विक्रमोर्वशीयम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(विक्रोवेशीय इत्यस्मात् पुनर्निर्दिष्टम्)

विक्रमोर्वशीयं कालिदासेन लिखितं नाटकम्। एतत् नाटकं पुरूरवसः उर्वश्याः च वैदिककथाधारितम् अस्ति।

Urvashi Pururavas, painting by Raja Ravi Varma.

कथा[सम्पादयतु]

अस्य कथावस्तु प्रेम्णः कथावस्तु चेदपि अस्य सरणिः एव अन्या । अस्य नाटकस्य निर्माणावसरे कवेः प्रतिभा इतोऽपि अधिका दृश्यते । मालविकाग्निमित्रस्य कथा मानुषप्रपञ्चसम्बद्धा परं विक्रमोर्वशीयकथा दिव्यमानुषी । नायकः राजा पुरूरवः नायिका च स्वर्गलोकस्य अप्सराः ऊर्वशी । पञ्चाङ्कयुतेऽस्मिन् नाटके आकाशयानं कृत्वा पुरूरवः प्रत्यागच्छन् आसीत् । मध्येमार्गम् उर्वशी नाम्नः अप्सरसं केशिनाम दानवः अपाहरत् इति ज्ञात्वा अप्सरसः आक्रन्दनं कुर्वत्यः आसन् । तदा स्वयं केशिनम् अनुधावन् उर्वशीं मोचयित्वा आनयति । मार्गे स्वरथे उपविष्टायाः तस्याः सौन्दर्यं दृष्ट्वा राजा मोहितः भवति । उर्वशी अपि तस्मिन् अनुरक्ता भवति । अग्रे प्रेम्णः उत्कण्ठता अधिका भवति । ’तिरस्करणी’ इति विद्यया तम् अनुनयति । राजा पुरूरवः उर्वश्या सह गन्धमादनपर्वतं गच्छति । तत्र सा लतारूपेण परिणता भवति । ततः इन्द्रस्य निदेशानुसारं तया भूलोकात् प्रतिगन्तव्यं भवति । नाटकं सुखान्तं भवति ।

"https://sa.wikipedia.org/w/index.php?title=विक्रमोर्वशीयम्&oldid=340313" इत्यस्माद् प्रतिप्राप्तम्