"मगधः" इत्यस्य संस्करणे भेदः
(लघु)No edit summary |
|||
(भेदः नास्ति)
|
०७:१३, १२ जुलै २०११ इत्यस्य संस्करणं
मगधं पूर्वभारते एकं राज्यं आसीत्। मगधदेशः षोडशमहाजनपदॆषु अन्यतम:। अद्यतन: बिहारप्रदॆश: मगधदॆश: आसीत्। तस्य द्वॆ राजधान्यौ। राजगृहं पाटलीपुत्रञ्चॆति । अस्मात् प्रदेशात् एव जैनधर्मः बौद्धधर्मः च उद्भूतौ स्त:। भारतस्य सुवर्णकाले गणितं विज्ञानं ज्योतिषं धर्म: इत्यॆतॆषां शास्त्राणां विकास: अभवत्।
भूगोलाधारः
मगधदेशॆ अद्यतनॆ पट्ना-गया-मण्डले पश्चिमबङ्गालप्रदेशा: च अन्तर्भवन्ति स्म। अस्य प्रदेशस्य सीमा उत्तरदिशि गङ्गा आसीत् , पूर्वस्याम् दिशि चम्पानदी दक्षिणे च विन्ध्याचलः आसीत्।
इतिहासः
एष प्रदॆश: एव बौद्धजैनमतानाम् जन्मस्थानम्। अत्र एव मौर्यगुप्तसाम्राज्ये आरभॆताम्। अस्मिन् देशे एव प्राचीनकालॆ अत्यन्तं प्रख्यात: नालन्दाविश्वविद्यालय: अपि आसीत्। अत्र पाळीभाषा अपि उपयुक्ता भवति स्म।
वंशावली
बृहद्रथवंशः
एतद्वंशः भारतेन बृहद्रथेन स्थपितः। तस्य पुत्रः एव जरासन्धः। जरासन्धः भीमेन हतः। एष: वंशः सहस्रवर्षानि शासनम् अकरॊत्।
प्रद्योतवंशः
प्रद्योत्तवंशः बृहद्रथवंशस्य उत्तरधिकारी आसीत्। तेषां संप्रदायानुसारं पुत्राः स्वपितॄन् हत्वा एव राजानः अभवन्। तेषां शासनकाले मगधदेशे अपराधकरणं नाम कश्चन सामान्य: विषय: आसीत्। अतः एव जनाः प्रतिभटनं कृतवन्त:। ततः हर्यङ्कः जनानाम् इच्छया राजा अभूत्।
हर्यङ्कवंशः
हर्यङ्कवंशः क्रि.पू ६८४ तमे वर्शे प्रतिष्ठितः। बिम्बिसारः एव मगधराज्यं पालयति स्म। तस्य पुत्रः अजातशत्रुः तं कारागारे स्थापयित्वा राजा अभूत्। तस्य पुत्रस्य राज्ञः उदयभद्रस्य राज्यकाले पाटलीपुत्रं लॊकस्य वरिष्ठं नगरम् अभवत्।अनिरुद्धः स्वपितरम् उदयभद्रम् हत्वा राजा अभवत्।अतः विद्रोह: प्रावर्तत।
शिशुनागवंशः
एतद्वंशः शिशुनागेन क्री.पू ४३० तमे वर्षे प्रतिष्ठापितः। अस्य वंशस्य राज्ञः महानन्दिनः अन्यजातसुतेन महापद्मेन नन्दवंशः प्रतिष्ठापितः।
नन्दवंशः
अस्य राज्यस्य संस्थापकः महापद्मनन्दः शिशुनागवंशस्य महानन्दिनः अन्यजातपुत्रोSभवत्। महापद्मनन्दः अष्टाशितिः वर्षाणि यावत् जीवितवान्। नन्दराजाः भारतस्य प्रथमाः साम्राज्यस्थापकाः इति प्रसिद्धाः। अस्य वंशस्य अन्तिमः सम्राट् धननन्दः।
मौर्य साम्राज्यम्
मौर्यसाम्राज्यं चन्द्रगुप्तमौर्येन प्रतिष्ठापितम्। सः विशालराज्यम् प्राशासत। सः कम्भोजपारसिकयवनराज्यान् अपि जितवान्। तस्य पुत्रः बिन्दुसारः आसीत्। तस्य पौत्रः महान् अशोक़। कलिङ्गयुद्धात् अनन्तरं अशोकः बौद्धद्धर्मं अहिंसां च गृहीतवान्। सः शिलाभिलेखनानि अपि स्थापितवान्।
शुङ्गवंशः
क्रि.पू १८५ तमे वर्षे सेनापतिः पुष्यमित्रशुङ्गः मौर्यमहाराजं बृहद्रथं हत्वा शुङ्गवंशम् प्रतिष्ठापितवान्। इदं राज्यम् क्रि.पू २६ तमे वर्षे नष्टम् अभवत्।
कन्ववंशः
क्रि पू ७५ तमे वर्षे वसुदेवेन कन्ववंशं प्रतिष्ठापितम्। इदं राज्यम् क्रि.पू २६ तमे वर्षे नष्टम् अभवत्।
गुप्तवंशः
गुप्तराज्यकाल: भारतस्य सुवर्ण्काल: इति कथ्यते । गुप्तवंशः श्रीगुप्तेन स्थापितः। अस्मिन् काले अनेके कवयः वैज्ञानिकाः गणितज्ञाः च अवसन् । गुप्तराजसभायाम् कालिदासार्यभट्टवराहमिहीरविष्णुशर्मादय: विद्वांस:आसन् इति श्रूयतॆ । मध्य-एशियहूणाः एतद् राज्यम् अनश्यन्।