"संस्काराः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पङ्क्तिः १७: पङ्क्तिः १७:
अयं संस्कारः शिशोः जन्मानन्तरदश वा एकादशदिनानन्तरं भवति । गोपनीयं नाम तु जातकर्मसंस्कारे एव भवति । उच्चारणार्हं नाम् एतस्मिन् दिने भवति । शुभमुहूर्ते च नक्षत्रे मघुरध्वनियुतं नामचतुराक्षरैः वा द्वि अक्षरात्मकं भवति ।
अयं संस्कारः शिशोः जन्मानन्तरदश वा एकादशदिनानन्तरं भवति । गोपनीयं नाम तु जातकर्मसंस्कारे एव भवति । उच्चारणार्हं नाम् एतस्मिन् दिने भवति । शुभमुहूर्ते च नक्षत्रे मघुरध्वनियुतं नामचतुराक्षरैः वा द्वि अक्षरात्मकं भवति ।


[[वर्गः:संस्काराः]]
[[वर्गः:हिन्दुसंस्काराः]]

०५:००, ३ डिसेम्बर् २०११ इत्यस्य संस्करणं

षोडशसंस्काराः

संस्कारशब्दः सम् उपसर्गपूर्वकं 'कृञ्'धातुना घञ् प्रत्ययपूर्वकम् स्म्स्कृतभाषायां व्याकरणशास्त्रदृष्ट्या व्युत्पत्तिर्भवति । सम + कृञ् + घञ्, इति संस्कारः । संस्कारशब्दस्य प्रयोगः बहुधा भवति । मीमांसादर्शने अस्य संस्कारशब्दस्य अर्थः यज्ञाङ्गभूत पुरोडाशादि शुद्ध्यर्थं प्रोक्षणविक्षणादिना सम्पन्ना भवति । अद्वैतवेदान्तिमतानुसारेण शारीरिकक्रियाणां मिथ्याक्षेपः संस्कारः इति । नैय्यायिकभावना अभिव्यक्तिहेतुना आत्मव्यञ्जकशक्तिः संस्कारः कथ्यते । मानवजीवने संस्काराः महत्त्वपूर्णाः सन्ति । संस्कारैः मनुष्यत्वं मानवता एवं व्यक्तित्वविकासश्च भवति । भिन्नेषु ग्रन्थेषु संस्काराणां संख्या भिन्ना दर्शिता वर्तते । जन्मना मानवः अपूर्णः भवति । संस्कारैश्च तत्र पूर्णता आगच्छति । भारतीयग्रन्थपरम्परया प्रायः षोडशसंस्काराः करणीयाः इति अस्माकं भगवान् बादरायणः अपि सूचयति । ते च इत्थं सन्ति ।

गर्भाधानसंस्कारः

मानवस्य सम्पूर्णं जीवनं संस्कारस्य क्षेत्रम् अस्ति । प्रजननम् अपि तत्रैव आगच्छति । धर्मशास्त्रानुसारम्, अनेन सह अशुचितायाः भावः नास्ति । अतः विशेषतह् गृह्यसूत्रेषु एवं स्मृतिग्रन्थेषु गर्भाधानेन एव संस्काराणाम् आरम्भः दर्शितः । स्त्रीपुरुषयोः सम्मेलनेन पुरुषरजसा च गर्भाधानं भवति । एषः संस्कारः शुभमुहूर्ते शुभनक्षत्रे भवति । धर्मशास्त्रानुसारम् एषः संस्कारः रात्रौ एव करणीयः । भगवतः विष्णोः प्रजापतेः सरस्वत्याः च स्तवनम् अत्रावसरे करणीयम् । भोजनस्य अपि विधिः दर्शिता अस्ति । मातुः पितुः उत्तमविचारैः मन्थनेन च तेजस्वी पुत्रस्य उत्पत्तिः भवति ।

पुंसवनसंस्कारः

गर्भधारणानन्तरं गर्भस्थशिशोः पुंसत्वं सम्पादनहेतोः पुंसवननाम्नः संस्कारः भवति । अत्र विभिन्नदेवानां प्रार्थना भवति । यया प्रार्थनया गर्भस्थशिशुः पुष्टो भूत्वा पुत्ररूपेणप्राप्तो भवेत । अस्मिन् अवसरे आयुर्वैदिकौषधीनां सेवनं, भगवतः विष्णोः पूजनं च कर्तव्यम् ।

सीमन्तोन्नयनसंस्कारः

गर्भधारणानन्तरं चतुर्थे मासे सीमन्तोन्नयनसंस्कारः भवति । अत्रावसरे पतिपत्न्योः केशानां प्रसाधनं वा संवर्धनं च करणीयम् । तयोः कृते उत्सवरूपोयं संस्कारः । अत्र संस्कारः, नृत्यं, गानं, वादनम् इत्यादि भवति । पत्न्याः मनोरञ्जनार्थं सोमस्य स्तुतिः भवति । यदा चन्द्रः पुरुषवाचकनक्षत्रेण युक्तः भवति तदा एव एषः संस्कारः भवति ।

जातकर्मसंस्कारः

जातकर्मसंस्कारः नवजातशिशोः संवर्धनार्थं तथा च तस्य परिपोषणार्थं भवति । एतस्मिन् नाभिवर्धनात्पूर्वं पञ्च ब्राह्मणैः वैश्वानरः अग्नेः स्तुतिः भवति । तथा च आहुतिः अपि देयं भवति । येन शिशोदीर्घायुष्यम् एवम् अभ्युदयश्च भवति ।

नामकरणसंस्कारः

अयं संस्कारः शिशोः जन्मानन्तरदश वा एकादशदिनानन्तरं भवति । गोपनीयं नाम तु जातकर्मसंस्कारे एव भवति । उच्चारणार्हं नाम् एतस्मिन् दिने भवति । शुभमुहूर्ते च नक्षत्रे मघुरध्वनियुतं नामचतुराक्षरैः वा द्वि अक्षरात्मकं भवति ।

"https://sa.wikipedia.org/w/index.php?title=संस्काराः&oldid=149733" इत्यस्माद् प्रतिप्राप्तम्