विक्रमादित्यः (नौयानम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
विक्रमादित्य(ऐ एन् एस्).jpg
ऐ एन् एस् विक्रमादित्य (आर् ३३)
कार्यक्षेत्रम् (भारतम्)
नाम ऐ एन् एस् विक्रमादित्य (आर् ३३)[१]
नाम्नः स्रोतः विक्रमादित्यः
निर्माता ब्लाक् सी शीप्-यार्ड्, मैकोलीव्, यूक्रेन्
मौल्यम् $२.३५ बिलियन्[२]
मान्यतप्राप्तिः १६ नवेम्बर् २०१३[३]
गृहस्थानकम् ऐ एन् एस् कदम्ब, कारवारम्
धेयम् Strike Far, Strike Sure[४]
स्थितिः २०१४ वर्षतः कार्यक्षेत्रे
साधारणवैशिष्ट्यानि
श्रेणी

संशोधितकैवश्रेणी

(Kiev-class aircraft carrier)
प्रकारः विमानवाहकः
विस्थापनम् ४५,४०० टन् पर्यन्तं भारं विस्थापनयोग्यता [५][६]
दैर्घ्यम् 284 मीटर (932 फ़ुट) (आहत्य)
स्थूलत्वम् 60 मीटर (200 फ़ुट)[७]
जलोच्छासः
(सहनक्षमता)
10.2 मीटर (33 फ़ुट)
नौपृष्ठाणि(डेक्) 22[८]
संस्थापितशक्तिः

वैकल्पिकरूपेण ६ टर्बो एवञ्च ६ डीजेल्

यन्त्राणि सन्ति यत् १८ मेगावाट् शक्त्युपादन् योग्यः [८]
प्रणोदनम्

८ टर्बोशक्तियुक्त बायलार्स्, ४ शाफ्ट्स्

४ गीयर्-सम्पन्नः बाष्पटार्बैन्स्, १८०,००० hp[८]
गतिः अधिकतमः ३० नाट्स्(knots)(५६कि मी/प्रतिघन्टा)
सीमा १८ नाट्स् (३३km/h) वेगेन
७,००० नाटिकल् मैल् (१३,०० कि मी) तः
१३,५०० नाटिकल् मैल् (२५,००० कि मी)[९]
तितिक्षा ४५ दिनानि[८]
पूरणम् १,६००-२,०००[७]
संवेदकस्तथा
कार्यपद्धतिः

दीर्घसीमायुक्तः आवेक्षणरेडार् (Air Surveillance Radars)
LESORUB-E, Resistor-E रेडार् कम्प्लेक्स्,
CCS MK II कम्युनिकेशन् कम्प्लेक्स् एवं

Link II tactical तथ्ययन्त्रम्[८]
शस्त्रीकरणम्
विमानवाहनक्षमता

अधिकतम ३६ विमानयानानि यथा-

Kamov Ka-28 ASW हेलिकाप्टर्[१३]
वैमानिक-
सौलभ्यानि
  • द्वि-एकर् परिमितं फ़्लैट् डेक्[१४]
  • १४ डिग्री स्कै जम्प् रेम्प्
  • त्रिणि ३० मी विस्तृतं बन्धनकारी गीयर्
त्रिणि अवरोधनिमित्तं गीयर्[८]

ऐ एन् एस्(INS) विक्रमादित्यः (Vikramāditya) पूर्वसोवियत्-राष्ट्रस्य एडमिरल् गोर्शकोव् इति विमानवाहक-नौयानस्य नूतननाम अस्ति । एतद् वृहन्नौयानम् इदानीं भारतस्य अधीनं वर्तते । किञ्चिद् कालपूर्वम् एवम् अनुमीयते स्म यत् यानमिदं २०१२ वर्षाभ्यन्तरे भारतस्य नौसेनायां भवति इति । परन्तु बहुविलम्बेन[१५] २०१३ तमवर्षस्य नवेम्बर् मासस्य १६ दिनाङ्के एतद् विशालनौयानं भारतीयनौसेनायां आगतम् ।[१६] [१७] २०१४ वर्षस्य जनवरीमासस्य ६ दिनाङ्के ऐ एन् एस् विक्रमादित्यः भारतीयनौसेनायाः कारवारस्थिते आगतः[१८]विक्रमादित्यनौयानम् यूक्रेन्देशस्य माइकोलैव् ब्लैक् ‍सी शिपयार्ड् मध्ये निर्मितं(१९७८-१९८२) एकं कीव् श्रेण्यान्तर्भुतं विमानवाहकनौयानस्य रूपान्तरणम् अस्ति । रशियादेशस्थिते अर्खान्गेल्स्क् ओब्लास्ट् इतस्य सेवेरॉद्विनस्क् संस्थायाः सेवमाश् शिपयार्डे अस्य यानस्य पुनर्नवीकरणम् अभवत् । यानमिदं भारतस्य एकमेव कार्यरतस्य विमानवाहकनौयानस्य ऐ एन् एस् विराटस्य स्थाने कार्यं करिष्यति । विक्रमादित्यस्य निर्माणे भारतस्य $२.३५ बिलियन् धनव्यायः अभूत् [२]

