<br>
<br>
[[चित्रम्:Sony_FD_Triniton_KV-BZ213N50.jpg|thumb|आधूनिकदूरदर्शनम्]]इदानीं प्रपञ्चॆ वार्तादिकं ज्ञातुं, मनॊरञ्जनार्थं, ज्ञानविकासार्थं च बहुविधानि साधनानि सन्ति |। तॆषु दूरदर्शनम् अपि अन्यतमम् |। एतत् दृश्यं श्रव्यं च इति कारणतः एतस्य प्रभावः अत्यधिकः |। अतः दूरदर्शनं जनप्रियम् अस्ति |।
दूरदर्शनस्य कार्यक्रमाः कॆचन शैक्षणिकाः, पुनः कॆचन मनॊरञ्जकाः, अन्यॆ कॆचन व्यक्तिदॆशादिपरिचायकाः, इतरॆ कॆचन इतिवृत्तात्मकाः |। दूरदर्शनं क्रीडादीनां प्रत्यक्षविवरणम् अपि प्रसारयति |। इदानीं दूरदर्शनकार्यक्रमाः उपग्रहसाहाय्यॆन प्रसार्यन्तॆ |। अतः दॆशस्य कॊणॆ कुत्रचित् प्रवृत्ता अपि घटना घण्टाभ्यन्तरॆ समग्रॆण देशॆन ज्ञायतॆ |। एवम् अतिशीध्रतयाअतिशीघ्रतया वार्तां प्रसारयति दूरदर्शनम् |। वार्तां ज्ञातुं मनॊरञ्जनं प्राप्तुं च यथा, तथैव ज्ञानवर्धनार्थम् अपि दूरदर्शनं सहायकं भवति |।
बालाः, तरुणाः, वृद्धाः इत्यादयः सर्वे इतः ज्ञानवर्धनं प्राप्तुम् अर्हन्ति |। एवं दूरदर्शनतः बहुविधाः लाभाः सन्ति |।
किन्तु इदानीं भारतॆ यॆ दूरदर्शनकार्यक्रमाः प्रदर्श्यन्तॆ तॆषु उत्तमाः विरलाः इति जनानाम् अभिप्रायः अस्ति |धारावाहिन्यः।धारावाहिन्यः कथाः नीरसाः भवन्ति इति, वार्ताप्रसारॆ बहुधा पक्षपातः प्रदर्श्यते इति, शैक्षणिककार्यक्रमाणां स्तरः न्यूनः इति च जनाः आक्षॆपं कुर्वन्ति |कुर्वन्ति।
जनानाम् अभिप्रायभॆदः यः कॊऽपि स्यात् नाम, दूरदर्शनं ज्ञानवर्धनॆ उपकारकम् इत्यत्र तु नास्ति सन्दॆहः |। भारतॆ या दूरदर्शनव्यवस्था अस्ति तस्यां यॊग्यं परिवर्तनं यदि स्यात् तर्हि वरं भवॆत् |।
== बाह्यगवाक्षा: ==
== बाह्य गवाक्षा: ==
* [http://www.memorabletv.com/ Memorable TV The Television Encyclopedia]
* [http://www.tvhistory.tv/ इतिहास:]
|