"टेबल्-टेनिस्-क्रीडा" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) clean up, replaced: ॆ → े (2), ऎ → ऐ (2) using AWB
पङ्क्तिः ५: पङ्क्तिः ५:
:::'''सेयं क्रीडा मनोज्ञा रसयति हृदयं टेनिसाख्याऽद्वितीया ॥'''
:::'''सेयं क्रीडा मनोज्ञा रसयति हृदयं टेनिसाख्याऽद्वितीया ॥'''

==ऎतिहासिकी पृष्ठभूमिः==
==ऐतिहासिकी पृष्ठभूमिः==
इयं क्रीडा कदा कुत्र प्रारब्धा ? विषयेऽस्मिन् नास्ति मतैक्यं सर्वेषाम् । श्रूयते यत् पुरा प्रारम्भे क्रीडामिमां ‘पिंग्-पांग्’ नाम्ना सम्बोधयन्ति स्म । केषाञ्चिदभिमतमस्ति यदियं क्रीडा सर्वप्रथममिङ्लैण्डवासिभिः क्रीडिता । अपरे च मतमिदं खण्डयन्ति, तथापीदं तु निश्चिचतमेवास्ति यत् प्रायः सन् १८६२ तमवर्षस्य निकटे क्रीडेयं ‘पिंग-पांग’ नम्ना फान्स-अमेरिका -इंग्लैण्ड -प्रभृतिषु देशेषु क्रीडयते स्म । द्वितीय-महायुद्धानन्त्रमस्या अभिधानं ‘टेबल् टेनिस’ इति प्रसिद्धि मागमत् ।

अधुनातः शतवर्षेभ्यः पूर्वं जना इमां क्रीडां क्रीडां न मत्वा केवलं बालचापलमेव मन्वते स्म । इंग्लैण्डेऽपि, यदस्याः क्रीडाया जन्मस्थानं मन्यते, अस्यै १६२० ई० वर्षे मान्यताऽदियत किञ्च तत्रापि कारणमिदमभूद यदस्यै यदि मान्यता न दास्यते तदेयं चिरकालाय समाप्स्यतीति । अस्याः क्रीडायाः प्रथमा विश्व्प्रतियोगिता १६२६ वर्षे समायोज्यत । तदैव ‘इंगलिश टेबल टैनिस एसोसिएशन्’ संस्थायाः संस्थापनमभूद् नियमाश्च निर्धारिताः । साम्प्रतमियमतीव लोकप्रियतां प्राप्यान्ताराष्ट्रियां ख्यातिमर्जयन्ती सर्वत्र क्रीडयते ।

भारतेऽस्याः प्रचार इंग्लैण्डवासिनामागमनेनैवाभवत् । ततः प्रभृति भारतीया निरन्तरं प्रगतिमन्तो भूत्वा टेबल-टैनिस-क्रीडायां प्रावीण्यं लभन्ते । प्रथमविश्वयुद्धात् परमिंग्लैण्डस्थितानां भारतीयानां भारतेऽस्याः प्रचार-प्रसाराभ्यां योगदानं महत्त्वपूर्णमासीत् । मूलरुपेणा टेबल-टैनिस क्रीडायां पाश्चात्या एवाधिकुर्वन्ति, परम इंग्लैग्ड-हंगरी-चैकोस्लोवाकिया -रोमानिया-यूगोस्लाविया-प्रभृतीनां विभिन्नदेशानां वासिनोऽपि प्रसिद्धिमन्तो विद्यन्ते । एभिर्देशैर्विश्व विजेतृणां-विक्टरबार्ना-आरबर्गमैन-जानीलीच-बहिमलबाना इवानएण्ड्रोहेडस् -ऎंग्लोलीसा -रोजियानोव’ -प्रभृतीनां जन्मभिरात्मनो गौरवं वर्धितम् ।
भारतेऽस्याः प्रचार इंग्लैण्डवासिनामागमनेनैवाभवत् । ततः प्रभृति भारतीया निरन्तरं प्रगतिमन्तो भूत्वा टेबल-टैनिस-क्रीडायां प्रावीण्यं लभन्ते । प्रथमविश्वयुद्धात् परमिंग्लैण्डस्थितानां भारतीयानां भारतेऽस्याः प्रचार-प्रसाराभ्यां योगदानं महत्त्वपूर्णमासीत् । मूलरुपेणा टेबल-टैनिस क्रीडायां पाश्चात्या एवाधिकुर्वन्ति, परम इंग्लैग्ड-हंगरी-चैकोस्लोवाकिया -रोमानिया-यूगोस्लाविया-प्रभृतीनां विभिन्नदेशानां वासिनोऽपि प्रसिद्धिमन्तो विद्यन्ते । एभिर्देशैर्विश्व विजेतृणां-विक्टरबार्ना-आरबर्गमैन-जानीलीच-बहिमलबाना इवानएण्ड्रोहेडस् -ऐंग्लोलीसा -रोजियानोव’ -प्रभृतीनां जन्मभिरात्मनो गौरवं वर्धितम् ।