नामकरणम्[सम्पादयतु]

"विक्रमादित्यः" इति संस्कृतशब्दस्य अर्थः "सूर्यसमः यस्य विक्रमः" । शाब्दिकीं व्युत्पत्तिं विहाय उज्जयिन्याः प्रसिद्धस्य पराक्रमशालीराज्ञः द्वितीयचन्द्रगुप्तस्यापि ख्यातिः विक्रमादित्यः इत्यनेन नाम्ना आसीत् । महान् योद्धारूपेण इतिहासख्यातः अयं विक्रमादित्यः । नौयानस्य नामकरणमपि एतस्मात् प्रसिद्धिं गता ।

क्षमता[सम्पादयतु]

विक्रमादित्यनौयानं ४५३०० टन् भारयुक्तं, २८४ मीटर् दैर्घ्यं तथा ६० मीटर् औन्नत्यविशिष्टं युद्धयानम् अस्ति[१९] । तुलनात्मकदृष्ट्या अस्य यानस्य दैर्घ्यं त्रिणि पादकन्दुकक्रीडाङ्गणसमम् अस्ति । औन्नत्यञ्च प्रायः २२ अट्टविशिष्टं भवनसदृशम् अस्ति । अत्र मिग्(MiG)-२९-के(K) युद्धविमानं, कामोव्-३१, कामोव्-२८, सीकिङ्ग, ए एल् ऐच् ध्रुवः, चेतकः हेलिकॉप्टर् सहित त्रिंशत् विमानानि भवन्ति तथा एन्टी मिसैल् प्रणाल्यः सक्रियाः भवन्ति । एतस्याः व्यवस्थायाः परिणामस्वरूपं एकसहस्र किलोमीटर् पर्यन्तं युद्धविमानं, युद्धनौयानं वा अस्य परिधौ भवति । १६०० नौसैनिकानां कर्मीवाहिनीनिमित्तं १८ मेगावाट् जेनरेटर्-तः विद्युतस्तथा आस्मोसिस् प्लान्ट्तः ४०० टन् पेयजलं उपलब्धम् भवति ।

इतिहासः[सम्पादयतु]

क्रयणम्[सम्पादयतु]

