मणिकर्णिका (वाराणसी)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(विशालाक्षी/मणिकर्णिका (वाराणसी) इत्यस्मात् पुनर्निर्दिष्टम्)


विशालाक्षी अथवा मणिकर्णिका (वाराणसी) एतत् पीठं भारतस्य उत्तरप्रदेशस्य वाराणसीनगरे अस्ति । वाराणसी अथवा काशीक्षेत्रं हिन्दूनां कृते अत्यन्तं पवित्रम् अस्ति ।

सम्पर्कः[सम्पादयतु]

भारतस्य सर्वाभ्यः दिक्भ्यः बस्-रेल्-विमानानां च सौकर्यम् अस्ति ।मोघल् सरायी स्थानकम् अपि समीपे एव अस्ति । विमानयात्रायै वाराणसी एव समीपकेन्द्रम् ।

वैशिष्ट्यम्[सम्पादयतु]

अत्रत्यः देवालयः शिवेन एव प्रतिष्ठापितः इति विश्वासः अस्ति । ऋग्वेदे स्कन्दपुराणे रामायणे महाभारते च एतस्य स्थानस्य उल्लेखः दृश्यते। एतत् क्षेत्रं प्राप्तुं वाराणस्यां स्थितं मणिकर्णिकाघाट् प्राप्तव्यम् । अस्मिन् स्थाने देव्याः कर्णः तथा कर्णकुण्डलस्य भागाः पतिताः इति ऐतिह्यम् अस्ति ।अतः एतां मणिकर्णिका इत्यपि वदन्ति ।अत्रत्या देवी विशालाक्षी अथवा विश्वलक्ष्मीः इति नाम्ना पूज्यते । देव्या सह स्थितः शिवः कालभैरवः इति च पूज्यते । अस्मिन् क्षेत्रे विश्वेश्वरः,अन्नपूर्णा, डुण्ढिगणपतिः दण्डपाणिः इत्यादयः देवालयाः प्रसिद्धाः सन्ति। अन्नपूर्णामन्दिरे प्रतिदिनम् अन्नदानं भवति।काश्याः विशालाक्षी अत्यन्तं ख्याता अस्ति । दक्षिणभारतीयाः भक्ताः अत्र अधिकतया आगच्छन्ति।

"https://sa.wikipedia.org/w/index.php?title=मणिकर्णिका_(वाराणसी)&oldid=388925" इत्यस्माद् प्रतिप्राप्तम्