विविधेषु कालेषु महिलानां स्थानमानः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

समाजशास्त्रज्ञाः अपि बहु वर्षेभ्यः महिलानां स्थिति-गतिः, स्थानमानं सर्वं निर्णयं कृतवन्तः। अपि तु महिला समस्याः, महिलानां स्थानमाने व्यत्यासं इत्यादीनामपि निर्णयं कृतवन्तः एव आसन्। भारतीय इतिहासेsपि महिलानं स्थानमानेषु व्यत्यासः भवति। इतिहासे महिलानं स्थितिः पञ्च दशासु द्रष्टुं शक्यते। ते -

वेदकाले[सम्पादयतु]

ऋग्वेदकाले महिलाः स्वातन्त्राः आसन्। आर्याः पुत्रान् इच्छन्ति स्म किन्तु स्त्री अथवा महिलानां समाजे स्वातन्त्र्यम् अपि आसीत्। महिलाः अपि वेदकाले विद्याभ्यासं कुर्वन्ति स्म। पर्धा पद्दति अपि वेदकाले न आचरन्ति स्म । किन्तु विवाहविच्छेदनपद्दतिः अप्रशंसनीया आसीत्। परन्तु कुटुम्बे सम्पूर्णस्वातन्त्रम् अपि तु अर्धाङ्गी इति गौरवेण समजः महिलाः पश्यति स्म। महिलाः कृषिकार्येषु तेषां पतीनां साहाय्यं कुर्वन्ति स्म। पितुः व्यवहारे एक भागः अविवाहितपुत्रिभ्यः आसीत्। महिलाः सामजिक अपितु धार्मिकजीवने बहु मुख्यं पात्रं वहन्ति स्म। बहु महिलाः विद्वत्सभायां भागं वहन्ति। विद्वत्भरितकाव्यानि अपि रचितवत्यः आसन्। तेषु गार्गी, मैत्रेयी, लोपामुद्रा इत्यादयः। अतः वेदकाले महिलाः पुरुषेण सह समानमिति परिगणितुं शक्यते।

महाकाव्य काल्रे[सम्पादयतु]

महाकाव्य अर्थात् महाभारत-रामायणकालस्य इतिहासे महिला स्वातन्त्र्यस्य सुवर्णकालः इति परिगणयितुं शक्यते। महिलानां समाजे उन्न्ततस्थानमानम् असीत्। बहु महिलाः रामायण - महाभारतेषु उन्नतशिक्षणं प्राप्तवत्यः आसन्। रामयणम् आदर्शमहिलाः कथं भवेयुः इति निर्दिशति। महाभारते महिलाः सामजिक-धार्मिक समस्यानां परिहारं दत्तवत्यः । अतः महिलाः अपि सामजिक-धार्मिकजीवने मुख्यं पात्रं वहन्ति स्म इति ज्ञायते।

स्मृतीणां काले[सम्पादयतु]

महिला - पुरुषयोः सम्बन्धानुसारेण महिलाः पितृभिः, भ्रातृभिः, पतिभिः अपि गौरवेण पूजनीया इति वदति मनुः। अन्यथा, सत्फलम् अनुभोक्तुं न शक्यते इति उक्तवान्। मनुः वदति "यः कुटुम्बः महिलाः गौरवेण पूजयन्ति, सन्तोषेण महिलाः रक्षति, सः कुटुंबः सन्तोषे अपि तु ऐश्वर्ये वृद्धिं प्राप्नोति। अपि तु देवताः सदा सन्तोषेण तत्रैव निवसन्ति इति तस्य अभिप्रायः। अपि तु मनुस्मृतेः कानिचन शासनानि महिलानाम् आसक्तेः विरुद्धम् आसीत्। तेषु : महिलाः उपनयनं कर्तुं न शक्यते। अतः विद्याभ्यासम् अपि न प्राप्नोति। मनुः आर्थिकस्वातन्त्र्यमपि महिला न प्राप्नोति इति अभिप्रैति। सः "भार्या, पुत्र, दासीनां कस्यापि व्यवहारे भागं न आसीत्। ताभिः सम्पादितम् ऐश्वर्यं तेषां यजमानाय दातव्यं इति। अपि तु मनुः वदति महिलाः सदा कोsपि मानवस्य वीक्षणेsपि भवितव्यम्-बाल्ये पितुः, यौवने पत्युः, पत्युः मरणानन्तरे पुत्रस्य वीक्षणां भवितव्यं इति।

बौद्धकाले[सम्पादयतु]

बौद्धकाले महिलानां स्थानमानस्य उन्नतिः आसीत्। धार्मिकक्षेत्रे अपि महिलाः उन्नतस्थानं प्राप्तवत्यः। महिलाः 'भिक्षुणी'सङ्घाः इत्येतेषां द्वारा सांस्कृतिक-सामाजिककार्यक्रमेषु भागम् अवहन्। किन्तु महिलानाम् आर्थिकस्थानमाने कोsपि उन्नतिः नासीत्।

माध्यान्दिनकाले[सम्पादयतु]

सति

महिलानां स्थिति-गतिः अधमस्थाने आसीत्। महिलाः विद्याभ्यासं धार्मिकस्वातन्त्र्यं च न प्राप्नुवन्ति स्म। विधवापुनर्विवाहः अपि न प्रचलति स्म। पर्धा पद्धतिः, बाल्यविवाहः, सतीपद्दति इत्यादीनां प्रारंभः जातः। किन्तु भक्ति आग्रद्यः महिलाः धार्मिकस्वातन्त्रं प्राप्नुवन्ति स्म। एतस्य प्रभावेण सामिजिकस्वातन्त्त्र्यमपि प्राप्तम् । साधु-सन्तः धार्मिकपुस्तकानां पठनद्वारा विद्याभ्यसं कर्तुं प्रोत्साहं दत्तवन्तः। अतः समाजे महिलानां नवजीवनं आरब्धम्। किन्तु आर्थिकस्वातन्त्र्यं तु न आसीत् ।

आधुनिककाले[सम्पादयतु]

आधुनिककाले महिलानां सर्वस्वातन्त्रमस्ति इति चिन्तनं कर्तुं न शक्यते। आर्थिक-धार्मिक-सामजिक स्वातन्त्रमस्ति। किन्तु आत्मरक्षणं कर्तुं न शक्यते। यत्र नार्यस्तु पूजन्ते रम्न्ते तत्र देवताः इति उक्तिं कदापि न विस्मरणीयम्।

बाह्यसम्पर्काः[सम्पादयतु]