१६२६ ई० वर्षे टेबल-टैनिस-क्रीडायाः प्रगतिश्चरम-सीम्नि प्रगता यदा विक्टरबार्ना-क्रीडकः स्वीयं कलात्मकं क्रीडनं प्रदर्श्य विश्वं विस्मितवान । स रक्षात्मकमाक्रमणात्मकं च क्रीडनं सम्मिश्रय फोरहेण्ड -बेक-हेण्ड-क्रीडयोश्च सारल्येन मिश्रणं विधायास्यै च क्रीडायै नवीनं रुपमदात् । तस्यैतेन कलात्मकेन क्रीडनेन नवनवेषु क्रीडकेषु नवीनाः प्रेरणाः प्रवर्तिताः । ततः परमद्यावधि क्रीडेयं निरन्तरं प्रगतिमती दृश्यते ।

पङ्क्तिः १५: पङ्क्तिः १५:

:(क)क्रीडा`णरुपं काष्ठपीठम्
:(क)क्रीडा`णरुपं काष्ठपीठम्
‘टॆबल-टेनिस’ -क्रीडा कस्यापि भू-क्षेत्रस्य क्रीडा नास्ति, अपि त्वियमेकस्मिन् विशाले काष्ठपीठे (मेज) क्रीडयते । अत एवास्या अभिधानं ‘टेबल्-टैनिस’ इत्यस्ति । केवलं ‘टेनिस’ इति कथनेन स्पष्टं न भवति स्म, यत इयं भूमावपि क्रीडयते स्म तथा काष्ठ्पीठेऽपि ।
‘टेबल-टेनिस’ -क्रीडा कस्यापि भू-क्षेत्रस्य क्रीडा नास्ति, अपि त्वियमेकस्मिन् विशाले काष्ठपीठे (मेज) क्रीडयते । अत एवास्या अभिधानं ‘टेबल्-टैनिस’ इत्यस्ति । केवलं ‘टेनिस’ इति कथनेन स्पष्टं न भवति स्म, यत इयं भूमावपि क्रीडयते स्म तथा काष्ठ्पीठेऽपि ।

पीठाय काष्ठफलकस्य स्थूला न्यूनातिन्यूनं ३/४ इञ्चमिता तथाऽधिकाधिकम् १ इञ्चमिता भवति । अन्तराष्ट्रियासु प्रतियोगितासु प्रायः २/४ मिता स्थूलता स्वीक्रियते । फलकमतिस्निग्धं समतलञ्चापेक्षितमस्ति । साम्प्रतं काष्ठस्य स्थानेऽन्येषां पदार्थानामप्युपयोगो भवति । पीठस्य परिक्षणाय कन्दुक १२ इञ्चोर्ध्वतः पात्यते पतनात् परं तस्य पुनरुत्पतनं ८-९ इञ्चमितमावश्यकं मन्यते । पीठस्यायामः ९ फुटमितः ५ फुटमितश्च विस्तारः । पादानामुच्चताः १ १/२ फुटमिता भवन्ति । पीठस्योपरितनो भागः ‘फ्लेइंग-सरफेस’ क्रीडनीय मुखभाग इति कथ्यते । अस्य भागस्य दीप्तिमत्ता नापेक्षिता, अपि तु गहनेन वर्णन रञ्जनं विधाय चतुर्भिरपि तटभागैः सह ३/४ इञ्चस्थूला श्वेता पंकितराकृष्यते । मञ्चस्य ५ फुटमिता विस्तृत भागस्य रेखा ‘एण्डलाइन्’ अन्त्यरेखा तथा ९ फुटमिते प्रलम्बाभागस्य रेखे ‘साइड-लाइन’ पार्श्वरेखे उच्येते । अस्याः क्रीडार्थं भूतलभागः २५ फुट-आयतः १५ फुट-विस्तृतश्च भवति । काष्ठपीठाद् भवनभित्तेरन्तरं ८ फुटमितं क्रियते । क्रीडाभवने प्रकाशव्यवस्था समीचीना विधीयते । महिलाभ्यओ भूतल-भागः ३६ फुट आयतस्तथा १८ फुट विस्तृत उत्तमो गण्यते ।

