवति । परन्तु वसिष्ठर्षिः ब्रह्मदण्डेन तस्य शस्त्रं निष्क्रियम् अकरोत् । ततः विश्वामित्रः ब्राह्मणत्वं प्राप्तुं गतः ।

  • रामस्य धनुर्भङ्गलीलायां शिवः -

रामलक्ष्मणौ यदा विश्वामित्रेण सह मिथिलायाम् आस्ताम्, तदा जनकः शिवधनुषः परिचयं वदति । तस्मात् प्रसङ्गादेव धर्नुर्भङ्गलीलायाः आरम्भः भवति [१३] । पुरा यदा यक्षयज्ञविध्वंसकाले पराक्रमी शिवः सहजतया रोषपूर्वकं धनुः नीत्वा देवान् उद्दिश्य अवदत्, "देवगण ! अहं तु यज्ञेऽस्मिन् उपस्थातुम् इच्छामि स्म, परन्तु भवद्भिः अहं स्थगितः । अतः अहं भवतां सर्वेषां शिरः विच्छेदयिष्यामि" इति । ततः भीताः देवाः महादेवं स्तुत्या प्रसन्नं कुर्वन्ति । प्रसन्नः शिवः देवेभ्यः तत् धनुः दत्त्वा शिवः अन्तर्धानः अभवत् । तदेव एतत् धनुः । एतत् धनुः मे पूर्वजस्य महाराजस्य देवरातस्य पार्श्वे आसीत् । अतः तत् धनुः मे पूर्वजविभुः । सीतायाः जन्मोत्तरं मया निश्चयः कृतः यत्, यः एतत् धनुः उत्थापयिष्यति, तस्मै एवाहं स्वपुत्रीं दास्यामि इति । एतावता अनेके राजानः तया सह विवाहं कर्तुम् आगताः । परन्तु तेषु पराक्रमन्यूनत्वात् अहं तेषु न कस्मै अपि मे पुत्रीं दत्तवान् । यदि दशरथनन्दनः रामः तत् धनुः उन्नेतुं सफलः भवति, तर्हि अहं मे पुत्र्याः विवाहं तेन सह कारयामि [१४] । ततः लोहस्य विशाले रथे मञ्जूषायां स्थापितं धनुः जनकेन आहूतम् । ततः क्रीडावदेव श्रीरामः शिवधनुः उन्नीय प्रत्यञ्चाम् आरोपयत् । रामः यदा प्रत्यञ्चां कर्षयति, तदा धनुषः मध्यभागात् भङ्गः अभवत् । शिवधनुषः भङ्गेन पर्वताः विदीर्णा, भूकम्पश्च अभवत् । ततः रामसीतयोः विवाहोत्तरं सर्वे अयोध्याम् अगच्छन् । तत्र शिवभक्तः परशुरामः वैष्णवधनुषः प्रत्यञ्चाम् आरोपयितुं रामं द्वन्द्वाय आह्वयति । तस्मिन् काले शिवविष्ण्वोः युद्धस्य वर्णनं भवति । पुरा देवेषु प्रश्नः आसीत् यत्, शिवविष्ण्वोः कः श्रेष्ठः ? इति । ततः स्वपरमोत्कर्षं साधयितुं शिवविष्ण्वोः भयङ्करं युद्धम् अभवत् । ततः विष्णुः स्वस्य वैष्णवधनुषा भयङ्करं नादम् अकरोत् । तेन नादेन शिवस्य धनुः शिथिलम् अभवत् । अतः विष्णुः युद्धक्षेत्रात् अन्तर्दधे । ततः शिवः स्वधनुः देवराताय अयच्छत् [१५] । विष्णुः अपि स्वधनुः भृगुवंशीयाय ऋचीकमुनये अयच्छत् । रामः वैष्णवधनुषः प्रत्यञ्चाम् अपि आरोपयत् । ततः परशुरामः महेन्द्रपर्वतम् अगच्छत् [१६]