विमानवाहकः यदा एडमिरल् गोर्शकोव् आसीत्
  • १९८७ तमे वर्षे एडमिरल् गोर्शकोव् इति नौयानं को सोवियत् सङ्घस्य नौसेनायां योजितमासीत् । परन्तु सोवियत् सङ्घस्य विलुप्तेः पश्चात् १९९६ वर्षे सर्वकारेण एतद् यानं निष्क्रियं कारितमासीत् । अयं विषयः भारतसर्वकारस्य ध्यानं आकर्षितम् आसीत् । तदा भारतमपि स्वविमानवाहकनौयानस्य क्षमतावर्धने प्रयत्नशीलः आसीत् [२०]। वहुवर्षपर्यन्तं चर्चायाः पश्चात् २० जनवरी, २००४ तमे वर्षे अस्मिन् विषये रशिया-भारतयोः सन्धिपत्रे हस्ताक्षरम् अभूत् । नौयानम् तदा निष्क्रियमासीत् तथापि भारतसर्वकारेण पुनर्निमाणनिमित्तं $८०० मिलियन् तथा $१ बिलियन् धनराशिः उच्चस्तरीकरणार्थं दत्तः । भारतीयनौसेना एतस्मिन् नौयाने ई-2सी हॉक् ऐ(E-2C Hawkeye) व्यवस्था स्थापयितुं उत्साही आसीत् । परन्तु अनन्तरं निर्णयः परिवर्तितः आसीत्[२१] २००९ वर्षे भारतीयनौसेनानिमित्तं नोर्थरोप् ग्रुम्मान् संस्थया उन्नता व्यवस्था ई-2डी हॉव्कै (E-2D Hawkeye) प्रदर्शिता[२२]
  • $१ बिलियन् धनेन मिकोविमानयानं मिग्-२९के फल्क्रम्-डी (प्रोडक्ट् ९.४१),मिग्-२९के यू बी, ६ कामोव् के ए-३१ "हेलिक्स्" टोहीविमानं, टारपीडो ट्यूब्स्, तथा मिसैलाद्याः प्रणाल्यः सौपलभ्यमानाः भवन्ति इति सन्धिपत्रे आसीत् ।
१४.३º बो स्कै-जम्प् कृते मार्गनिर्माणार्थं याने अग्रे स्थितानां पी-५००, बाजल्ट् क्रूज् मिसैल् लाञ्चर् तथा चत्वारः अन्ते किन्झल् मिसैल् लाञ्चर् आद्यस्त्राणां अनावृतकरणस्य अपेक्षा आसीत् (विमानवाहकनौयानस्य रूपान्तरणस्य योजनानुसारं)
  • १४.३º बो स्कै-जम्प् कृते मार्गनिर्माणार्थं याने अग्रे स्थितानां पी-५००, बाजल्ट् क्रूज् मिसैल् लाञ्चर् तथा चत्वारः अन्ते किन्झल् मिसैल् लाञ्चर् आद्यस्त्राणां अनावृतकरणस्य अपेक्षा आसीत् । शॉर्ट् टेक्-ऑफ् बट् एसिस्टेड् रिकवरी (एस् टी ओ बी ए आर् (STOBAR)) विन्यासार्थं एषा योजना प्रयोजनीया आसीत् [२३] । एतस्मात् गोर्शकोव् नौयानस्य सङ्करवाहक/क्रुजर्-तः केवलं वाहकरूपेण परिवर्तनं भविष्यति ।
  • ऐ एन् एस् विक्रमादित्यः इति नौयानम् अर्पयितुं घोषणा २००८ तमवर्षस्य अगस्ट् मासे अभवत् । एतस्मात् यानमिदं भारतीयनौसेनायाः एकमात्रं विमानवाहकनौयानस्य(ऐ एन् एस् विराटस्य) स्थाने कार्यकर्तुं अनुमतिम् अलभत् । भारतसर्वकारेण ऐ एन् एस् विराटस्य सेवानिवृत्तेः समयसीमा २०१०-२०१२ पर्यन्तं वर्धिता कृता[२४] । कालविलम्बेन मूल्यवृद्धेः विषयः आगतः आसीत् । अयं विषयः निराकर्तुं उच्चस्तरीय कूटनीतिज्ञानां वार्ताम् अभवत् । भारतदेशेन एषा परियोजनानिमित्तं $१.२ बिलियन् अतिरिक्तधनराशिः दत्ता । एतद् मौल्यं पूर्वापेक्षया द्विगुणाधिकमासीत्[२५]
  • २००८ तमवर्षस्य जुलै मासे एवम् उद्घोषितमासीत् यत् रशियादेशेन नौयानस्य $३.४ बिलियन् पर्यन्तं मूल्यवृद्धिः कृता । नौयानस्य असमीचीना स्थितिनिमित्तम् अप्रत्याशितव्यायः कारणत्वेन वर्णितः आसीत्[२६]भारतदेशेन २००८ वर्षस्य नवेम्बर् मासाभ्यान्तरे $ ४०० मिलियन् धनराशिः प्रदत्ता आसीत् ।
  • यदि यानमिदम् भारतदेशः क्रेतुं नेच्छति तर्हि रशिया स्वसेनायां अन्तर्भावयितुम् आग्रही आसीत् । २००८ तमवर्षस्य डिसेम्बर् मासे भारतसर्वकारपक्षतः सूचना प्राप्ता यत् कैबिनेट् कमिटी अन् सिक्युरिटी(सी सी एस्) इति संस्थायाः गोष्ठ्यां सर्वोत्तमविकल्परूपेण रशियादेशीयनौयानं (एडमिरल् गोर्शकोव्) क्रेतुं निर्णयः अभूत्[२७] । भारतस्य महालेखपरीक्षकसंस्था (सी ए जी) आलोचनां कृत्वा सर्वकारं सूचीतमासीत् यत्- विक्रमादित्यनौयानम् एकं पुरातनं युद्धयानं यस्य कार्यावधिः वहुदीर्घा भवितुं नार्हति । यानमिदं मौल्यदृष्ट्या नूतनयानापेक्षया ६०% अधिकमस्ति । तथा अधिकविलम्बस्यापि आशङ्का अस्त्यैव ।
  • भारतीयनौसेनाप्रमुखः एडमिरल् सुरीशमेहता महोदयः युद्धनौयानस्य क्रयणस्य पक्षे उक्तवान्- "अहं सी ए जी संस्थाविषये टिप्पणी कर्तुं योग्यः न, परन्तु भवन्तः सर्वे रक्षाविश्लेषकाः सन्ति, किम् भवन्तः $२ बिलियन् धनेन विमानवाहकनौयानम् आनयितुं शक्नुवन्ति वा ? यदि शक्यं तर्हि अहमिदनीमेव धनादेशपत्रं (चेक्) दातुं समर्थः" ।