पङ्क्तिः २६: पङ्क्तिः २६:

:(घ) फलकम् (रैकेट अथवा बेट)
:(घ) फलकम् (रैकेट अथवा बेट)
फलकमिदं केनापि वस्तुना निर्मितं गृह्यते परं तद् दिप्तिमद् श्वेतवर्णं वा न भवेत् । आकारस्य विषये नास्ति कश्चन विशिष्टो बन्धः । अस्य निर्मितौ विशिष्टप्रकारस्य काष्ठफलकस्य प्रयोगो विधीयते । सर्वप्रथमं येन फलकेन क्रीडयते स्म स ‘कार्क सेण्डपेपर’ स्याथवा काष्ठस्य भवति स्म । साम्प्रतं ‘प्लाईवुड्’ निर्मितमुपयुज्यते तदुपरि कणापूर्णं रबर्-पदार्थस्यावरणमपि योज्यते । अस्य भारः ४ १/२ औसतो ६ १/२ औसपर्यन्तो भवति । अस्य नमनीयताऽपि साधीयसी मन्यते । धारणप्रक्रिया टॆनिस्-फलकवदेव विद्यते
फलकमिदं केनापि वस्तुना निर्मितं गृह्यते परं तद् दिप्तिमद् श्वेतवर्णं वा न भवेत् । आकारस्य विषये नास्ति कश्चन विशिष्टो बन्धः । अस्य निर्मितौ विशिष्टप्रकारस्य काष्ठफलकस्य प्रयोगो विधीयते । सर्वप्रथमं येन फलकेन क्रीडयते स्म स ‘कार्क सेण्डपेपर’ स्याथवा काष्ठस्य भवति स्म । साम्प्रतं ‘प्लाईवुड्’ निर्मितमुपयुज्यते तदुपरि कणापूर्णं रबर्-पदार्थस्यावरणमपि योज्यते । अस्य भारः ४ १/२ औसतो ६ १/२ औसपर्यन्तो भवति । अस्य नमनीयताऽपि साधीयसी मन्यते । धारणप्रक्रिया टेनिस्-फलकवदेव विद्यते

==क्रीडकाः क्रीडा विधयश्च==
==क्रीडकाः क्रीडा विधयश्च==
पङ्क्तिः ६०: पङ्क्तिः ६०:
::'''नास्ते कालस्य बन्धः किमपि न कठिनं यत्र खेला-विधाने'''
::'''नास्ते कालस्य बन्धः किमपि न कठिनं यत्र खेला-विधाने'''
::'''नो वा स्थानावबन्धो भवति च सरलैः साधनैः सिद्धिलाभः ॥२॥'''
::'''नो वा स्थानावबन्धो भवति च सरलैः साधनैः सिद्धिलाभः ॥२॥'''

[[वर्गः: क्रीडाः]]
[[वर्गः: कन्दुकक्रीडाः]]

==आधारः==
==आधारः==
अभिनवक्रीडातरंगिणी
अभिनवक्रीडातरंगिणी

[[वर्गः:क्रीडाः]]
[[वर्गः:कन्दुकक्रीडाः]]

१०:२५, १ डिसेम्बर् २०११ इत्यस्य संस्करणं

काष्ठपीठफलककन्दुकक्रीडा (Table Tennis)

अत्यन्त-स्वल्पभारं द्रवरचितमहो ! कन्दुकं काष्ठपीठे
जालं बदध्वाऽथ मध्ये तदुभय तटयोः क्रीडकौ वर्तमानौ ।
आयान्तं वा प्रयान्तं फलक पटलतस्ताडयन्तौ रमेते
सेयं क्रीडा मनोज्ञा रसयति हृदयं टेनिसाख्याऽद्वितीया ॥

