विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/पूण्यगर्भा ऋषिकुल्या

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

ओडिशाप्रदेशे विद्यमानासु नैकासु महती नदीषु ऋषिकुल्या नदी अन्यतमा वर्तते या कन्धमालगञ्जामजनपदयो:समग्रोपकूलवर्तीनिरूपेण शोभते । पूर्वघाटपर्वतमालायां विद्यमानात़् दारिङ्गवाडिपर्वतात़् १०००मि दुरे वर्तते एतस्या:उद्भव:। यत: उद्भवतीयं नदी तत् दारिङ्गवडीति स्थानम् "ओडिशाया: कश्मीर्:" इति नाम्ना प्रसिद्धम् । १९,०७-२०,१९ अक्षांश एवं च ८४,०१-८५,०६ द्राघिमारेखयोर्मध्ये विद्यते एतस्या: अवस्थिति: । गञ्जाम जनपदे स्थितम् प्राचीन बन्ध इत्यस्मिन् स्थाने वङ्गोपसागरेत्यनेन सह मिलितम् एषा नदी । बाघुआ,धनेइ,बडनदी आदि नद्य: भवन्ति एतस्या: उपनद्य: । मुखरूपेण एतस्या: न काचित् त्रीकोणभूमिरस्ति ।

प्रवाहस्थानानि- उभये कन्धमालगञ्जामजनपदे विद्यमानं दारिङ्गिवाडिपर्वतात् नदीयं प्रवाहिता । सुरदा, धाराकोटा,आसिका,पितल;,पुरुषोत्तमपुर:,तारातारिणि,प्र्तापपुर:,अलादिगां,ब्रह्मपुर,गञ्जाम, इत्यादिषु स्थानेषु एषा नदी प्रवहति । इयं १६५km परिमिता दीर्घा वर्तते किं च ७७००km परिमिता एतस्या: आयतनं वर्तते ।

ओलिभ् रिड्ले कूर्माणां सर्वेक्षणम्

 १९९३ तमे वर्षे ओडिशा सर्वकार एवं च भारतीय जीवसंस्थापक्षत: आगता: प्राणिविज्न्यानीन:ज्न्यातवन्त:यत् स्थानमिदं समग्रभारते श्रेष्ठतमं विद्यते ओलिभ् रिड्ले कूर्माणां रक्षणावेक्षणाय । एतस्य स्थानस्य समीपवर्ती ग्रमा: मूख्यत: धीवराणां विद्यन्ते । ते च यथा- पालि बन्ध:,गोखरकुद:,तथा च कन्टिआपडा । स्थानमिदं ओलिभ् रिद्ले कछपानां कृतैव शोभते ।

गञ्जामदुर्गत: अस्या: दृश्यम्

  तत्र तवत् मुख्यनगरत्वेन ब्रह्म्पुरनगरं शोभते किं च अन्येपि नगराणि राजन्ते । ते च यथा- छत्रपुर;,गञ्जाम:,आस्का,भञ्जनगर:,बेलगुन्ठा एवं च सुरदा इत्येतानि ।

शिल्प:

  शिल्पमय:भवति अस्यामुपकूलम् । तेषु शिल्पगारेषु Grasim Industries Ltd-Ganjam Chemical Division (formerly Jayashree Chemical Ltd). Aska Co-operative Sugar Industries Ltd.Nuagam, Aska Spinning Mills, Monorama Chemical Works Ltd., Orissa Tubes Pvt. Ltd. इत्यदीनि स्वकीयं स्थानं निर्वहन्ति । एतानि विहय अन्यान्यपि वहूनि क्षुद्र्शिल्पगाराणि मुख्यत: खाद्यम्,अरण्यम्,रब्बर,प्लष्तिक्,काच:तथा च काष्ठादिनि नैकानि क्षेत्राण्याधारीकृत्यैव विराजन्ते । अत्रापि अरण्यसम्बन्धी शिल्पगाराण्यपि स्थपयितुं शक्यते । वस्तुत:मृत्तिका,वालुका,माग्नेसिस् इत्यादीषु खनीजद्रव्येषु रुद्धिमन्त: स्थानमिदम् ।