विज्जिका

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

विज्जिका(Vijjika)[सम्पादयतु]

स्वतन्त्रकाव्यं रचितवतीषु कवयित्रीषु विज्जिकायाः अग्रस्थानम् अस्ति । ‘विजयाम्बिका’ इति एतस्याः अपरं नाम अपि आसीत् । विज्जिकायाः कालः कः आसीत् इति निश्चयरूपेण कथनं यद्यपि कष्टाकरं, तथापि विद्वांसः एवं तर्कयन्ति यत् सा अष्टमे शतके आसीत् इति । कर्णाटकराज्यम् एतस्याः जन्मस्थलम् । ’कौमुदीमहोत्सव’नामकम् ऐतिहासिकं नाटकं रचितवती अस्ति एषा । २० तमस्य शतकस्य पूर्वार्धे केरलराज्ये एतत् नाटकं प्राप्तम् । एतया रचिताः रमणीयाः ३० श्लोकाः अपि उपलभ्यन्ते ।

"https://sa.wikipedia.org/w/index.php?title=विज्जिका&oldid=389050" इत्यस्माद् प्रतिप्राप्तम्