ऐतिहासिकी पृष्ठभूमिः

इयं क्रीडा कदा कुत्र प्रारब्धा ? विषयेऽस्मिन् नास्ति मतैक्यं सर्वेषाम् । श्रूयते यत् पुरा प्रारम्भे क्रीडामिमां ‘पिंग्-पांग्’ नाम्ना सम्बोधयन्ति स्म । केषाञ्चिदभिमतमस्ति यदियं क्रीडा सर्वप्रथममिङ्लैण्डवासिभिः क्रीडिता । अपरे च मतमिदं खण्डयन्ति, तथापीदं तु निश्चिचतमेवास्ति यत् प्रायः सन् १८६२ तमवर्षस्य निकटे क्रीडेयं ‘पिंग-पांग’ नम्ना फान्स-अमेरिका -इंग्लैण्ड -प्रभृतिषु देशेषु क्रीडयते स्म । द्वितीय-महायुद्धानन्त्रमस्या अभिधानं ‘टेबल् टेनिस’ इति प्रसिद्धि मागमत् । अधुनातः शतवर्षेभ्यः पूर्वं जना इमां क्रीडां क्रीडां न मत्वा केवलं बालचापलमेव मन्वते स्म । इंग्लैण्डेऽपि, यदस्याः क्रीडाया जन्मस्थानं मन्यते, अस्यै १६२० ई० वर्षे मान्यताऽदियत किञ्च तत्रापि कारणमिदमभूद यदस्यै यदि मान्यता न दास्यते तदेयं चिरकालाय समाप्स्यतीति । अस्याः क्रीडायाः प्रथमा विश्व्प्रतियोगिता १६२६ वर्षे समायोज्यत । तदैव ‘इंगलिश टेबल टैनिस एसोसिएशन्’ संस्थायाः संस्थापनमभूद् नियमाश्च निर्धारिताः । साम्प्रतमियमतीव लोकप्रियतां प्राप्यान्ताराष्ट्रियां ख्यातिमर्जयन्ती सर्वत्र क्रीडयते । भारतेऽस्याः प्रचार इंग्लैण्डवासिनामागमनेनैवाभवत् । ततः प्रभृति भारतीया निरन्तरं प्रगतिमन्तो भूत्वा टेबल-टैनिस-क्रीडायां प्रावीण्यं लभन्ते । प्रथमविश्वयुद्धात् परमिंग्लैण्डस्थितानां भारतीयानां भारतेऽस्याः प्रचार-प्रसाराभ्यां योगदानं महत्त्वपूर्णमासीत् । मूलरुपेणा टेबल-टैनिस क्रीडायां पाश्चात्या एवाधिकुर्वन्ति, परम इंग्लैग्ड-हंगरी-चैकोस्लोवाकिया -रोमानिया-यूगोस्लाविया-प्रभृतीनां विभिन्नदेशानां वासिनोऽपि प्रसिद्धिमन्तो विद्यन्ते । एभिर्देशैर्विश्व विजेतृणां-विक्टरबार्ना-आरबर्गमैन-जानीलीच-बहिमलबाना इवानएण्ड्रोहेडस् -ऐंग्लोलीसा -रोजियानोव’ -प्रभृतीनां जन्मभिरात्मनो गौरवं वर्धितम् ।

१६२६ ई० वर्षे टेबल-टैनिस-क्रीडायाः प्रगतिश्चरम-सीम्नि प्रगता यदा विक्टरबार्ना-क्रीडकः स्वीयं कलात्मकं क्रीडनं प्रदर्श्य विश्वं विस्मितवान । स रक्षात्मकमाक्रमणात्मकं च क्रीडनं सम्मिश्रय फोरहेण्ड -बेक-हेण्ड-क्रीडयोश्च सारल्येन मिश्रणं विधायास्यै च क्रीडायै नवीनं रुपमदात् । तस्यैतेन कलात्मकेन क्रीडनेन नवनवेषु क्रीडकेषु नवीनाः प्रेरणाः प्रवर्तिताः । ततः परमद्यावधि क्रीडेयं निरन्तरं प्रगतिमती दृश्यते ।

