"शान्ता" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
शान्ता दशरथस्य पुत्री। रामादीनाम् अग्र... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०९:१६, २२ सेप्टेम्बर् २०११ इत्यस्य संस्करणं

शान्ता दशरथस्य पुत्री। रामादीनाम् अग्रजा। दशरथस्य मित्रम् अङ्गाधिपः रोमपादः। रोमपादस्य अपत्यं न आसीत्। अतः मित्रस्य दुःखनिवारणाय दशरथः स्वपुत्रीं शान्तां रोमपादाय दत्तकरूपेण दत्तवान् आसीत्। अग्रे तस्याः विवाहः ऋष्यशृङ्गेन सह अभवत्। ऋष्यशृङ्गः कश्चन महान् तपस्वी । अग्रे यदा दशरथः पुत्रकामेष्ठियागं कृतवान् तदा ऋष्यशृङ्गस्य एव पौरोहित्यम् आसीत्। इदानीन्तनकर्णाटकस्य चिक्कमगळूरुमण्डलस्य शृङ्गेरीसमीपे तस्य आश्रमः आसीत् ।

"https://sa.wikipedia.org/w/index.php?title=शान्ता&oldid=133169" इत्यस्माद् प्रतिप्राप्तम्