नौसेनाप्रमुखस्य इयं विवृत्त्या अनुमातुं शक्नुमः यत् सन्धिः $२ बिलियन् अधिका अस्तीति । "नौयानस्य क्रयणस्य पूर्वं नौसेनया विश्लेषणं न कृतमिति" सी ए जी संस्थायाः टिप्पणीविषये प्रश्ने पृष्ठे सति भारतीयनौसेनाप्रमुखस्य उत्तरम् एवमासीत्- "अहं भवन्तं सुनिश्चितं कारयितुं शक्नोमि यत्, एवन्नास्ति(विश्लेषणं न कृतमिति) विषयः । दशवर्षारभ्यः अस्माकम् अवधानम् अस्य नौयानस्योपरि अस्ति ।"

  • २००९ तमवर्षस्य जुलै-मासस्य द्वितीये दिनाङ्के रशियादेशस्य राष्ट्रपतिना उक्तं यत् त्वरया नौयानस्य अवशिष्टानि कार्याणि समाप्य २०१२ संवत्सराभ्यन्तरे भारताय दीयते । [२८] सूचनानुगुणं सेप्टेम्बर-मासस्य ७ दिनाङ्के नौयानस्य वाणिज्यविषये रशिया-भारतयोर्मध्ये अन्तिमा चर्चा जाता ।[२९]

नवीकरणम्[सम्पादयतु]

नौयानस्य निम्नतलस्य पुनर्नवीकरणकार्याणि २००८ तमे संवत्सरे समाप्तानि आसन् ।[३१] अनन्तरं डिसेम्बर्-मासस्य ४ दिनाङ्के यानस्य पुनः जलावतरणम् कृतम् ।[३२] २०१० वर्षाभ्यन्तरे नौयानस्य यन्त्राणि सर्वाणि स्थापितानि आसन् ।[३३]


टिप्पणी[सम्पादयतु]

