"तपाम्यहमहं वर्षं..." इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) clean up, replaced: मूलश्लिकाः → मूलश्लोकाः using AWB
(लघु) →‎सम्बद्धसम्पर्कतन्तुः: clean up, replaced: http://wikisource.org/wiki/भगवद्गीता → http://sa.wikisource.org/wiki/भगवद्गीता using AWB
पङ्क्तिः २४: पङ्क्तिः २४:


==सम्बद्धसम्पर्कतन्तुः==
==सम्बद्धसम्पर्कतन्तुः==
*[http://wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लोकाः)
*[http://sa.wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लोकाः)
*[[भगवद्गीता]]
*[[भगवद्गीता]]



०८:५८, १ डिसेम्बर् २०११ इत्यस्य संस्करणं

गीतोपदेशः
तपाम्यहमहं वर्षं निगृाम्युत्सृजामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ १९ ॥

पदच्छेदः

तपामि अहम् अहं वर्षं निगृह्णामि अत्सृजामि च अमृतं च एव मृत्युः च सत् असत् च अहम् अर्जुन ॥ १९ ॥

अन्वयः

अर्जुन ! अहं तपामि, अहं वर्षं निगृामि, अहम् उत्सृजामि च । अहम् एव अमृतं च मृत्युः च सत् असत् च ।

पदार्थः

अर्जुन = हे अर्जुन !
अहं तपामि = अहं तापयामि
वर्षम् = वृष्टिम्
निगृामि = रुणध्मि
उत्सृजामि च= त्यजामि अपि
अमृतं च एव = अमृतम् अपि
मृत्युः च = मरणं च
सत् = स्थूलं दृश्यम्
असत् च = सूक्ष्मं च ।

तात्पर्यम्

अहमेव ग्रीष्मकाले आदित्यरूपः सन् जगदिदं तापयामि । वृष्टिकाले चतुरः मासान् जलं मुञ्चामि, अन्यान् अष्ट मासान् निगृामि । अहमेव सर्वेषां जीवनं मृत्युश्च । अहमेव स्थूलं दृश्यं सूक्ष्मं च ।

सम्बद्धसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=तपाम्यहमहं_वर्षं...&oldid=148066" इत्यस्माद् प्रतिप्राप्तम्