विबुधानन्दम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
विबुधानन्दम्  
श्रेणी:पुस्तकानि यस्य मुखपृष्ठं नास्ति
लेखकः शीलाङ्कः
देशः भारतम्
भाषा संस्कृतम्

विबुधानन्दं नाम नाटकं शीलाङ्को नवमशताब्दे क्वचित् विरचितवान् । जैनानामेकादशाङ्कव्याख्यातृत्वेन प्रसिद्धिभाक् शीलाङ्कः राष्ट्रकूटवंशीयनृपतेराश्रितस्तद्वंशधरमेव नायकं निबध्य लक्ष्मीधरनामानं प्रतिभाप्रकाशेनामरभारतीमालोकयामास । इदं च करुणरसपूरं नाट्यम् ।

कथावस्तु[सम्पादयतु]

राष्ट्रकूटवंश्यो राजकुमारः श्रीधरो नाम न केवलं पुरुषकारः फलतीत्युक्तः स्वपौरुषं परीक्षितुं वसुधाभ्रमणाय प्रातिष्ठत। स राजशेखरस्य राज्ञो राजधानीं गतः । कञ्चुकिनी राजा तस्मै दुहितरं बन्धुमतीं राज्यार्धं च दातुं सन्दिष्टवान् । क्रीडोपवने राजकुमारः बन्धुमतीमदर्शत् । तयोः प्रणयावतारः प्रथमं पदं क्रान्तः । विदूषकेण सह कन्यान्तःपुरं गतोऽसौ चित्रागारे बन्धुमत्या प्रतिकृतमात्मानमपश्यत् । तत्रैवान्तर्हिता बन्धुमती ससखीका तयोरालापं श्रुत्वापि तस्यात्मगतं प्रेम नाशक्नोद् विनिश्चेतुम् । श्रीधरोऽपि तथैव तां प्रति सन्दिहान् आसीत् । अस्मिन्नेव मिथोद्वैविध्यव्यतिकरे राजकुमारः स्वप्रतिकृतिपार्श्वे बन्धुमती-प्रतिकृतिमालिखितवान् । अथ कियद्रूरं गत्वा मया कृत आलेखः कामपि शङ्कां जनयेदिति विदूषकं तच्चित्रमपसारयितुं निरदिशत् । अथ चित्रं प्रोञ्छितुकामं विदूषके पूर्वोपस्थिता बन्धुमत्याः सखी दृढं बाहुभ्यां गृहीतवती। तं मोचयितुं गतस्य श्रीधरस्य पाणौ बन्धुमत्याः पाणिं निधाय विदूषको वैवाहिकं समारम्भं समपादयत् ।

तस्मिन्नेव दिने सम्पन्ने विवाहविधौ आभूषणमञ्जूषां निरीक्षमाणः श्रीधरस्तत्र स्थितेन कालसर्पेण दष्टोऽम्रियत। राजशेखरश्च प्रव्रज्यां ग्रहीतुमना महिष्या पुत्रस्ते शिशुर्न तावद् राज्यपरिपालनाय शक्त इति वारितो मुमुक्षुरेव गृहेऽवसत् । जैनाचारमनुरुध्य शीलाङ्कोऽत्र उपदेशप्रवण एव लक्ष्यते -

मन्त्रैर्योगरसायनैरनुदिनं शान्तिप्रदैः कर्मभिः

युक्त्या शास्त्रविधानतोऽपि भिषजा सद्बन्धुभिः पालितः।

अभ्यङ्गैर्वसुभिर्नयेन पटुना शौर्यादिभी रक्षितः

क्षीणे ह्यायुषि किं क्वचित् कथमपि त्रातुं नरः शक्यते॥

एवं विधोपदेशानुशासनमेव नाट्यकर्तुरुद्देश्यमिति कृत्वा तस्य कवित्वं प्रति औदासीन्यमेव भजामः । सन्ति काश्चन सूक्तयोऽपि -

१. भवितव्यतैव लोके न खेदनीयं मनस्तेन।

२. विहाय शोकसरणीं कार्ये मनो दीयताम्।

३. न च कमलाकरं वर्जयित्वान्यं राजहंसमालाभिलषति।

४. न शक्यमन्यतः प्रवृत्तं चित्तमन्यतो दातुम्।

५. स्त्रीणां रोदनेनैव स्नेहाविष्करणं नानुष्ठानेन।

शृङ्गाराय कृतसामग्रीसम्भारोऽपि शीलाङ्को नात्मीयं जातु शीलाङ्कं मृगमिव मृगलाञ्छनो विमुञ्चति । तत्रैव तस्य कृतिर्मनो रमयति यत्रासौ शिक्षक इव दत्तचपेट इव जागरयति सुप्तां कामपि चारित्रशिक्षाम् -

यच्चिन्त्यते हृदयेन नैव, युज्यते न चैव युक्तिभिः।

विघटन-संघटनपरस्तदपि हताशो विधिः करोति॥

तथापि क्वचिदेव कदाचिदेवासौ कथंकथमपि संघटयति वीररसोल्लासमपि -

वज्रप्रकोष्ठकरजाग्रचपेटघात-

निष्पिष्टदन्तिदशनोत्कटमौक्तिकौघः।

सिंहः सहायविकलोऽपि दलत्यरातीन्

अन्तर्गतं ननु सदैककमेव सत्त्वम्।।

अप्रस्तुतप्रशंसामुखनैवेह वीरप्रशंसा प्रस्तुता। शृङ्गारमपि असौ क्लेशं क्लेशमप्रस्तुतेनैव प्रशंसति -

सहकारमञ्जरीं वर्जयित्वा महामहिमपरिमलोद्गाराम्।

अभिलषन्त्यवल्लीं कुत्रापि किं मधुकरो युवकः।।

यति-विच्छित्ति-विहीनेयं छन्दोविचितिः सहृदयान् बन्धुरे गिरिपथे धावयति । सर्वथा सर्वात्मनैव मुनिव्रतं शिशिक्षिषुः शीलाङ्कस्तनोति प्रातिभं प्रकर्षम् -

पिपतिपुरद्य श्वो या जराघुणोत्कीर्णदेहसारोऽपि ।

धर्मं प्रति नोद्यच्छति वृद्धपशुस्तिष्ठति निराशः।।

तथापि कवेः प्रासङ्गिकः शृङ्गारानुरागः प्रकृत्यैव वैवश्यमादत्ते -

सच्चामीकर-चारु-कुम्भयुगवत् तन्व्याःस्तनौ राजतः।

श्रोणी-मन्मथ-मन्दिरोरुयुगलं स्तम्भयतेऽस्याः स्फुटम्।।

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=विबुधानन्दम्&oldid=436734" इत्यस्माद् प्रतिप्राप्तम्