  • मातृकौसल्याः स्वस्तिवाचने शिवोल्लेखः -

यदा श्रीरामः वनं प्रति गन्तुम् उद्यतः भवति, तदा माता कौसल्या श्रीरामस्य मङ्गलकामनायै स्वस्तिवाचनं करोति [१७] । तस्मिन् समये सर्वेषां देवानां नामसु शिवस्यापि नामोल्लेखः अस्ति । माता कौसल्या अकथयत् यत्, "रघुनन्दन ! अहं सर्वदा येषां पूजनं, सम्माननम् अकरवम्, ते शिवादियः देवाः, महर्षयः, भूतगणाः, देवोपमनागाः, सर्वाः दिशः च वने चिरकालं यावत् ते हितकामनाः कामयेरन्" इति [१८]

  • मोक्षप्रदातृत्वेन शिवोल्लेखः –

शिवतत्त्वं कल्याणत्वेन सर्वे मन्वते । वाल्मीकीयरामायणे शिवशब्दस्य कल्याणत्वेनापि उपयोगः अस्ति । तत्र शिवतत्त्वस्य कामनया अप्रत्यक्षतया शिवस्य स्मरणं भवति [१९]

१.     रामस्य वनगमनकाले कौसल्या यदा विलपति, तदा तस्य मुखात् रामस्य शिव(कल्याण)कामना निर्गच्छति । कौसल्या वदति यत्, मम शोकनाशकः सः शिवः (कल्याणप्रदः) समयः किं पुनरागमिष्यति, यदाऽहं सीतालक्षणाभ्यां सहितं श्रीरामं कदा द्रक्ष्यामि ? इति [२०]

२.     ततः विलपन्तीं कौसल्यां शान्तां कुर्वती सुमित्रा रामस्य शिवः निश्चयेन भविष्यति इति कथयति [२१]

३.     कोसलजनपदस्य लङ्घनकाले  नद्याः 'शिववारिवहाम्' इति विशेषणं प्राप्यते । वनयात्रायै निर्गताः रामसीतालक्ष्मणाः यदा तमसानद्याः तटं प्राप्नुवन्ति, तदा रामानुगमनोत्सुकाः अयोध्यानगर्याः नागरिकाः तत्र प्राप्नुवन्ति । परन्तु श्रीरामः सर्वान् प्रति गन्तुम् आदशति । ततः श्रीरामः सीतया, लक्षमणेन च सह कोसलजनपदस्य सीमाम् अलङ्घयत् । तदनन्तरं शीतलं, शिवं च जलं यस्याः अस्ति, तादृशी वेदश्रुतिनदी मार्गे आयाति । तां नदीम् अपि उल्लङ्घ्य रामः अगस्त्यसेवितां दक्षिणदिशं प्रति गच्छति [२२]

४.     रामस्य वनवासोत्तरं यदा वसिष्ठर्षिः भरताय राज्याभिषेकाय आदिशत्, तदा भरतः रामं प्रत्यानेतुं वनं प्रति गच्छति । तं सर्वे मन्त्रिणः अपि अनुसरन्ति । मार्गे ते गङ्गातटं प्राप्नुवन्ति । तदा भरतः शिवोदकां गङ्गां दृष्ट्वा श्रान्तान् भटान् तत्रैव विश्रामोत्तरं प्रातः यात्रारम्भस्य आदेशं करोति [२३]

५.    रामदर्शनोत्सुकः भरतः ससेनः शिवोदकां गङ्गाम् उदलङ्घयत् । ततः सः भरद्वाजमुनेः आश्रमं प्रापत् । मुनिः आश्रमे ससेनस्य भरतस्य भव्यस्वागतम् अकरोत् । तस्मिन् काले अनिलस्य विशेषणत्वेन शिवोल्लेखः भवति [२४] । भरद्वाजमुनिना सह चर्चायाः अनन्तरं मुन्याश्रमं प्राप्ताय भरताय भरतमुनिः आश्रमनिवासाय आदिशत् ।

