विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/अश्वः
अश्वः(Equus ferus caballus) मनुष्येण युक्तः संसारस्य सर्वप्राचीनपाललितस्तनपोषी प्राणी वर्तते। यः खलु अज्ञातकालात् मनुष्यस्य केनापि प्रकारेण सेवाम् अकरोत्। अश्वः (Equidae) अश्ववंशस्य सदस्यः अस्ति। अस्मिन् कुटुम्बे अश्वातिरिक्तः वर्तमानयुगीनः गर्दभः भट खरः, टट्टू,अश्वः, (खच्चर) अपि च अस्ति। आदिनूतनयुगस्य ईयोहिप्पस (Eohihhus) नामकस्य अश्वस्य प्रथमपूर्वजात् अद्यावधि सर्वे पूर्वजाः सदस्याश्च कुटुम्बेsस्मिन् सम्मिलिताः सन्ति। अस्य वौज्ञानिकं नाम ईक्वस (Equus) लौटिन भाषातः स्वीकृतः,यस्यार्थः अश्वः अस्ति। परन्तु अस्य कुटुम्बस्य अपरो सदस्याः ईक्वस् जातेः एव अपरे षट्सु उपजातिषु विभक्ताः वर्तन्ते ।अतः केवलम् ईक्वस् शब्देन अश्वम् अभिधातुं नोचितम्। इदानीन्तनस्य अश्वस्य उचितं नाम ईक्वस् कैबेलस् (Equus caballus) अस्ति। अस्य पालितारण्यसम्बन्धी अनेन नाम्ना ज्ञयते। आरण्यसम्बन्धिभिरपि यौनसम्बन्धं स्थापिते सति बांझ पुत्राः नोत्पद्यन्ते। उच्यते यत् इदानीन्तनयुगस्य सर्वे आरण्याश्वाः तेषां पालिताश्वानां पूर्वदाः सन्ति ये सभ्यजीवनानन्तरं वनं गताः अद्य च ते आरण्याः मन्यन्ते। यद्यपि केतन पश्चिम एशियायाः ,पश्चिमी मंगोलिया पूर्वी तुर्की स्थाने च लभ्यमानाः ईक्वस प्रज्वोलस्की (Equus przwalski) नामकम् अश्वं वास्तविकारण्याश्वः मन्यन्ते। तथापि वस्तुतः एषः अस्यैव पालिताश्वस्य पूर्वजेषु वर्तते। दक्षिणाफ्रिकायाः वनेषु अद्यापि अश्वाः बृहत्समूहे लभन्ते।एकस्मिन् समूहे एकः नरः केचन मादाः भवन्ति। सर्वाधिकं 100 यावन्तः अश्वाः एकसार्धं वनेषु लभन्ते। परन्तु एते अश्वाः ईक्वस कैबेलस् अस्यैव आरण्यपूर्वजाः सन्ति। एकम् अश्वं नेता ज्ञात्वा तस्याज्ञायां स्वसामाजिकजीवनं व्यत्यापयन्ति। एकसमूहस्याश्वाः अपरसमूहस्य जीवनं,शान्तिं च भंगयन्ति।संकटकाले नराः परितः मादान् अभिव्याप्य तिष्ठन्ति। आक्रमणकारिणः सामनां कुर्वन्ति। एशियायां बहुसंख्यायां एतेषां लघु पदविन्यासस्य आरण्यसम्बन्धी 50 तः 100 यावतः समूहे लभन्ते । मनुष्यः स्व आवश्यकतानुसारं तान् पालकान् करोति। 1)पालितानम् इिहासः । 2)अश्वजननम्। 3)सन्दर्भः। 4)एतानपि पश्यन्तु। पालितानामितिहासः- अश्वं पालितस्य वास्तविम् ऐतिह्यम् अज्ञातं वर्तते। केचनानां मतं यत् 7000 वर्षं पूर्वं दक्षिणी रूसस्य सकाशे आर्याः प्रथमवारम् अश्वम् अपालयन्। बहवः विज्ञानवेत्तारःअ्माकम् आर्यपूर्वजलेखकाः एतम् आर्यैतिह्यम् अजूगुपन् । अस्य पालनस्य स्थानं दक्षिणी पूर्वी एशिया अवोचन् परन्तु वास्तविकमेतत्, यत् अनन्तकालम् अस्माकम् आर्यपूर्वजाःएव अ्वान् पालिताः अकुर्वन्। यः खलु पुनः एशियातः यूरोपे, मिस्रे, शैः शनैश्च अमेरिकादिषु देशेषु विस्तारो अभवत्। संसारस्यैतिह्ये अश्वविषये लिखितं प्रथमपुस्तक शालिहोत्रम् इत्यस्ति। यं शालिहोत्रऋषिः महाभरतकालात् बहुपूर्म् अलिखत्। उच्यते यत् शालिोत्रेण अश्वचिकित्साविषये लिखितं प्रथमं पुस्तकस्ति इति कारणेन प्राचीनभारते पशुचिकित्साविज्ञानं (Veterinary Science) शालिहोत्रशास्त्रमिति नाम दत्तम्। महाभरतस्य युद्धसमये राजा नलः पाण्डवेषु च नकुलः अश्विद्यायाः प्रकाण्डपण्डितः आसीत्,सोsपि शालिहोत्रशास्त्रविषये पुस्तकानि अलिखत्। शालिहोत्रस्य वर्णनम् अदाय संसारस्य अशचिकित्साविज्ञानविषये लिखितेष पुस्तकेषु दीयते। भरते अनिश्चतकालात् देशी अश्वचिकित्सकः शालिहत्री इत्यच्यते। 12-13 शताब्द्यां जयादित्येन रचिते अश्ववैद्यके अश्वस्य चिकित्सायां अफीम उपयोगस्य सन्दर्भः आगतम्।