क्रीडाङ्गणं क्रीडोपकरणानि च

(क)क्रीडा`णरुपं काष्ठपीठम्

‘टेबल-टेनिस’ -क्रीडा कस्यापि भू-क्षेत्रस्य क्रीडा नास्ति, अपि त्वियमेकस्मिन् विशाले काष्ठपीठे (मेज) क्रीडयते । अत एवास्या अभिधानं ‘टेबल्-टैनिस’ इत्यस्ति । केवलं ‘टेनिस’ इति कथनेन स्पष्टं न भवति स्म, यत इयं भूमावपि क्रीडयते स्म तथा काष्ठ्पीठेऽपि ।

पीठाय काष्ठफलकस्य स्थूला न्यूनातिन्यूनं ३/४ इञ्चमिता तथाऽधिकाधिकम् १ इञ्चमिता भवति । अन्तराष्ट्रियासु प्रतियोगितासु प्रायः २/४ मिता स्थूलता स्वीक्रियते । फलकमतिस्निग्धं समतलञ्चापेक्षितमस्ति । साम्प्रतं काष्ठस्य स्थानेऽन्येषां पदार्थानामप्युपयोगो भवति । पीठस्य परिक्षणाय कन्दुक १२ इञ्चोर्ध्वतः पात्यते पतनात् परं तस्य पुनरुत्पतनं ८-९ इञ्चमितमावश्यकं मन्यते । पीठस्यायामः ९ फुटमितः ५ फुटमितश्च विस्तारः । पादानामुच्चताः १ १/२ फुटमिता भवन्ति । पीठस्योपरितनो भागः ‘फ्लेइंग-सरफेस’ क्रीडनीय मुखभाग इति कथ्यते । अस्य भागस्य दीप्तिमत्ता नापेक्षिता, अपि तु गहनेन वर्णन रञ्जनं विधाय चतुर्भिरपि तटभागैः सह ३/४ इञ्चस्थूला श्वेता पंकितराकृष्यते । मञ्चस्य ५ फुटमिता विस्तृत भागस्य रेखा ‘एण्डलाइन्’ अन्त्यरेखा तथा ९ फुटमिते प्रलम्बाभागस्य रेखे ‘साइड-लाइन’ पार्श्वरेखे उच्येते । अस्याः क्रीडार्थं भूतलभागः २५ फुट-आयतः १५ फुट-विस्तृतश्च भवति । काष्ठपीठाद् भवनभित्तेरन्तरं ८ फुटमितं क्रियते । क्रीडाभवने प्रकाशव्यवस्था समीचीना विधीयते । महिलाभ्यओ भूतल-भागः ३६ फुट आयतस्तथा १८ फुट विस्तृत उत्तमो गण्यते ।

(ख) जालिका (नैट) तत्स्तम्भौ (नैट-पोस्ट) च -

पीठस्यायामीयभागयो ४ १/२ फुटमितेऽन्तराले, एका जालिका निबद्धयते, या अन्त्यपङ्कतेः समानान्तरेण मञ्चं द्वयोर्भागयोर्विभनक्ति । जालिकाया आयामः ६ फुटमितस्तथा मञ्चपटलात् (प्लेइंग सरफेसतः) ६ इञ्चमित उन्नतोऽधोभागश्च तस्यास्तत्पटलस्पृग भवति । जालिकाया उभयोर्भागयोर्निबद्धयोः स्तम्भयोस्सकृष्टा च क्रियते । पार्श्चरेखाभ्यां जालिका ६ इञ्चमिता बहिर्निः सृता भवति ।

(ग) कन्दुकः-

कन्दुको वृत्ताकारः श्वेत -सोमूलाइट -पदार्थेन निर्मितश्च भवति । अस्य भारः ३७ तः ३९ ग्रेनमितोऽपेक्ष्यते । वृत्तस्याकारः ४ १/२ तः ४ ३/४ इञ्चमितःअ साधु मन्यते ।

(घ) फलकम् (रैकेट अथवा बेट)

