विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/डाकातिया नदी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

डाकातियानदी भारतवाङ्गलादेशयोः अन्तःसीमान्तवर्ती एका नदी। सा वाङ्गलादेशस्य दक्षिणपूर्वाञ्चलस्य कुमिल्ला-चाँदपुरजिलयोः एका नदी। अस्याः नद्याः दैर्घः १४१ किमि प्रस्थः ६७ मि एवञ्च अस्याः गतिः सर्पाकृतिवत्। वाङ्गलादेशस्य जलोन्नयनपरिषदा पावुसंस्थया वा प्रदत्तापरिचितिसंख्या दक्षिणपूर्वाञ्चलस्य सप्तमा (७) नदी इति। वर्णनम्-- डाकातियानदीः मेघना नद्याः एका उपनदी। इयं नदी भारतस्य त्रिपुराराज्यस्य कस्माच्चन गिरेः प्रवह्य कुमिल्लाजिलायाः वागसारा इति स्थानं स्पर्श वाङ्गलादेशं प्रविष्टवती एवञ्च चाँदपुर-लक्ष्मीपुरजिलयोः उपरि प्रवाहमाना अस्ति। सा कुमिल्ला-लाकसाम-चाँदपुरजनपदञ्च भुत्वा मेघनानद्यामपतत्। एषा लक्ष्मीपुरस्य हाजमिरायावत् विस्तृता अस्ति। अस्याः दैर्घः २०७ किमि। मेघना एव डाकातिया प्रवेशानन्तरं डाकातिया इति नाम्ना परिचिता अभवत्। अस्याः दक्षिणांशः नोयाखाली खत इति प्रवाहिता। चाँदपुर तः इयं डाकातियानदी कुमिल्लायाः गोमतीनद्या सह संयुक्ता भुत्वा २३० अक्षांशे तथा ९१० द्राघिमायां प्रवाहित। इयं वामतः दक्षिणदिशायां प्रवाहिता सती अन्ते फेनीनद्यां पतितम्।

नामकरणम्-- सम्भवतः मग-फिरिङ्गिजलदस्यवः अनया नद्या माध्यमेन नोयाखलि कुमिल्लाजिलायां प्रविष्टवन्तः। तेषां माध्यवेन एव अस्यां नद्यां लुन्ठनं भवति स्म। लुन्ठनकारणेन अस्याः नद्याः नाम डाकािया इति जनाः चिन्तयन्ति। तत्कालीन कलकातास्थ इस्ट-इण्डिया कोम्पानि परिषदपक्षतः कोर्ट अव डिरेक्टर इति सभायां १७५८ क्रिष्टशतकस्य जनवरीमासस्य १० दिनाङ्के प्रेषितमेकं पत्रमाध्यमेन जलदस्युनाम् उपद्रवस्य चित्रं प्रतिभाति। तत्र लिखितमस्ति यत्- डाकातिया नद्याः नामकरणविषये इतोऽपि एकं जनप्रवादमस्ति यत् एकदा नदीयं तीव्रा प्रवाहयुक्ता आसीत्। मेघनायाः इयं शाखानदी डाकातियायां मेघनायाः भयङ्करी रूपं दृश्यते स्म। फलतः डाकातियायाः प्रवाहवाहुल्येन उभयकुलवर्तीजनाः निस्व सञ्जातः। डाकातियायाः पारापारसमये वहव्यः जनाः सलिलसमाधिं प्राप्तवन्तः। दस्युः इव सर्वग्रासी इति कारणात् अस्याः नाम डाकातिया इति।

योगायोगः-- एकदा अनया नद्या माध्यमेन जनाः वरिशाल, भोला, शरियतपुर, फरिदपुर, नारायणगढञ्ज, ढाका, नरसिंहादि देशस्य विविधक्षेत्रेषु द्रव्यादि आनयनं कुर्वन्ति स्म।