सामग्री पर जाएँ

वासुदेवसुढलदेवः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
वासुदेवसुढलदेवः
जन्म १६ मे १८५० Edit this on Wikidata
मृत्युः १९ नवेम्बर् १९०३ Edit this on Wikidata (आयुः ५३)
वासुदेवसुढलदेवः
जन्म १६मई १८५०
मृत्युः १९नवम्बर १९०३
देशीयता भारतीयः

वासुदेवसुढलदेवः बामण्डा इति नाम्नः देशीयराज्यस्य २७तमः राजा आसीत् । तस्य शासनकाले बामण्डा सर्वतोमुखी प्रगतिम् अपश्यत् । सः ओडियाभाषायाः साहित्यस्य च संरक्षकः आसीत् |

बाल्यकालः

[सम्पादयतु]

वासुदेवस्य जन्म बामण्डाराजपरिवारे १६ मे १८५० तमे वर्षे अभवत् ।तस्य अग्रजः व्रजसुन्दरत्रिभूवनदेवः तं दत्तकविधिना गृहीतवान् । त्रिभूवनदेवस्य अनन्तरं वासुदेवः केवलं १८ वर्षे एव बामण्डायाः सिंहासनं प्राप्तवान् ।

वासुदेवः ग्रामस्य पाठशालायां प्राथमिकशिक्षां प्राप्तवान् । सिंहासनग्रहणात् पूर्वं पण्डितानन्दब्रह्मात् संस्कृतस्य अलङ्कारस्य च ज्ञानं, पण्डितपुरुषोत्तमात् पण्डितभुवनेश्वरबडपण्डामहोदायात् वेदोपनिषदं च प्राप्तवान् ।

शासनम्

[सम्पादयतु]

सुढलदेवस्य राजत्वकालः बामण्डा-इतिहासस्य स्वर्णिमः समयः आसीत्। राजारूपेण सः कृषिक्षेत्रे प्रशासनक्षेत्रे च बहूनि सुधारकार्याणि परिवर्तनानि च अकरोत्। भूमिसुधारः तथा भूमिराजस्व-व्यवस्था तस्य राजत्वकाले आरब्धा। तेषां शासनात् पूर्वं बामण्डायाम् एकमेव प्राथमिकविद्यालयः आसीत्। सः अष्टाविंशतिः प्राथमिकविद्यालयान् बामण्डायां राजधानी- देओगड-नगरे च एकं उच्चविद्यालयं प्रतिष्ठापितवान्। एषः उच्चविद्यालयः कोलकता -विश्वविद्यालयेन सह सम्बद्धः आसीत्। बहवः उच्चशिक्षिताः योग्याश्च अध्यापकाः आनीय अध्यापनं क्रियते स्म।

बामण्डायाः व्यापार-वाणिज्य-सुविधार्थं सः ब्राह्मणी-नद्याः मार्गेण कटक-नगरेण सह मार्गसंयोगं स्थापितवान्। अन्यैः देशीयैः राज्यानां सह अपि सडकमार्गेण संयोगः साधितः। बामण्डायां एकं विशालं काष्ठकलं (करतकलम्) स्थापयित्वा सः व्यवसायावसरान् सृष्टवान्।

विज्ञान-प्रौद्योगिकी-क्षेत्रे सः स्वकालेनापि अत्यन्तम् अग्रगामी आसीत्। देओगड-नगरे सः एकम् अवलोकनालयम् (ऑवसर्वेटरी) प्रतिष्ठापितवान्। एक्स्-रे-यन्त्राणि तथा टेलिस्कॉप-यन्त्राणि क्रीत्वा लोकानाम् उपयोगाय अर्पितवान्। १८९४ तमे वर्षे बामण्डायां पत्रालायः स्थापितः, १९०० तमे वर्षे च बामण्डायां दूरभाषा-संयोगः कृतः।

सः बाल्यविवाह-यौतक-प्रथयोः उन्मूलनं अकरोत्। अनाथबालानां विधवानां च आश्रय-स्थापनार्थं आवश्यकाः व्यवस्थाः कृतवान्। मादकद्रव्येषु सः घोर-विरोधी आसीत्। राजा सन् अपि सः निराडम्बरं जीवनं यापयति स्म। छत्र-चामरधारिणां अथवा अङ्गरक्षकाणां सीमितमेव उपयोगं करोति स्म। कला-शिल्पयोः सः महान् प्रशंसकः आसीत्।

भाषा-साहित्ये योगदानम्

[सम्पादयतु]

ओडिया, संस्कृतसाहित्यस्य च विकासे सुढलदेवस्य प्रमुखं योगदानम् आसीत् । सः संस्कृते अध्यापनार्थं संस्कृत-टोल इति संस्थापितवान् । १८८६ तमे वर्षे देओगढ-नगरे जगन्नाथबल्लभ-पत्रिकायाः स्थापनां कृतवान् । सः सम्बलपुर हितैषिणी इति साप्ताहिकं वृत्तपत्रम् आरब्धवान् । नीलमणिविद्यारत्नः अस्य वृत्तपत्रस्य सम्पादकः आसीत् । सम्पूर्णे ओडिशा-प्रदेशे अस्याः पत्रिकायाः लोकप्रियता अभवत् । फकीर मोहन सेनापति, राधानाथ राय, मधुसूदन राव, विश्वनाथ कर प्रमुखाः अस्यां पत्रिकायां लेखाः लिखन्तः आसन्। फकीरमोहनः उत्कलभाषायां सुढलदेवम्‌ उद्दिश्य अवदत् -   हे सुढल महाराज करे नमस्कार हितैषिणी तुम्भ यश करुछि प्रचार बामण्डा राज्यरे करुअछ राजपण मात्र ज्ञानराज्ये अट नृपति आपण हे राजन मातृभाषा उन्नति करणे उत्साहित करुअछ ग्रन्थकर्ता गणे।।

तस्य शासनकाले बामण्डा ओडियासाहित्यस्य हृदयम् आसीत् । बामण्डा लोकप्रियतया "बुधहंस केलिसर" इति उच्यते स्म । राधानाथरायं सुढलदेवस्य राजसभायां "कविवर" इत्युपाधिः दत्ता । सः अपि काव्यस्य रचनां करोति स्म । राधानाथरायः तस्य कृते लिखितवान् -  तुम्भ‌ शुभ आविर्भाव होइछि उत्कले देवदुर्ग देव! एबे तीर्थ सारस्वत , बुधहंस केलिसरः, अविद्या उषरे।।

  • चित्रत्पोला
  • वीरवामा
  • किष्किन्धा
  • जह्नमांमु कविता

सुढलदेवस्य सुशासनस्य सर्वतोमुखप्रगतेः च स्वीकारं कृत्वा ब्रिटिशसर्वकारेण १८९५ तमे वर्षे मार्चमासस्य ६ दिनाङ्के 'भारतीयसाम्राज्यस्य शूरसेनापतिः' अथवा "सर" इति उपाधिः प्रदत्ता सः प्रथमः ओडिया जनः आसीत् यः एनम् उपाधिं प्राप्तवान् उत्कलगौरव -मधुसूदनरावः उत्कलसम्मेलनस्य प्रथमसत्रस्य अध्यक्षत्वेन आमन्त्रितवान् । परन्तु तस्मात् सत्रात् पूर्वं १९०३ तमे वर्षे नवम्बर्-मासस्य १९ दिनाङ्के सः दिवङ्गतः ।

"https://sa.wikipedia.org/w/index.php?title=वासुदेवसुढलदेवः&oldid=497352" इत्यस्माद् प्रतिप्राप्तम्