फलकमिदं केनापि वस्तुना निर्मितं गृह्यते परं तद् दिप्तिमद् श्वेतवर्णं वा न भवेत् । आकारस्य विषये नास्ति कश्चन विशिष्टो बन्धः । अस्य निर्मितौ विशिष्टप्रकारस्य काष्ठफलकस्य प्रयोगो विधीयते । सर्वप्रथमं येन फलकेन क्रीडयते स्म स ‘कार्क सेण्डपेपर’ स्याथवा काष्ठस्य भवति स्म । साम्प्रतं ‘प्लाईवुड्’ निर्मितमुपयुज्यते तदुपरि कणापूर्णं रबर्-पदार्थस्यावरणमपि योज्यते । अस्य भारः ४ १/२ औसतो ६ १/२ औसपर्यन्तो भवति । अस्य नमनीयताऽपि साधीयसी मन्यते । धारणप्रक्रिया टेनिस्-फलकवदेव विद्यते

क्रीडकाः क्रीडा विधयश्च

क्रीडकाः अस्यां क्रीडायां द्वौ चत्वारो वा क्रीडका भागं ग्रुहीतुं शक्नुवन्ति । उभयतो यदैकैकः क्रीडको भवति तदा ’सिंगल्स्-गेम’ एकलक्रीडा तथा यदा द्वौ द्वौ क्रीडकौ भवतस्तदा ‘डबल्स-गेम’ युग्मकक्रीडेति कथयन्ति ।

क्रीडाविधयः

(क) क्रीडारम्भस्य तथा क्षेत्रचयनस्य नियमाः प्रायः पूर्ववर्णित -लान् -टेनिस क्रीडवदेव सन्ति ।
(ख) क्रीडारम्भण- क्षेत्रपरिवर्तन-नियमाः- पञ्चअङ्कनप्राप्यनन्तरं क्रीडरम्भणस्य परिवर्तनं भवति तच्च प्रतिपञ्चाङ्कनोपलब्ध्यनन्तरं क्रमेण विधीयते । गेम-पूर्त्यनन्तरं पुनर्येन क्रीडकेन प्रारम्भो विहितस्तस्य प्रतिपक्षी प्रारम्भणं करोति । यदि प्रतिस्पर्धा एकस्य चक्रस्याथवा तदधिकचक्राणां भवति तदा २० अङ्कनप्राप्त्यनन्तरं क्रीडाक्शेत्रं परिवर्त्यते ।
(ग) उत्तमप्रतिदानम् (गुड्-सर्विस)

प्रारम्भकः कन्दुकं करतले संस्थाप्योच्छालयति ततः परं च फलकेन ताडयति । प्रतिपक्षी क्रीडकोऽपि तथैव प्रतिददाति तदा तद् ‘गुडरिटर्न’-उत्तमप्रतिदानं गद्यते । लैट-परिणामराहित्यं, अङ्कन-पराजयः, कन्दुकस्य क्रीडावस्थितिः क्रीडाक्रमनिर्वाचनं, नियमभङ्गश्च पूर्ववदेव प्रायः सन्ति । गणनायां यस्याङ्क नान्यधिकानि भवन्ति स विजयते । अस्याः क्रीडायाः स्पर्धायां १० अङ्कनानन्तरं क्रीडकाः स्थानपरिवर्तनं कुर्वन्ति । एकस्मिन् चक्रे १२ अङ्कनानि भवन्ति । येन क्रीदकेन पूर्वं ११ अङ्कनानि प्राप्तानि स विजयी भवति । यदि द्वावपि क्रीडकौ २०-२० अङ्कने प्राप्नुतस्तर्हि विजयिना क्रीड्केन द्व अङ्कने भूयोऽपि प्रापणीये भवतः । इयं गणना ३०-३२ पर्यन्तमपि कदाचिद् गच्छति । एकलक्रीडने ३ अथवा ५ क्रीडाचक्राणां ‘गेम्’ भवति । सम्प्रति प्रायः १ गेम -क्रीडवत्येव प्रतियोगिता भवति ।

युग्मकक्रीडाया द्वौ प्रकारौ स्तः -१पुरुषयुग्मकः (मैन्स डबल्स्) तथा २-मिश्रितयुग्मकः (मिक्स्ड डबल्स) । अनयोः क्रमेण प्रथमे क्रीडने द्वौ द्वौ पुरुषौ भवतस्तथा द्वितीये एकः पुरुष एका महिला, अकः प्रुरुष एका महिला च । अस्यां क्रीडायां युग्मक एकं परित्यज्य तृतीयेऽवसरे कन्दुकताडनं करोति । एतेन मिश्रितयुग्मके पुरुषे महिला च दीर्धकालं यावत् क्रीडितुं शक्नुतः । पुरुषश्चाधिकस्फूर्तिमत्तयाऽधिकान्यङ्कनानि जेतुं शक्नोति ।