  1. "विमानवाहकनौयानम्: ऐ एन् एस् विक्रमादित्य". भारतीयनौसेना. Retrieved 4 January 2014. 
  2. २.० २.१ PTI (10 March 2010). "$ २.३ बिलियन्मितेन धनेन गोर्शकोव्-सन्धिः". The Hindu. Retrieved 27 April 2013. 
  3. "नवेम्बर् १६, विमानवाहकयानम् (ऐ एन् एस् विक्रमादित्यः) भारतीयनौसेनायायाम् अगन्तुं सिद्धम् ।". दि इन्डियन् एक्स्प्रेस्. १४ नवेम्बर् २०१३. Retrieved १५ नवेम्बर् २०१३. 
  4. "विक्रमादित्ययानस्य ध्येयवाक्यम्- 'Strike Far, Strike Sure'", १७ नवेम्बर् २०१३. Retrieved on १७ नवेम्बर् २०१३. 
  5. "नौसेना – योजना ११४३". Bharat-Rakshak.com. १७ नवेम्बर् २००८. Retrieved २९ जुलै २०१२. 
  6. "भारतीयनौयानस्य समुद्रभ्रमणम् #124; रक्षामन्त्रालयवार्ता". defensenews.com. Retrieved २९ जुलै २०१२. 
  7. ७.० ७.१ "Vikramaditya to be handed to the Indian Navy on November 16". India & Russia Report. Retrieved 27 October 2013. 
  8. ८.० ८.१ ८.२ ८.३ ८.४ ८.५ "१६ नवेम्बर् २०१३, विक्रमादित्यस्य विषये चर्चा". भारतीयनौसेना. Retrieved १६ नवेम्बर् २०१३. 
  9. PTI. "Engine problems in INS Vikramaditya fixed, sea trial to start in June – Economic Times". Articles.economictimes.indiatimes.com. Retrieved 27 April 2013. "an endurance of 13,500 nautical miles (25,000 km) at a cruising speed of 18 knots. It will have an air wing consisting of Russian-made MiG-29K jet fighter planes and Kamov Ka-31 early warning radar helicopters." 
  10. "INS Vikramaditya won't have air defence system for now", 3 August 2013. Retrieved on 26 November 2013. 
  11. "INS Vikramaditya will serve Navy for 30 years", 7 August 2013. Retrieved on 26 November 2013. 
  12. "Misses, waits & progress in naval missiles", 2 August 2013. Retrieved on 26 November 2013. 
  13. "INS Vikramaditya enters Indian Navy's area of operation". The Hindu. Retrieved 4 January 2014. 
  14. "Navy gets long-delayed Vikramaditya", 16 November 2013. Retrieved on 26 November 2013. 
  15. 2012 पर्यन्तं रशिया ऐ एन् एस्(INS) विक्रमादित्यस्य (एडम् गोर्शकोव्) अर्पणे विलम्बः कृतः
  16. १६.० १६.१ "INS Vikramaditya Commissioned in Indian Navy". रक्षामन्त्रालयः, भारतसर्वकारस्य विज्ञप्तिः. १६ नवेम्बर् २०१३. Retrieved १८ नवेम्बर् २०१३. 
  17. १७.० १७.१ "ऐ एन् एस् विक्रमादित्ययानं रशियादेशः भारतं अर्पितवान्". नवभारत टाईम्स्. १६ नवेम्बर् २०१३. Retrieved १८ नवेम्बर् २०१३. 
  18. १८.० १८.१
  19. INS Vikramaditya undergoing sea trials
  20. http://www.strategypage.com/htmw/htnavai/articles/20100603.aspx
  21. IndiaDefence.com - व्हाट्स् हॉट्? साम्प्रतिकघटनानां विश्लेषणम् - एयरो इण्डिया २००५ - नौसेनायाः इच्छा - एकः ऐ डी सी (IDC) रिपोर्ट्
  22. भारतीयनौसेनया नौर्थ्रोप् एडवान्स्ड् हॉक् ऐव्यवस्था निराकृता
  23. डिफेन्स् टॉक् - परिवर्तमानस्य गोर्शकोव् यानस्य चित्रम्
  24. डिफेन्स् इन्डस्ट्री डैली ऐ एन् एस्(INS) विक्रमादित्य हिट्स् डिले , कॉस्ट् इन्क्रिसेज़्
  25. मूल्यवृद्धिः विषये एन् डी टीवी (NDTV) न्यूज़् क्लिप्
  26. यदि भारतदेशः $२ बिलियन् दातुं सिद्धः चेत् रशियादेशीय-विमानवाहकनौयानस्य प्राप्तिर्भविष्यति
  27. कमिटी अन् सिक्युरिटी(सी सी एस्)
  28. रशियादेशस्य राष्ट्रपतेः मन्तव्यः विक्रमादित्यविषये
  29. विक्रमादित्यविषये रशिया-भारतयोर्मध्ये सहमतिः
  30. "Antony to Visit Russia to Commission INS Vikramaditya and for Defence Talks". रक्षामन्त्रालयः, भारतसर्वकारः. 14 नवंबर 2013. Retrieved 16 नवेम्बर् 2013. 
  31. गोर्शकोव्-नौयानस्य निम्नतलस्य नवीकरणं समाप्तम्
  32. Christopher P. Cavas (December 8, 2008). "Russian Carrier Conversion Moves Forward". Retrieved December 10, 2008. 
  33. http://timesofindia.indiatimes.com/India/Gorshkov-to-be-handed-over-to-India-by-Dec-12/articleshow/5995560.cms

बाह्यसम्पर्काः[सम्पादयतु]