"यतन्तो योगिनश्चैनं..." इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) removed Category:हिन्दूधर्मः using HotCat |
(लघु) removed Category:प्रस्थानत्रयम्; added Category:१५. पुरुषोत्तमयोगः using HotCat |
||
पङ्क्तिः २३: | पङ्क्तिः २३: | ||
*[[भगवद्गीता]] |
*[[भगवद्गीता]] |
||
[[वर्गः: |
[[वर्गः:१५. पुरुषोत्तमयोगः]] |
||
[[ar:البهاغافاد غيتا]] |
[[ar:البهاغافاد غيتا]] |
११:४०, ५ डिसेम्बर् २०११ इत्यस्य संस्करणं
- यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।
- यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ ११ ॥
पदच्छेदः
यतन्तः योगिनः च एनं पश्यन्ति आत्मनि अवस्थितम् यतन्तः अपि अकृतात्मानः नैनं पश्यन्ति अचेतसः ॥ ११ ॥
अन्वयः
यतन्तः योगिनः च एनम् आत्मनि अवस्थितं पश्यन्ति । यतन्तः अपि अकृतात्मानः अचेतसः एनं न पश्यन्ति ।
पदार्थः
- यतन्तः = प्रयत्नवन्तः
- योगिनः = समाहितचित्ताः
- अवस्थितम् = विद्यमानम्
- अकृतात्मानः = असंस्कृतात्मानः
- अचेतसः = अविवेकिनः ।
तात्पर्यम्
ध्यानादिभिः सततं प्रयतमाना एव ज्ञानिनः देहे वर्तमानमिमं द्रष्टुं शक्नुवन्ति । किन्तु शास्त्रदिभिः प्रयतमाना अपि कश्मलचित्ताः देहे वर्तमानमपि इमं द्रष्टुं न शक्नुवन्ति ।