क्रीडामञ्चो द्वयोर्भागयोर्मध्यरेखया विभज्यते । वामक्षेत्रदक्षक्षेत्ररुपेण ख्याते इमे क्षेत्रे भवतः । रेखायां कन्दुको यदि भूमिस्पर्शं विधत्ते तहर्युत्तमः क्रीडारम्भोमन्येते । पञ्चाङ्कनानामारम्भणाक्रियानन्तरं क्रीडकाः स्वं स्थानं परिवर्तयितुं शक्नुवन्ति किं वा दक्ष-वामभागयोः परिवर्तने क्षमा भवन्ति ।

केचन विशिष्टा निर्देशाः शब्दाश्च

टेबल- टैनिस -क्रीडायाः सर्वत्र प्रचारेण् यस्य कस्यापि मनसि चिक्रीडिषोदेति । तदर्थं प्रारम्भिक-शिक्षर्थिना पूर्वं निम्नमिखितानां प्राक्रियाणामभ्यासः समीचीनतया कर्तव्यः -

१- कन्दुक -परिभ्रमणाभ्यासः -एतदर्थं क्रीडासु ‘स्पिन’ शब्दः प्रयुज्यते । कन्दुकस्य परिभ्रमणाय तदुपरि तादृशं ताडनं विधीयते येन कन्दुकः परिभ्रमन पूर्वं दक्षत आगच्छन प्रतीयेत परं स वामभागे पतेत् अयं विधिः क्रमशः पार्श्व वेधक विपरीतभ्रमण् -(साइडस्पिन-क्रास -स्पिन-टाप- स्पिन -बौटम- स्पिन) रुपैरभ्यस्तव्यः । एतेषां क्रीडन- पद्धतौ विशिष्य महत्त्वं विद्यते । क्रीडारम्भणा (सर्विस)-प्रक्रियायामेते ताडन- विधयः प्रत्युज्यन्ते । यदा कदा क्रीडको ‘ मिवस्ड्-स्पिन’ मिश्रितपरिभ्रामण’ -विधिमपि प्रयोजयति यस्मिन् ताडन-फलकस्य -प्रयोग-विशेषा यथा यथं विवेकेन प्रयोजनीया भवन्ति । एवमेव ताडन-द्वारा परावर्तन- क्रिया अपि ज्ञातव्याः सन्ति ।

अस्यां क्रीडन्यां शाट-ताडनम्, स्मेश-आक्रमणाताडनम्, ड्राइव -मन्दगत्या परावर्तनम् , फौरहैण्डा-अटैक-द्क्षवाम- हस्ताभ्यामाक्रमणं, डिफेन्सिव्-प्ले -प्रतिरक्षाक्रीडायां च प्लेट-किलशाट -चौपशाट-ब्लौकिंगशाट -फौरहेण्ड-चौप -बैकहेण्डचौप प्रभृतिशब्दा विशिष्टा ज्ञातव्यास्तथा तदनुसारं क्रीडासु प्रयोक्तव्याः ।

काष्ठ -मञ्चकमतीव विस्तृतं, क्षेत्ररुपमवलम्ब्य खेलने ।
कन्दुकं फलक -ताडानैर्भृशं, क्रीडयन्ति मुदिताः परस्परम् ॥१॥
प्रादानं वा प्रदानं विदधति विविधैस्ताडनैः ‘कन्दुकस्य
क्रीडायां ’ स्पर्धमानं पुरुषयुगलकं तुर्यकं मिश्रितं वा ।
नास्ते कालस्य बन्धः किमपि न कठिनं यत्र खेला-विधाने
नो वा स्थानावबन्धो भवति च सरलैः साधनैः सिद्धिलाभः ॥२॥

आधारः

अभिनवक्रीडातरंगिणी

"https://sa.wikipedia.org/w/index.php?title=टेबल्-टेनिस्-क्रीडा&oldid=148502" इत्यस्माद् प्रतिप्राप्तम्