६.     आदित्यहृदस्तोत्रस्य विशेषणत्वेन शिवशब्दस्य कल्याणत्वेन प्रयोगः दृश्यते [२५] । रामरावणयोः युद्धकाले यदा राक्षसराजः रावणः श्रीरामचन्द्रस्य समीपं प्राप्नोति, तस्मिन् काले आक्लान्तः श्रीरामः रणभूमौ स्थितः आसीत् [२६] । रामरावणयोः युद्धं द्रष्टुम् आगतः अगस्त्यमुनिः रामस्य क्लान्ततां दृष्ट्वा तं गोप्यम् आदित्यहृदयस्तोत्रं श्रावयति [२७]

  • रामस्य शिवेन सह तुलना –

पञ्चवट्याम् आश्रमं निर्माय निवसतः रामस्य सम्मुखं शूर्पणखायाः विवाहाय प्रस्तावः । ततः लक्ष्मणः शूर्पणखायाः नासिकां चिच्छेद । ततः अनेके राक्षसाः रामस्य आश्रमे आक्रमणम् अकुर्वन् । अनेकेषां राक्षसानां नाशं कृत्वा स्थितः रामः राक्षसानां समूहं पश्यति । सीतायाः रक्षणाय सः लक्ष्मणेन सह सीतां कन्दरां प्रति गन्तुं कथयति । ततः युद्धसज्जं रामं परितः सर्वेऽपि राक्षसाः परिवृताः भवन्ति । तां स्थितिं वर्णयन् वाल्मीकिमुनिः रामस्य शिवेन सह तुलनां करोति । सः कथयति यत्,  यथा प्रदोषकाले भगवान् शिवः पार्षदगणैः आवृतः भवति, तथैव श्रीरामं परितः राक्षसाः क्रूरदृष्ट्या तं पश्यन्तः आसन् इति [२८]

  • सीतया रावणसंहारस्य भविष्यवाण्यां शिवः –

रावणः घोरतपस्यां कृत्वा ब्रह्मणः वरं प्राप्नोत् । ततः सः स्वस्य अमरतां विचिन्त्य त्रिषु लोकेषु उत्पातम् आरभत । तेन पीडिताः देवाः ब्रह्माणम् उपागच्छन् । ततः देवाः महादेवस्य शिवस्य समीपम् अगच्छन् । महादेवः तान् अवदत् यत्, युष्माकं हिताय काचित् दिव्या नारी आविर्भविष्यति, या समस्तानां राक्षसानां विनाशं करिष्यति । यथा आदिकाले देवानां क्षुधा राक्षसान् अखादत्, तथैव सा निशाचरनाशिनी सीता रावणसहितान् सर्वान् राक्षसान् भक्षयिष्यते [२९] । उद्दण्डस्य, दुर्बुद्धेः रावणस्य अन्याय्येन सर्वे शोकमग्नाः सन्ति इति  [३०]

लङ्काविजयोत्तरं भगवान् श्रीरामः सीतया सह यदा अयोध्यां प्रति यात्राम् आरभत, तदा सः सीतां स्वमार्गस्य परिचयम् अकारयत् । तस्मिन् परिचये रावणवधस्थलात् क्रमेण कुम्भकर्णवधस्थलं, निशाचराणां वधस्थलम् इत्यादि प्रदर्शयति । एवम् अयोध्यां प्रति यात्रां कुर्वाणौ सीतारामौ नलसेतुम् उल्लङ्घ्य रामेश्वरतीर्थं प्रापेताम् । तत्र प्राप्य श्रीरामः सीताम् उद्दिश्य अवदत्, हे मिथिलेशकुमारि ! अत्र पूर्वकाले भगवान् महादेवः मयि कृपाम् अकरोत् । सेतुनिर्माणात् प्राक् मया स्थापिते शिवलिङ्गे सः राराजते । एतस्मात् पुण्यस्थलात् विशालकायस्य समुद्रस्य तीर्थ द्रष्टुं शक्नुमः । एषः प्रदेशः सेतुनिर्माणस्य मूलप्रदेशोऽपि अस्ति । अतः एतस्य नाम "सेतुबन्धः" इति [३२] । एतत् पुण्यपवित्रस्थलं त्रिषु लोकेषु पूजनीयं भविष्यति । एतत् परमपवित्रस्थलं पातकनाशकं भविष्यति इति [३३]

