वाल्मीकिजयन्ती
वाल्मीकिजयन्ती | |
---|---|
के आचरन्ति | भारतीयाः |
वर्गः | राष्ट्रीय, ऐतिहासिह , हिन्दू |
महत्त्वम् | वाल्मीकिमहर्षेः जयन्ती |
दिनाङ्कः | आश्वयुजमासस्य पूर्णिमा |
प्राचीन भारतस्य दर्शनं श्रीवाल्मीकिरामायणे अस्ति । आदिकविः वाल्मीकिः श्रीरामावतारचरितं सुन्दरकाव्यं कृतवान् । श्रीरामायण महाकाव्ये २४००० श्लोकाः सन्ति । करुणरसपूर्णमेतत् काव्यं विश्वमान्यमस्ति । आश्वयुजमासस्य पूर्णिमादिने प्रतिवर्षं वाल्मीकिजयन्तीम् आचरन्ति ।
वाल्मीकिमहर्षे पूर्वचरितं विशिष्टमस्ति । प्रचेतसामुनिना त्यक्तः सुतः, व्याधैः पालितः, सहवासफलात् किरातः एव आसीत् । वने गच्छतः जनान् पीडयित्वा तेषां धनकनकादि स्वीकरोति स्म । तस्य नाम रत्नाकर इत्यासीत् । प्रतिदिनं प्राणिहत्यां करोति स्म । एकदा वीणाधारी त्रिलोकसञ्चारी नारदमहर्षिः तत्रारण्ये आगतवान् । रत्नाकरः नारदम् अपि धनार्थं पीडितवान् । श्री नारदमहर्षिः “ एवं जनान् पीडयति चेत् भवान् महत्पापं प्राप्नोति । तव पत्नीपुत्रादिकं एतत्पापं न स्वीकुर्वन्ति” इति उक्तवान् । एतत् परीक्षितुं गृहं गत्वा रत्नाकरः ते पापं न स्वीकर्तुं इच्छन्ति इति ज्ञात्वा पुनः श्री नारदमहर्षेः समीपमागतवान् । तदा श्रीनारदमहर्षिः ‘राम’ मन्त्रोपदेशं कृत्वा निर्गतवान् । रत्नाकर राममन्त्रं जपन्नासीत् । तस्योपरि वल्मीकं प्रवृध्दमभवत् ।
एकदा सप्तर्षयः तेन मार्गेण गच्छन्तः वल्मीकात् व्याधं बहिरानीय तस्मै वाल्मीकिः इति नूतनं नाम दत्तवन्तः । अनन्तरं तमसानदीतीरे वाल्मीकिमहर्षिः वासं कृतवान् । शिष्याः अपि आश्रमे आगतवन्तः । वाल्मीकिः अध्ययनाध्यापनेषु निरन्तरं कार्याणि कुर्वन्नासीत् । एकदा स्नानाय गच्छन् क्रौञ्चपक्षिणः अतिनादं श्रुतवान् । एकः व्याधः क्रौञ्चपक्षिणं मारितवानासीत् सा घटना वाल्मीकेः मनसि अपूर्वं परिणामं कृतवती । तदा वाल्मीकिमुखात् शोकः श्लोकरुपेण आगतः । छन्दोबध्दे श्लोके ‘हे निषाद, भवान् क्रौञ्चमिथुनात् एकं हत्वा उत्तमं कार्यं न कृतवान् । तव श्रेयः न भविष्यति ’ इत्यर्थः आसीत् । अनन्तरं ब्रह्मदेवः एव वाल्मीकिमहर्षये रामचरितं वर्णितवान् । वाल्मीकिः सुन्दरं रामायणकाव्यं विरचितवान् वाल्मीकिः रामायणकाले आश्रमे आसीत् । अन्ते च यदा श्रीरामः सीतां त्यक्तवान् तदा वाल्मीकिः सीतां गर्भिणीं पालितवान् । आश्रमे एव सीतायाः लवकुशौ पुत्रौ सञ्जातौ । अनन्तरं वाल्मीकिः सीतां लवकुशौ च श्रीरामाय समर्पितवान् । लवकुशौ रामायणकाव्यं मधुरतया गीतवन्तौ इति रामायणकाव्येन ज्ञातं भवति ।
रामायणे मुख्यतया श्रीरामस्य जीवनं, रावणस्य जीवनं तथा प्रासङ्गिकता वालिसुग्रीवादिनां चरितं तथा अन्येषां चरितानि वर्णितानि सन्ति । बालकाण्डम्, अयोध्याकाण्डम्, अरण्यकाण्डम्, किष्किन्धाकाण्डम्, सुन्दरकाण्डम्, युध्दकाण्डम्, उत्तरकाण्डम् इति च सप्तकाण्डाः सन्ति । अयोध्यायाः राज्ञां सात्विकं जीवनं, लङ्कानगरे स्थितानां रावणादीनां क्रूरराक्षसजीवनं किष्किन्धानगरे स्थितानां सुग्रीवः वाली इत्यादीनां कपिजीवनं च रामायणे वर्णितानि सन्ति। वाल्मीकिः दशरथस्य पुत्रप्रेम, रामलक्ष्मण भरतशतुध्नानां सहोदरसम्बन्धं, रामहनुमत्स्वामिसेवकसम्बन्धं, रामविभीषणयोः स्वामिभक्तसम्बन्धं च अत्युत्तमतया वर्णितवानस्ति ।
श्रीरामः मर्यादापुरुषोत्तमः, एकपत्नीव्रतस्थः, सत्य वाक्यपालकः, प्रजावत्सलः इति च प्रसिध्दः । सीता पतिव्रता आर्यधर्मप्रिया इति निरुपितास्ति । विविधैः पात्रैः मारीच सुग्रीव शुर्पनखा मन्थरा वाली कुम्भकर्ण गुह जटायु प्रभृतिभिः सेवा वात्सल्य क्रौर्य दास्य स्नेहा गुणान् लोकेभ्यः ज्ञापितवान् वाल्मीकिः ।
रावणः बलशाली अहङ्कारी शिवभक्तोऽपि परदारासक्त्या मारितः । तथैव राक्षसाः अहङ्कारः स्वार्थपरता क्रूरता इत्यादिभिः युक्ताः श्रीरामेन मारिताः । एवं धर्मरक्षणम् अधर्मनाशनं च श्रीरामावतारस्य उद्देशः इति श्रीरामः प्रदर्शितवान् । रामायणे धार्मिकव्यवहाराणां पूजादिनां वर्णनमस्ति सामाजिकविषयाणां निरुपणमस्ति सन्धान राजदूताभारादि राजकीयवृत्तान्ताः सन्ति । दया क्षमा सेवादीनां विवरणम् अस्ति । अन्ते श्रीरामः लवकुशयोः राज्यं समर्प्य स्वयं सरयूनदीं प्रविष्टवान् ।
वाल्मीकिः किरातरुपं त्यक्त्वा रामनामजपेन तपसा महर्षिः अभवत् । रामायणकाले एकः मुख्यपात्ररुपी च अस्ति । रामायणे भारतस्य पूर्वेतिहासः वर्णितः अस्ति । भारतीय संस्कृतेः च सम्यग्दर्शनं वाल्मीकिरामायणेन भवति । अग्रे रामायणम् अनेककविजनानां स्फूर्तिदायकं महाकाव्यमिति प्रसिध्दम् अभवत् ।