सामग्री पर जाएँ

वासुदेव सुधालदेव

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
वासुदेवसुढलदेवः
वासुदेवसुढलदेवः
जन्म १६मई १८५०
मृत्युः १९नवम्बर १९०३
देशीयता भारतीयः

वासुदेवसुढलदेवः बामण्डा इति नाम्नः देशीयराज्यस्य २७तमः राजा आसीत् । तस्य शासनकाले बामण्डा सर्वतोमुखी प्रगतिम् अपश्यत् । सः ओडियाभाषायाः साहित्यस्य च संरक्षकः आसीत् |

बाल्यकालः

[सम्पादयतु]

वासुदेवस्य जन्म बामण्डाराजपरिवारे १६ मे १८५० तमे वर्षे अभवत् ।तस्य अग्रजः व्रजसुन्दरराम त्रिभुवनदेवः दत्तकं गृहीतवान् । त्रिभुवनदेवस्य अनन्तरं वासुदेवः केवलं १८ वर्षे एव बामण्डायाः सिंहासनं प्राप्तवान् ।

वासुदेवः ग्रामस्य पाठशालायां प्राथमिकशिक्षां प्राप्तवान् । सिंहासनग्रहणात् पूर्वं पण्डितानन्दब्रह्मात् संस्कृतस्य अलङ्कारस्य च ज्ञानं, पण्डितपुरुषोत्तमात् पण्डितभुवनेश्वरबडपण्डात् च वेदोपनिषदं च प्राप्तवान् ।

  

"https://sa.wikipedia.org/w/index.php?title=वासुदेव_सुधालदेव&oldid=497275" इत्यस्माद् प्रतिप्राप्तम्