  • सुकेशाख्यस्य राक्षसस्य कथा

सुकेशस्य मातुः नाम सालकटङ्कटा, पितुश्च नाम विद्युत्केशः आसीत् । विद्युत्केशः निशाचरः आसीत् । सालकटङ्कायाः गर्भात् मन्दराचलपर्वते सुकेशस्य जन्म अभवत् । सुकेशस्य तेजः शिववत् आसीत् [३४] ।  परन्तु रमणप्रिया [३५] सालकटङ्का सुकेशं त्यक्त्वा विद्युत्केशस्य समीपं रमणाय अगच्छत् । अत्र बुभुक्षया व्याकुलः बालसुकेशः गम्भीरं रोदनम् आरभत । तस्मिन् एव काले निन्द्यारूढौ शिवपार्वत्यौ आकाशमार्गेण विहारं कुर्वन्तौ आस्ताम् । तौ मन्दराचले रुदन्तं तं बालकम् अपश्येताम् । बालस्य समीपं गत्वा तस्य स्थितिं दृष्ट्वा तयोः हृदयं द्रवितम् अभवत् । शिवः तस्मै बालकाय अमरत्वं दत्त्वा तं मातृवयःसमम् अकरोत् [३६] । ततः माता पार्वती तस्मै वरम् अयच्छत् यत्, अद्यारभ्य राक्षस्यः शीघ्रं गर्भं धरिष्यन्ति, तेषां पुत्राः शीघ्रं हि मातृवयःसमाः भविष्यन्ति इति [३७] । सुकेशस्य विवाहः गन्धर्वकन्यया सह भवति । तयोः त्रयः राक्षसपुत्राः भवन्ति । येषां नामानि माल्यवान्, सुमाली, माली च । तौ लङ्कायाः साम्राज्यं स्थापयन्ति । सुमालिनः कन्यायाः नाम कैकसी आसीत् । तस्याः विवाहः पुलस्त्यनन्दनेन विश्रवया सह अभवत् । तयोः पुत्राः एव रावणादयः ।

  • वानररूपिनन्दीश्वरेण रावणाय शापदानं, महेश्वरेण रावणस्य मानभङ्गोत्तरं चन्द्रहासखड्गदानञ्च

सुकेशस्य राक्षसवंशस्य वर्णक्रमे यदा रावणस्य वर्णनम् आरभते, तदा अगस्त्यमुनिः श्रीरामं रावणमानभङ्गस्य कथां श्रावयति । ब्रह्मणः वरदानं प्राप्य अजेयवत् भ्रमन् रावणः पुष्पकविमानम् आरूढः सन् हिमालयं प्रापत् । हिमालयस्य वनेषु पुष्पकविमानं परिचक्रेण सह पतितम् । ततः राक्षसराजः मन्त्रिगणसहितं विमानपतनस्य कारणान्वेषणे सँल्लग्नः । यद्यप्येतत् विमानं तु स्वामिनः इच्छानुगुणं डयितुं निर्मितम् अस्ति, तथापि एतत् स्वतः एव कथम् अवरुद्धम् ? इति चिन्तयन्तः सर्वे संशोधनम् आरभन्त । तस्मिन् काले हिमालयपर्वतस्य औन्नत्यमेव बाधाम् अजनयत् इति कारणं प्राप्तम् । ततः रावणः हिमालयम् उत्पाटयितुं प्रयासम् आरभत । परन्तु वानररूपी नन्दी आगत्य तं तथा न कर्तुं कथयति । परन्तु वानररूपिणं नन्दिनं दृष्ट्वा रावणः तस्य उपहासं करोति । ततः नन्दीश्वरः रावणं शशाप यत्, वानरणां कारणेनैव तव वंशस्य सर्वनाशः भविष्यति इति । नन्दीश्वरस्य शापस्य विषये अविचिन्त्य रावणः हिमालयम् उत्पाटयितुं सज्जः अभवत् । यदा सः हिमालयम् उत्पाटयति, तदा कैलासवासिनः भयभीताः अभूवन् । तस्मिन् काले महादेवः सहजतया पादक्रीडां करोति, येन हिमालयः स्वस्थाने पुनः स्थापितः भवति । परन्तु रावणस्य भुजौ तस्य पर्वतस्य अधः अवरुद्धौ भवतः । पीडया आक्रान्तः रावणः अनेकाभिः शिवस्तुतिभिः शिवं प्रसन्नं करोति । प्रसन्नः शिवः रावणाय चन्द्रहासखड्गं यच्छति । परन्तु शिवः इदमपि कथयति यत्, यदा त्वम् एतस्य खड्गस्य अपमाननं करिष्यसि, तदा एषः खड्गः मम समीपं प्रत्यागमिष्यतीति [३८]

