विकिपीडियासम्भाषणम्:व्यासपीठ
विषयः योज्यताम्वनपर्व
एवं प्रव्रजन्तस्तेऽनुव्रजतः पौराननुनयेन निवर्त्य, आनुयात्रिकैरिन्द्रसेनादिभिः कैश्चिद्बाह्मणैश्च सह गङातीरे तां निशामनैषुः। परेद्यवि कृताह्निको राजा तान्द्विजानिदमाह - 'विप्रर्षभाः प्रतिग्नासरितमुत्तीर्य, पुनर्भवन्तं गोष्ठीं प्रवेष्टुमभिलषामि' इति। 'गुणसिन्धो पौरव! दानावर्जिता हि द्विजा मदान्धमपि न वर्जयन्ति, किं पुनर्भवन्तम्। वैखानसवृत्तयो वयं भवतः क्लेशं लघयितुमाशंसामहे' इति तैः प्रत्युक्तः स पुरोहित्मपृच्छत् - 'भगवन्, एवमेते निर्बन्धुना भ्रातॄनुपरोदधुं धृष्णोमि' तदेषां भरणोपायं विमृशतु भवान्' इति। अथ तदुपदिष्टेन मन्त्रेणार्यमणमुपस्थाय स तस्मात्ताम्रपात्रमविन्दत्। तत्र पक्कमन्नादिमितमप्याद्रौपदीभोजनमक्षय्यं भवति। तेन ब्राह्मणादीन्संतर्पयन् वनेऽपि स राजा दानपतिर्बभूव। ततः काम्यकं यान्तस्ते मार्गमुपरुन्धति किर्मीराख्ये बकासुरभ्रातरि भीमेन तद्भ्रातुः सस्थानं प्रापिते तद्वनमेत्य, तत्र न्यूषुः। स्वपुत्रनिन्दया पाण्दडवप्रशंसया च कुपितेन धृतराष्ट्रेण निरस्ते क्षत्तरि युधिष्ठिरसमीपगते तेनैव पुनश्च प्रत्याहूते च सति, तं संध्यर्थं घटमानं मत्वा, ततः प्रागेव वनस्थानपि तानभियोक्तुमुद्युक्तो दुर्योधनो व्यासेन निषिद्वो विरराम। अथ तदाग्नया 'ग्नातीनां मिथो भेदो न युक्तः'इत्युपदिशन्मैत्रेयः स्ववाक्यमनाद्यत्य, स्वोरौ ताडयन्तं तं धार्तराष्ट्रहतकम्, 'तवोरं भीमो भेत्स्यति' इति शप्त्वा जगाम।
तदनु वनस्थांस्तान्द्रष्टुमागतो हरिस्तेषां तथाविधया दशया कुपितः सन् 'तदानीं साल्ववधव्यग्रतयास्माभिरागन्तुं न पारितम्। अधुना तान्हन्मि' इत्युत्तिष्ठन् 'चतुर्दशे वर्षे सर्वं करिष्यसि' इत्युर्जनेन सान्त्वितः स्वसारं तत्पुत्रं चादाय द्वारकामाप। तथा धृष्ठद्युम्नादयो द्रोणादीनां वधं प्रतिग्नाय, प्रतिविन्ध्यादिभिर्भागिनेयैः सह स्वमावासमागमन्।
अथ द्वैतवने वसन्स एकान्ते जातुचित्कृष्णयाभ्यधायि - 'आर्यपुत्र, जाने कुरुसदसि भवता सहजं तेजोऽपि पणीकृतम्। अन्यथा अत्युत्कतटो व्यतिक्रमो दुर्बलमपि विक्रमयति' इति लोकोक्तिर्महाक्षत्रिये त्वयि कथं व्यभिचरिता। आततायिनि क्षान्तिरिति विप्रतिषिद्वमिदम्' इति। 'अयि कल्याणि, नियतितन्त्रो ह्ययं लोको, न पुनः स्वतन्त्रः। स्वतन्त्रे तु क्षान्तिरक्षान्तिश्च। अक्षान्तो हि पशुरेव न पुरुषः। क्षान्तिर्बलवतां भूषा, दुर्बलानां तु परायणम्। तद्भद्रे, प्रतीक्षस्वावामं दैवम्' इत्याश्वासयन्तं ज्येष्ठं वृकोदरोऽवादीत् - 'आर्य, त्रयोदशे वर्षे कथमग्नातचर्यां पारयिष्यामः। न ह्यादित्यः प्रतलेन पिधातुं शक्यः। ततश्च पुरुषायुषव्रतं भविष्यति। यो यद्वर्मा तं तद्वर्मोपचरेदिति हि नीतिवादः। संवत्सरप्रतिनिधित्वेन क्कचिन्मासोऽपि गण्यते। अतीताश्च त्रयोदश मासाः। तं न्यायमत्रातिदिश। व्यपदिश प्रतिग्नां पारिताम्। आदिशास्मान्परेषामवबरोधकरीर्विकारयितुम्, कारयितुं चास्यास्तपस्विन्याः कबरीसंयमनम् इति। तत्प्रसङ्गाद्भीष्मादीनामतिरथानां दुर्जयत्वमाकलय्य दुर्मनायमाने राजनि, भगवान्बादरायणः स्वयमागत्य तस्मै प्रतिस्मृतिं नाम विद्यामुपदिदेश। आदिदेश च विद्यया दिव्यास्त्रसङ्ग्रहायार्जुनं प्रेषयितुम्।
Start a discussion about विकिपीडिया:व्यासपीठ
विकिपीडिया की सामग्री को यथासम्भव रूप से सर्वश्रेष्ठ बनाने के लिए लोगों द्वारा जहाँ पर चर्चा की जाती है उन्हें वार्ता पृष्ठ कहा जाता है। विकिपीडिया:व्यासपीठ में सुधार कैसे करें, इसपर अन्यों के साथ चर्चा आरम्भ करने के लिए आप इस पृष्ठ को काम में ले सकते हैं।