  • उपसंहारः

सम्पूर्णे वाल्मीकीयरामायणे शिवः सर्वदा उपस्थितः दरीदृश्यते । रामस्य सहाय्यार्थं स्यात् उत रावणस्य पूर्वजस्य सुकेशस्य साहाय्यं, सर्वत्र शिवः उपस्थितः आसीत् । रावणवधस्य भविष्यवाणीं कुर्वाणः भगवान् शिवः सीतया सर्वेषां राक्षसानाम् अन्तः भविष्यति इति कथयति, तदा तु रामायणस्य सम्पूर्णं चित्रं स्पष्टं भवति । रामः भगवान् शिवस्य परमभक्तः, भगवतः शिवस्य अंशः हनुमान् श्रीरामस्य परमभक्तः । एवं हरिहरयोः तादात्म्यपूर्णं वाल्मीकीयरामायणं हरितत्त्वेन सह हरतत्त्वम् अपि बहुधा प्रबोधयति । 

उद्धरणम्[सम्पादयतु]

  1. वाल्मीकीयरामायणम्, वाल्मीकीयरामायणमाहात्म्यम्, सर्गः २, श्लो. ३४
  2. वाल्मीकीयरामायणम्, वाल्मीकीयरामायणमाहात्म्यम्, सर्गः २, श्लो. २९ तः ७३ पर्यन्तम्
  3. वाल्मीकीयरामायणम्, बालकाण्डम्, सर्गः ३६
  4. वाल्मीकीयरामायणम्, बालकाण्डम्, सर्गः ३६, श्लो. ६
  5. वाल्मीकीयरामायणम्, बालकाण्डम्, सर्गः ३९, श्लो. ४
  6. श्रूयतां विस्तरो राम सगरस्य महात्मनः । शङ्करश्वसूरो नाम्ना हिमवानिति विश्रुतः ।। बालकाण्डं, ३९/४ ।।
     विन्धपर्वतमासाद्य निरीक्षेते परस्परम् ।
    तयोर्मध्ये समभवद् यज्ञः स पुरुषोत्तम ।। बालकाण्डं, ३९/५ ।।  
  7. शैलराजो महारण्ये तस्विशरणं परम् ।
    शङ्करश्वसुरो नाम्ना हिमवानिति विश्रुतः ।। ४/११/१२ ।।  
  8. वाल्मीकीयरामायणम्, बालकाण्डम्, सर्गः ४०-४१
  9. वाल्मीकीयरामायणम्, बालकाण्डम्, सर्गः ४३, श्लो. ५
  10. वाल्मीकीयरामायणम्, बालकाण्डम्, सर्गः ४३, श्लो. ७ - ८
  11. वाल्मीकीयरामायणम्, बालकाण्डम्, सर्गः ४५, श्लो. २१  
  12. वाल्मीकीयरामायणम्, बालकाण्डम्, सर्गः ५५, श्लो. १२ - २०
  13. वाल्मीकीयरामायणम्, बालकाण्डम्, सर्गः ६६, श्लो. ९
  14. वाल्मीकीयरामायणम्, बालकाण्डम्, सर्गः ६६, ९ - २६
  15. वाल्मीकीयरामायणम्, बालकाण्डम्, सर्गः ५७, २०
  16. वाल्मीकीयरामायणम्, बालकाण्डम्, सर्गः ५८, १५
  17. वाल्मीकीयरामायणम्, अयोध्याकाण्डम्, सर्गः २५
  18. वाल्मीकीयरामायणम्, अयोध्याकाण्डम्, सर्गः २५, श्लो. ४५
    मयार्चिता देवगणाः शिवादयो महर्षयो भूतगणाः सुरोपगाः ।
    अभिप्रयातस्य वनं चिराय ते हितानि काङ्क्षन्तु दिशश्च राघव ।।
  19. वाल्मीकीयरामायणम्, अयोध्याकाण्डम्, सर्गः ४३ - ४४
  20. अपीदानीं स कालः स्यान्मम शोकक्षयः शिवः ।
    सहभार्यं सह भ्रात्रा पश्येयमिह राघवम् ।। २/४३/९ ।।
  21. शिवः सर्वेषु कालेषु काननेभ्यो विनिःसृतः ।
    राघवं युक्तशीतोष्णः सेविष्यति सुखोऽनिलः ।। २/४४/९ ।।
  22. ततो वेदश्रुतिं नाम शिववारिवहां नदीम् ।
    उत्तीर्याभिमुखः प्रायादगस्त्याध्युषितां दिशम् ।। २/४९/१० ।।
  23. निरीक्ष्यानुत्थितां सेनां तां च गङ्गां शिवोदकाम् ।
    भरतः सचिवान् सर्वानब्रवीद् वाक्यकोविदः ।। २/८३/२२ ।।
  24. मलयं दर्दुरं चैव ततः स्वेदनुदोऽनिलः ।
    उपस्पृश्य ववो युक्त्या सुप्रियात्मा सुखं शिवः ।। २/९१/२४ ।।  
  25. नित्यम् अक्षयं परमं शिवम् इति । ६/१०५/०४
  26. ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।
    रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ।। ६/१०५/०१
  27. राम राम महाबाहे शृणु गुह्यं सनातनम् ।
    येन सर्वाननरीन् वत्स समरे विजयिष्यसे ।। ६/१०५/०३
  28. सर्वैः परिवृतो रामो राक्षसैः क्रूरदर्शनैः ।। ३/२५/११ ।।
    तिथिष्विव महादेवो वृतः पारिषदां गणैः । ३/२५/११½  
  29. एषा देवैः प्रयुक्ता तु क्षद् यथा दानवान् पुरा ।
    भक्षयिष्यति नः सर्वान् राक्षसघ्नी सरावणान् ।। ६/९४/३६     
  30. वाल्मीकीयरामायणम्, युद्धकाण्डं, चतुर्नवतितमः सर्गः, श्लो. २९ - ४१
  31. रावणवधात् अयोध्ययां श्रीरामस्य प्राप्तिं यावत् सर्वं वृत्तान्तम् अस्मिन् सर्गे अस्ति । युद्धकाण्डं, सर्गः – १२३ ।
  32. सेतुबन्ध इति ख्यातं त्रैलोक्येन च पूजितम् ।।
    वाल्मीकीयरामायणं, युद्धकाण्डः, सर्गः १२३, श्लो. २१
  33. वाल्मीकीयरामायणं, युद्धकाण्डः, सर्गः १२३, श्लो. १९-२२  
  34. गङ्गा गर्भमिवाग्निजम् उत्तरकाण्डः, सर्गः ४, श्लो. २४ ।  
  35. विद्युत्केशरतार्थिनी । उत्तरकाण्डः, सर्गः ४, श्लो. २४ ।
  36. सद्य एव वयःप्राप्तिं मातुरेव वयःसमम् । उत्तरकाण्डः, सर्गः ४, श्लो. ३१ ।
  37. अमयोपि वरो दत्तो राक्षसीनां नृपात्मज ।। ३० ।।
    सद्योपलब्धिर्गर्भस्य प्रसूतिः सद्य एव च । सद्य एव वयःप्राप्तिं मातुरेव वयःसमम् ।। ३१ ।। उत्तरकाण्डः, सर्गः ४ ।
  38. वाल्मीकीयरामायणम्, उत्तरकाण्डः, सर्गः ५६